निहतमिति ॥ ३।२८।१ ॥
रक्षसामिदं राक्षसं सैन्यं हतं दृष्ट्वेत्यन्वयः ॥ ३।२८।२ ॥
हतभूयिष्ठमल्पावशेषम् ॥ ३।२८।३,४ ॥
शिक्षया धनुर्विद्याभ्यासेन मार्गाञ्शरसन्धानक्षेपणादिप्रकारभेदान्दर्शयन्रथस्थः खरः समरे चचार अनेकविधरथसञ्चरणैः ॥ ३।२८।५,६ ॥
स रामः नभ आकाशमविवरं नीरन्ध्रं चकार ॥ ३।२८।७ ॥
पर्याकाशं परितो विद्यमानमाकाशमनाकाशं निरवकाशं बभूव ॥ ३।२८।८११ ॥
सर्वसैन्यस्य हन्तारं रामं खरः परिश्रान्तं मेने । अनेनायं प्रहारावसर इति खरबोधः सूचितः । अत एवानुपदं तेन रामधनुषश्छेदः ॥ ३।२८।१२१४ ॥
मुष्टिदेशे धनुर्ग्रहणप्रदेशोपरिदेशे ॥ ३।२८।१५ ॥
स खरः मर्मणि कवचबन्धसन्धिषु ॥ ३।२८।१६,१७ ॥
प्रहतं कवचं पपात ॥ ३।२८।१८ ॥
शरैरर्पितः संक्षतः कृतः ॥ ३।२८।१९,२० ॥
महर्षिणा ऽगस्त्येन अतिसृष्टं दत्तम्, वरं श्रेष्ठम् ॥ ३।२८।२१,२२ ॥
देवतानामाज्ञया सूर्य इवेति कविकल्पितोपमानिकोपमेयम् ॥ ३।२८।२३२५ ॥
अभिलक्षितानभिलक्षितविषयान् ॥ ३।२८।२६ ॥
तानेव विषयानाह– शिरस्येकेनेत्यादि ॥ ३।२८।२७ ॥
भास्करोपमानित्यस्य गृहीत्वेति शेषः ॥ ३।२८।२८ ॥
उपात्तत्रयोदशानां विनियोगमाह– रथस्येत्यादि ॥ ३।२८।२९ ॥
त्रिवेणुर्नाम रथमुख्यो युगाधारदण्डः ॥ ३।२८।३० ॥
प्रहसन्निव लीलयैव बिभेद खरं हृदीति शेषमाह कतकः ॥ ३।२८।३१,३२ ॥
महारथस्य पूज्यस्य तत्कर्म दृष्ट्वेति शेषः, अपूजयन् नमस्कारस्तुत्यादिभिस्तमतोषयन्नित्यर्थः ॥ ३।२८।३३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे ऽष्टाविंशः सर्गः ॥ ३।२८ ॥