०२७ त्रिशिरो वधः

खरमिति । संनिपत्य त्वरया तत्समीपमागम्य ॥ ३।२७।१ ॥

विनिपातितं मयेति शेषः ॥ ३।२७।२ ॥

आलभे स्पृशामि । यथा वधिष्यामि तथा प्रयतिष्ये इति शेषः । सर्वरक्षसां वधार्हं सर्वरक्षसां वध्यमित्यर्थः ॥ ३।२७।३ ॥

“अहं वा समरे” इति पाठे मृत्युरित्यस्यास्येति शेषः । “रणोत्साहात्” इति पाठे ततो मनो निवर्त्येत्यर्थः । प्राश्निको मध्यस्थः उभययुद्धसाक्षीत्यर्थः ॥ ३।२७।४ ॥

संयुगाय संयुगं कर्तुम् ॥ ३।२७।५ ॥

मृत्युलोभान्मृत्युकृतयुद्धलोभात् । मृत्युसमये रक्षःप्रकृतिविपर्ययात्तस्य भगवत्तत्त्वं ज्ञात्वा तद्धस्तमृत्युलोभादित्यर्थश्च । युध्य युद्धं कुरुष्व । अनुज्ञातः खरेणेति शेषः ॥ ३।२७।६,७ ॥

जलार्द्रस्येति । अनेन नादवैपरीत्येन मृत्युसांनिध्यं सूचितम् ॥ ३।२७।८११ ॥

अहो इत्यादि व्यङ्ग्योक्तिः । पुष्पैरिव परिक्षत इत्यनेन त्वगपि न विद्धेत्याशयः ॥ ३।२७।१२,१३ ॥

वाजिनस्तुरगान् वेगवतो ऽश्वानित्यर्थः ॥ ३।२७।१४,१५ ॥

हतरथाद्धतहयसारथिकाद्रथात् ॥ ३।२७।१६ ॥

जडः आयुधपरिग्रह इति शेषः ॥ ३।२७।१७,१८ ॥

पूर्वं पतितैः शिरोभिरुपलक्षितः पश्चान्न्यपतत् । “चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्” इति सेनोद्योगे खरोक्तेश्चतुर्दश सहस्राणि हतानि खरत्रिशिरसावेवावशिष्टाविति पूर्वसर्गान्ते उक्तेर्हतशेषान्निवर्त्येति अत्रत्योक्तेश्चतुर्दशसहस्रं यूथपा अत्रेति ज्ञायते । हतशेषा इति तु खरीयमूलबलाभिप्रायं बोध्यम् ॥ ३।२७।१९२१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे सप्तविंशः सर्गः ॥ ३।२७ ॥