दूषणस्त्विति ॥ ३।२६।१ ॥
पञ्चसाहस्रान्स्वसैन्यरूपान् ॥ ३।२६।२,३ ॥
प्रतिजग्राह रुरोध । निमीलितो वर्षधारया निमीलिताक्षः ॥ ३।२६।४६ ॥
क्षुरेण क्षुरधारेण शरेण ॥ ३।२६।७,८ ॥
तद्रक्षः कर्म व्यधने रामः कर्ता ॥ ३।२६।९,१० ॥
परेषां शत्रूणां वसयोक्षितं सिक्तम् । शत्रूणां गाव इन्द्रियाणि तेषां पुरं शरीरं तस्य दारणं विदारणम्, यद्वा तेषां पुरद्वारविदारकम् ॥ ३।२६।१११३ ॥
हस्तच्छेदानन्तरं भ्रष्टो घूर्णनेन स्थानाद्भ्रष्टः तथा छिन्नहस्तस्य परिघः पपात ॥ ३।२६।१४ ॥
विकीर्णाभ्यां विक्षिप्ताभ्यां भुजाभ्यामुपलक्षितो दूषणश्च पपात विगतामुरिति शेषः । विषाणाभ्यां दन्ताभ्याम् ॥ ३।२६।१५,१६ ॥
संहत्य मिलित्वा । मृत्युपाशेनावपाशिता बद्धाः ॥ ३।२६।१७२२ ॥
पञ्चसाहस्रान्पञ्चसाहस्रैरित्यनेन भगवतो़ ऽमोघेषुत्वं सूचितम् ॥ ३।२६।२३,२४ ॥
हलध्वमित्यार्षम् ॥ ३।२६।२५३० ॥
शतमेकेन शतेन तत्सङ्ख्याकेन कर्णिना बाणविशेषेण । एवं सहस्रं सह्स्रेण ॥ ३।२६।३१ ॥
शोणितादिग्धाः शोणितलिप्ताः ॥ ३।२६।३२ ॥
विस्तीर्णा विशेषेण छन्ना महावेदिरश्वमेधादिवेदिः ॥ ३।२६।३३,३४ ॥
मानुषेण मानुषवेषेणापि ॥ ३।२६।३५ ॥
त्रिशिराश्चैवेति । स्वस्वमूलबलेन सहेति शेषः ॥ ३।२६।३६,३७ ॥
उद्यताशनिरुद्यतवज्रः ॥ ३।२६।३८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षड्विंशः सर्गः ॥ ३।२६ ॥