उकारान्तो ऽपि धनुःशब्दो धनुर्वाचकः अवष्टब्धमवलम्बितं धनुर्येन तम् ॥ ३।२५।१ ॥
रामस्याभिमुखं रथश्चोद्यतामिति सूतमचोदयत् ॥ ३।२५।२,३ ॥
सचिवाः श्येनगाम्यादयः ॥ ३।२५।४ ॥
लोहिताङ्गो भौमः स इव क्रोधेनास्यापि रक्ताङ्गत्वात् ॥ ३।२५।५ ॥
अर्दयित्वा ऽर्दयित्वेव ॥ ३।२५।६८ ॥
बलाहका मेघाः ॥ ३।२५।९११ ॥
तिथिषु प्रदोषतिथिषु । पारिषदां नुडभाव आर्षः ॥ ३।२५।१२ ॥
प्रतिजग्राह तानि शस्त्राणि स्वशरैरवरुरोघ । नद्योघा नदीप्रवाहाः ॥ ३।२५।१३ ॥
वज्रैरिव महाचल इत्यनेन लेशतो ऽपि व्यथाभावः । स विद्धः अनेन द्रष्टृ़णां किञ्चिद्घृणित्वं सूचयति । आदिग्ध आलिप्तः ॥ ३।२५।१४ ॥
अत एव देवादयो विषेदुः ॥ ३।२५।१५,१६ ॥
दुरावारानशक्यनिवारणान् दुर्विषहान् अतिपीडाजनकानिति यावत् ॥ ३।२५।१७ ॥
कङ्कपत्रांस्तद्युतशरान् लीलयेति युगपत्सकलप्रपञ्चसंहारस्वरूपस्यैतावन्मात्रं लीलैवेति नाश्चर्यायेति भावः ॥ ३।२५।१८ ॥
रुधिराप्लुतास्तत्सिक्ताः ॥ ३।२५।१९ ॥
अत एव दीप्ताग्निसमतेजसः चापमण्डलात् सन्धानमोचनशैघ्यान्मण्डलाकारता चापस्य ॥ ३।२५।२० ॥
चर्माणि फलकान् ॥ ३।२५।२१ ॥
सहस्ताभरणान्साङ्गदान् ॥ ३।२५।२२,२३ ॥
छेदभेदौ द्वैधीभावविदारणरूपौ । पदातीन्हत्वा यमगृहेमप्रापयदित्यन्वयः ॥ ३।२५।२४ ॥
नालीका मुखमात्रायःसंयुक्ताः, नाराचाः सर्वत आयसाः, विकर्णिनो ऽग्राङ्कुशा उद्धारे प्राणहराः ॥ ३।२५।२५२७ ॥
आवार्य वारितानि कृत्वा ॥ ३।२५।२८ ॥
सुपर्णवातेन गरुडपक्षवातेनामृतहरणयुद्धे विक्षिप्ता भग्नोः पादपा नन्दनस्थाः कल्पवृक्षादयो यथा तद्वत् । समग्रालङ्कारयुतशरीरत्वाद्रक्षस्तनुनां कल्पवृक्षादिसाम्यमिति कतकः ॥ ३।२५।२९ ॥
अवशिष्टा हतावशिष्टाः ॥ ३।२५।३० ॥
तान्सर्वाञ्शरणार्थिनः क्रुद्धं रामं क्रुद्धो ऽन्तक इवाभ्यधावत् ॥ ३।२५।३१ ॥
दूषणाश्रयेण दूषणाश्रयबलेन निर्भयाः ॥ ३।२५।३२३५ ॥
ततः सर्वा दिशः प्रदिशश्चावृता दृष्ट्वा स रामो भैरवं नादं कृत्वा सर्वतः प्राप्तै राक्षसैः शरवर्षाभिः शरवृष्टिभिरावृतः कालोचितं परमभास्वरं गान्धर्वमस्त्रं राक्षसेषु राक्षसविषये समयोजयत् । धनुषीत्यर्थः ॥ ३।२५।३६३८ ॥
नाददानमिति । अतिशैघ्यवशाच्छरग्रहणमोचने न पश्यन्ति, किं तु विकर्षमाणमेव धनुः पश्यन्ति ॥ ३।२५।३९ ॥
दिवाकरसहितमाकाशं कर्म शरान्धकारं कर्तृं आवृणोत् । अन्धकारो ऽस्त्रियाम् । प्रक्षिपन्निव भूयो भूयः प्रक्षिपन्नेवेत्यर्थः । इवशब्द एवार्थे ॥ ३।२५।४० ॥
विकीर्णा कृताच्छादना । “विस्तीर्णा” इति पाठे ऽप्ययमेवार्थः ॥ ३।२५।४१ ॥
निहताः सद्योहताः, पतिताः पातानन्तरं मृताः, क्षीणाः कण्ठगतप्राणाः । छिन्नभिन्नौ व्याख्यातौ ॥ ३।२५।४२ ॥
विभूषणैरुपलक्षिताः राक्षसा इति शेषः ॥ ३।२५।४३,४४ ॥
विच्छिन्नैर्विशेषतश्छिन्नैश्चामरादिभिर्विशेषतश्छिन्नैः शूलपट्टिशैश्चेत्यर्थः ॥ ३।२५।४५ ॥
रामं चलितुं रामं प्रति संमुखं गन्तुम् ॥ ३।२५।४६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चविंशः सर्गः ॥ ३।२५ ॥