०२४ रामस्य युद्धोद्योगः

औत्पातिकानुत्पातान्, स्वार्थे ठक् ॥ ३।२४।१ ॥

अत्यमर्षणो ऽत्यस्वस्थचितः प्रजानां प्रकृतत्वाद्राक्षसा एवात्र प्रजाः ॥ ३।२४।२ ॥

सर्वभूतापहारिणस्तत्सूचकान्प्रकृते सर्वराक्षसान् । संहर्तुं तत्संहारं सूचयितुम् ॥ ३।२४।३,४ ॥

राक्षसानां दुर्निमित्तान्युक्त्वा स्वस्य जयसूचकान्याह– सधूमा इति । उत्पातवशाद्धूमसंवृद्धाः मम युद्धे ऽभिनन्द आनन्दो येषां सञ्जातस्तादृशाः अत एव विचेष्टन्ते तूणीरेषु चलन्ति स्वगतानन्दस्य शरेषूपचारः चापानि च विचेष्टन्ते स्वाधिष्ठातृदेवतासांनिध्यात्स्फुरज्ज्यानि भवन्ति ॥ ३।२४।५ ॥

अग्रत आसन्नदेशकाले नो भयं जीवितसंशयश्च प्राप्तः । अभयं प्राप्तं चादसुराणां जीवितस्य संशयः प्राप्त इत्यर्थ इति तीर्थः ॥ ३।२४।६ ॥

संप्रहारो रणः । एवं भयेष्वपि स्वस्याभयसूचकं निमित्तमाह– अयमिति । स्पुरमाणः स्फुरन् । दक्षिण इति शेषः । तीर्थव्याख्याने जयसूचकान्तरमाहेति व्याख्ययेम् ॥ ३।२४।७ ॥

संनिकर्षे आसन्नकाले जयमित्यादेराख्यातीत्यनेनान्वयः । तवाप्यङ्गं शुभसूचकमित्याह– सुप्रभमिति ॥ ३।२४।८ ॥

येषां च वदनं निष्प्रभं भवति तेषामायुःक्षयो भवति वर्तमानसामीप्ये लट् नैवमस्माकमिति शेषः । येषामायुःक्षयो भवति तेषां वदनं निष्प्रभमिति व्याख्याने बीजं चिन्त्यम् ॥ ३।२४।९,१० ॥

अनागतस्याजिगमिषितस्यानिष्टस्य विधानं प्रतिविधानं परिहारः ॥ ३।२४।११ ॥

आश्रमं हित्वा शैलस्य दुर्गामितरैर्गन्तुमशक्यां गुहामाश्रय ॥ ३।२४।१२ ॥

इदं वाक्यं मयोच्यमानं त्वया प्रतिकूलितुं विपरीतं कर्तुं नेच्छामि । भिन्नकर्तृके तुमुन्नार्षः । उक्तं कुर्वित्यर्थः, मा चिरमविलम्बेन ॥ ३।२४।१३ ॥

त्वं हीति । अनेनासामर्थ्यान्मां वारयतीति शङ्का निराकृता । स्वयमिति । तथैव शापोद्धारस्य सत्त्वादिति भावः ॥ ३।२४।१४,१५ ॥

हन्तेति हर्षे । निर्युक्तं शीघ्रमस्मदुक्तं निर्व्यूढमित्युक्त्वा कवचमाविशद्धृतवान् ॥ ३।२४।१६ ॥

नानारत्नकान्त्या ऽग्निसादृश्यं कवचे ॥ ३।२४।१७ ॥

संबभूवास्थितः सम्यगास्थितं बभूवेत्यर्थः ॥ ३।२४।१८,१९ ॥

लोके ब्रह्मर्षिसत्तमाः । त्रैलोक्ये ऽपि ब्रह्मर्षित्वेन प्रसिद्धा इत्यर्थः । पुण्यकर्मणः पुण्यकर्माणः अदीर्घत्वमार्षम् ॥ ३।२४।२० ॥

गोब्राह्मणानामिति षष्ठी चतुर्थ्यर्थे आर्षी तेभ्य इत्यर्थः । “लोकानां ये ऽभिसंगता” इति पाठे लोकानां लोकपालानां संगताः । हविर्होमादिद्वारोपकारका इत्यर्थः ॥ ३।२४।२१,२२ ॥

धर्मात्मा अच्छद्मयोधीत्यर्थः ॥ ३।२४।२३ ॥

सगणा विद्याधरादिदशदेवयोनिगणसहिताः । इतीत्यस्य वदन्त इति शेषः ॥ ३।२४।२४ ॥

तेजसा वैष्णवेन क्षात्रेण एतेन सहजस्वभावो भगवतो ब्राह्म एव क्षात्रस्तु स्वेच्छया कार्याय भगवता स्वीक्रियत इति सूचितम् ॥ ३।२४।२५ ॥

रुद्रस्य रूपमिव रामस्य रूपमप्रतिमम् ॥ ३।२४।२६ ॥

इति वाक्ये संभाषमाणे त्वित्यर्थः ॥ ३।२४।२७ ॥

अन्योन्यमभिगच्छताम् । एवं युद्धं कर्तव्यमिति च बोधनार्थमिति शेषः ॥ ३।२४।२८ ॥

जृम्भतां देहममताराहित्येन युद्धप्रवृत्तये मादकद्रव्यस्वीकारजं जृम्भणम् अभीक्ष्णशः पुनःपुनः । “पुनः पुनः” इत्येव पाठः विप्रघुष्टो ऽतिशयेन कृतः स्वनो यैस्तेषाम् ॥ ३।२४।२९,३० ॥

यत्र निःशब्दं शब्दाभावस्तं देशं दुद्रुवुः । पृष्ठतो नावलोकयन् भीतिवशादिति शेषः ॥ ३।२४।३१३३ ॥

सर्वरक्षसां वधार्थं सर्वरक्षोवधद्वारत्वादस्य युद्धस्येति भावः । क्रोधमाहारयत्प्राप्तवान् ॥ ३।२४।३४ ॥

प्राव्यथन्प्राव्यथन्त ॥ ३।२४।३५ ॥

नीलाभ्रजालस्थानीया राक्षसाः सूर्योदयः सूर्यकिरणस्थानीयः कार्मुकादिसंबन्धः ॥ ३।२४।३६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुर्विंशः सर्गः ॥ ३।२४ ॥