०२३ खरेणोत्पातदर्शनम्

अथ खरप्रस्थाने उत्पातवर्णनम्– शोणितसहितमुदकम् । प्रयातं प्रस्थितं गर्दभारुणो धूसरः तुमुलस्तुमुलशब्दः, अभ्यवर्षत् मेघ इति शेषः ॥ ३।२३।१ ॥

रथयुक्ता रथे युक्ताः पुष्पचिते पुष्पयुते अनेन पातनिमित्तराहित्यम् ॥ ३।२३।२ ॥

रुधिरो रक्तवर्णः पर्यन्तः प्रान्तभागो यस्य अलातचक्रप्रतिमं तद्वद्वर्तुलं दिवाकरं प्रतिगृह्य सूर्यमण्डलेनात्यन्तं संबध्य ॥ ३।२३।३,४ ॥

खरस्वनाः परुषशब्दाः ॥ ३।२३।५ ॥

अभिदीप्तायां रवियुक्तायाम् “विवस्वदाप्ता भवति प्रदीप्ता” इति वसन्तराजोक्तेः । शिवा यातुधानानामशिवमशुभं व्याजः ॥ ३।२३।६ ॥

“प्रभिन्नगज” इति पाठे मत्तगजेत्यर्थः । “प्रभिन्नगिरि” इति पाठे गैरिकादिधातुस्राविण इत्यर्थः । तोयमिव शोणितं धरन्ति । अनाकाशमप्रकाशम् ॥ ३।२३।७ ॥

उद्धतं सान्द्रम् ॥ ३।२३।८ ॥

क्षतजार्द्रसवर्णाभा रुधिरार्द्रवस्त्रादिसमानवर्णा सन्ध्येति विशेष्यम् कालं विना बभौ । मेघेष्विति शेषः ॥ ३।२३।९ ॥

युद्धे नित्यमशिवकरा अशुभशंसिन्यः शिवा घोरनिदर्शना भयदर्शिकाः खरबलस्य चाभिमुखं नेदुः । पूर्वं दिगभिमुखं शिवाशब्द उक्तः इदानीं खरसैन्याभिमुख्येनेति भेदः । परिघाभासः परिघ आयुधविशेषस्तत्सदृशः कबन्धो धूमकेतुरिति तीर्थः ॥ ३।२३।१०,११ ॥

शीघ्रं प्रचण्डं यथा भवति तथेत्यर्थः । संमुख इति शेषः ॥ ३।२३।१२ ॥

खद्योतसप्रभत्वं निस्तेजस्कत्वेन चाञ्चल्येन च ॥ ३।२३।१३ ॥

विना पुष्पफलैः पुष्पादिरहिता बभूवुरित्यर्थः । उद्धूत उत्क्षिप्तः जलघरारुणो धूसरः ॥ ३।२३।१४ ॥

चीचीकूचीति शब्दानुकरणं वाश्यन्तः आर्षम् । न तु शिक्षितं शब्दमित्यर्थः ॥ ३।२३।१५,१६ ॥

सव्यो वामः । स्वरश्चावसज्जत हीनो ऽभूदित्यर्थः ॥ ३।२३।१७ ॥

तानुत्पातानुत्थितान्समीक्ष्यापि मोहान्न न्यवर्तत युद्धयात्राया इति शेषः ॥ ३।२३।१८२० ॥

बलोत्सिक्तं बलाधिकम् ॥ ३।२३।२१ ॥

यन्निमित्तं शूर्पणखानिमित्तं विपर्ययः क्रूरबुद्धिरूपः ॥ ३।२३।२२,२३ ॥

एतन्मम पराजयाभावरूपं वस्तु ॥ ३।२३।२४२६ ॥

पुण्यकर्मणः पुण्यकर्माण इत्यर्थे आर्षम् ॥ ३।२३।२७ ॥

ये लोकानां संमता गोब्राह्मणव्यतिरिक्तास्तेभ्यश्च स्वस्तीत्यर्थः ॥ ३।२३।२८३० ॥

सैन्यस्याग्राद्विनिःसृतः पूर्वं सैन्यसंबद्ध एव तदग्रभागे स्थितः, इदानीं तु सेना बहुदूरे पृष्ठतस्त्यक्त्वा स्वयमेवाग्रे गत इत्यर्थः । श्येनगाम्यादयो द्वादश खरामात्याः ॥ ३।२३।३१३३ ॥

सा सेना । तौ राजपुत्रौ । सहसा तत्क्षणमेवाभ्युपेतेत्यन्वयः ॥ ३।२३।३४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रयोविंशः सर्गः ॥ ३।२३ ॥