०२२ खरस्य युद्धसिद्धता

आधर्षितः कोपादवमानितः । खरस्तीक्ष्णगुणः खरतरं तीक्ष्णतरम् ॥ ३।२२।१ ॥

तवापमानेत्यस्य त्वत्कृतापमानेत्यर्थः । धारयितुम् आत्मनीति शेषः । ममेति मयेत्यर्थे संबन्धे षष्ठी । लवणाम्भ इवोल्बणम् व्रण इति शेषः । व्रणे निक्षिप्तं लवणयुक्तमम्भ इव धारयितुं न शक्यत इत्यर्थ इति तीर्थः । लवणाम्भो लवणसमुद्राम्भ इवेत्यर्थ इति कतकः ॥ ३।२२।२ ॥

आत्मदुश्चिरितैस्त्वद्विरूपकरणरूपैः स्वयं हत एव मद्दर्शनात्प्राणान्मोक्ष्यते तं रामं न गणये इत्यन्वयः । वीर्यात्स्वपराक्रमात् ॥ ३।२२।३ ॥

संभ्रमो भयम् ॥ ३।२२।४ ॥

परश्वधहतस्येति । परश्वधस्तस्य मुख्यमायुधमित्यनेन ज्ञायते । रुधिरं रक्तम्, रक्तवर्णमित्यर्थः ॥ ३।२२।५ ॥

मौर्ख्यादव्यवस्थितचित्ततालक्षणात् । पुनः प्रशशंस, च, त्वत्समो वीरो नास्तीत्येवमादि ॥ ३।२२।६ ॥

तदेवाह तयेति ॥ ३।२२।७ ॥

यानि लोकानां प्राणिनां हिंसैवासाधारण्येन विहारः क्रीडा, येषां रक्षसां चतुर्दश सहस्राणि वर्तन्ते, तेषां सर्वोद्योगं सर्वप्रकारेणोद्योगं चतुरङ्गबलोपेततया सर्वायुधसामग्रीसमेततया चोद्योगं कारय ॥ ३।२२।८१० ॥

पौलस्त्यानां राक्षसानामग्रे रामस्य वधार्थं निर्यातुमिच्छामीत्यन्वयः ॥ ३।२२।११ ॥

शबलैश्चित्रवर्णैः आचचक्षे उपस्थितमिति शेषः ॥ ३।२२।१२ ॥

वैदूर्यमयौ कूबरौ युगन्धरौ यस्य तम् असंबाधं विशालम् ॥ ३।२२।१३ ॥

माङ्गल्यैर्मङ्गलमलङ्कारस्तत्प्रयोजनैः । काञ्चनैरिति मत्स्यादिसर्वान्वयि ॥ ३।२२।१४ ॥

किंकिणी क्षुद्रघण्टिका । अमर्षात्क्रोधात् ॥ ३।२२।१५ ॥

तन्महत्सैन्यं प्रेक्ष्य तत्प्रतिनिर्यातेत्यब्रवीत् । दूषणः दूषणश्चेत्यर्थः ॥ ३।२२।१६ ॥

तत उभयनियोगानन्तरं राक्षसं रक्षसामिदम् ॥ ३।२२।१७ ॥

मुद्गरादय आयुधविशेषाः । वज्रैर्वज्राकारैरष्टास्रैरायुधैः ॥ ३।२२।१८२० ॥

खरस्य रथो ऽपि सेनास्थानात्किञ्चिदनन्तरं सर्वसेनानिर्याणं किञ्चित्कालं प्रतीक्ष्य जगामेत्यर्थः ॥ ३।२२।२१ ॥

मतमाज्ञायाभीष्टं ज्ञात्वा ॥ ३।२२।२२ ॥

सञ्चोदित इत्यादि श्लोकद्वयं कतकसङ्ख्यारीत्या प्रक्षिप्तम् ॥ ३।२२।२३,२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्वाविंशः सर्गः ॥ ३।२२ ॥