अनर्थार्थं स्वकुलस्येति शेषः ॥ ३।२१।१,२ ॥
भक्ता अत एव मय्यनुरक्ता अत एव मम हिताः परैर्हन्यमाना अपि ये न हन्यन्ते न हन्तुं शक्यन्ते । मम वचो न कुर्युरिति च न तत्किमर्थं रुद्यत इत्यर्थः ॥ ३।२१।३ ॥
यत्कृते यच्छोकनिमित्तम् ॥ ३।२१।४६ ॥
अहमिदानीं पूर्वं त्वत्समीपं प्राप्तास्मि त्वया च परिसान्वितास्मि । शूराश्च मदर्थं प्रेषितास्तद्वृत्तान्तं वक्ष्यामीति ॥ ३।२१।७९ ॥
क्षणेनैव न तु चिरकालयुद्धपूर्वमित्यर्थः । रामस्य च महत्कर्म दृष्ट्वेत्यनुषङ्गः ॥ ३।२१।१० ॥
भीता अत एव समुद्विग्ना कम्पमाना अत एत विषण्णा दुःखिता, सर्वतो भयदर्शिनी सर्वतो रामप्रतिभासनात् ॥ ३।२१।११,१२ ॥
ये च मे पदवीं प्राप्तस्त एते भूमौ स्थितेन पदातिना रामेण हताः ॥ ३।२१।१३ ॥
यदि ते शक्तिः योद्धुमिति शेषः ॥ ३।२१।१४,१५ ॥
निरपत्रपा छिन्नकर्णनासिकत्वात् । खरस्य क्रोधोत्पत्त्यर्थमाह बुद्ध्येति ॥ ३।२१।१६ ॥
सबलो ऽपि चतुरङ्गबलोपेतो ऽपि महारणे इत्युत्तरान्वयि । मिथ्या मृषैव स्वस्मिन्नारोपितो विक्रमो येन ॥ ३।२१।१७ ॥
अतस्त्वं सहबान्धवस्त्वरितो जनस्थानादपयाहि निर्गच्छ समरे तौ त्वं जहि हे कुलपांसन? अन्यथा तु ॥ ३।२१।१८ ॥
तदेव व्याचष्टे मानुषाविति । तौ हन्तुं यदि न शक्नोषि तदा निर्वीर्यत्वादिगुणस्य ते इह कीदृशो वासः जुगुप्सित एवेत्यर्थः ॥ ३।२१।१९ ॥
तामेव शक्तिं द्रढयति रामतेज इति ॥ ३।२१।२० ॥
प्रदरोदरी निम्नोदरी ॥ ३।२१।२१,२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकविंशः सर्गः ॥ ३।२१ ॥