तत इति । सह सीतया वर्तमानाविति शेषः ॥ ३।२०।१३ ॥
प्रत्यनन्तरः प्रत्यासन्नः पालक इति यावत् । अस्याः पदवीं मार्गम् अस्याः पक्षपातेनास्मद्वधार्थमागतानिति यावत् ॥ ३।२०।४,५ ॥
चामीकरं स्वर्णम् ॥ ३।२०।६,७ ॥
उपहिंसथ यूयम् अस्मानिति शेषः ॥ ३।२०।८ ॥
अनपकारिणामस्माकं हिंसार्थया युष्मत्प्रवृत्त्या युष्मद्वधार्थमस्मदपेक्षितनिमित्तं संपन्नमित्याह युष्मानिति । विप्रकारान्भवत्कृतपीडारूपान्निमित्ताज्जातनियोगेन युष्मान्हन्तुं सशरासनो ऽहं संप्राप्तः संप्राप्तनिमित्तः, यद्वा विप्रकारानित्यर्शआद्यजन्तम् । अस्मास्वस्मदीयेषु च वृथा वैरवतो युष्मानित्यर्थः ॥ ३।२०।९ ॥
अतः सन्तुष्टा मत्तः प्राप्तयुद्धसन्तोषा यूयमत्र तिष्ठतैव नोपावर्तितुमर्हथ । “उपसर्पितुम्” इति पाठे ऽप्ययमेवार्थः । इहार्थः इहलोके देहे चेत्यर्थः ॥ ३।२०।१० ॥
ब्रह्मघ्ना इत्यार्षः ॥ ३।२०।११ ॥
अदृष्टपराक्रममिति छेदः । सन्धिरार्षः ॥ ३।२०।१२,१३ ॥
स्थातुमपि का ते शक्तिरिति योजना ॥ ३।२०।१४१७ ॥
तावद्भिश्चतुर्दशरक्षोविमुक्तचतुर्दशशूलसंख्याकैः ॥ ३।२०।१८ ॥
शिलाशिताञ्शाणोपलनिघृष्टान् ॥ ३।२०।१९,२० ॥
विनिष्पेतुर्विनिष्पत्य च निममज्जुः । वल्मीकाद्वल्मीकं प्राप्य पन्नगा इव निमग्ना इत्यर्थः ॥ ३।२०।२१,२२ ॥
नासाकर्णक्षतांशे किंचित्संशुष्कशोणितत्वात्सनिर्यासा वल्लरीव ॥ ३।२०।२३,२४ ॥
उत्तरसर्गार्थस्य सङ्क्षेपतः कथनम् ॥ ३।२०।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे विंशतितमः सर्गः ॥ ३।२० ॥