अथ पूर्वसर्गान्ते संक्षिप्ततया कथितार्थस्यैव विस्तारः तामिति ॥ ३।१९।१ ॥
प्रमोहो विसंज्ञता, संभ्रमश्चित्ताप्रतिष्ठानम् । एवंरूपा अतिप्रसिद्धसौन्दर्या त्वं केन विरूपितेत्यन्वयः ॥ ३।१९।२ ॥
आशिषि दंष्ट्रायां विषं यस्य तं पृषोदरादित्वात्साधुः । अभिसमापन्नमभिमुखे स्थितं तुदति व्यथयति ॥ ३।१९।३ ॥
उत्तमं विषं त्वद्विरूपतालक्षणम् ॥ ३।१९।४ ॥
अन्तकसमा त्वं कस्य समीपं गता येनेमामवस्थां नीता, अन्तकसमा त्वं केनेमामवस्थां नीता सती अत्रागतेत्यर्थो वा ॥ ३।१९।५ ॥
महात्मनां मध्ये इति शेषः ॥ ३।१९।६ ॥
महेन्द्रमिति । सहस्राक्षत्वापाकशासनत्वे विशेषणे महेन्द्रमित्यस्यान्तरेणेति शेषः । पश्यामीत्यत्र तमित्यध्याहारः । मनुष्यादीनां तु स्वाप्रियकरणे संभावनैव नेति भावः । क्वचित्तु “अन्तरेण सहस्राक्षम्” इत्येव पाठः ॥ ३।१९।७ ॥
जीवितस्यान्तं गमयन्ति प्रापयन्ति तैः तृषया निष्पिबन्सारसो हंसो यथा सलिल आसक्तं क्षीरमादत्ते एवं प्राणानादास्ये इत्यर्थः ॥ ३।१९।८ ॥
शरैः संकृत्तानि मर्माणि यस्य तस्य कण्ठकर्तनकालिकं सफेनमित्युपलक्षणम् । दीर्घधारं सोष्णं च ॥ ३।१९।९ ॥
सङ्गता मिलिताः पत्ररथाः पक्षिणः ॥ ३।१९।१०,११ ॥
विक्रम्य शौर्यं कृत्वा ॥ ३।१९।१२,१३ ॥
श्रीरामचन्द्रे दोषाणामभावाद्गुणोक्त्यैव तं बोधयति तरुणावित्यादि व्याख्यातप्रायम् ॥ ३।१९।१४,१५ ॥
देवौ वेति । यद्यपि दशरथपुत्रादाविति तत्सकाशाच्छ्रुतम्, अथाप्यमानुषचारित्र्यदर्शनादनिश्चय इति भावः ॥ ३।१९।१६,१७ ॥
तां प्रमदामधिकृत्य निमित्तीकृत्य ताभ्यामुभाभ्यां संभूयैकनियोगादपरेणेमामवस्थां नीता यथा ऽनाथा ऽसती कुलटा तथेत्यन्वयः ॥ ३।१९।१८ ॥
तस्या हताया इति विपरिणामः । रुधिरं पातुमिच्छामीत्यनेन स्वस्यास्तत्कामुकीत्वशङ्कां वारयति ॥ ३।१९।१९ ॥
उक्तमेवार्थमुत्कटेच्छाद्योतनाय पुनराह एष इति ॥ ३।१९।२० ॥
चतुर्दशेति ।
प्रभुतया रामे मानुष-बुद्ध्या च सेना-रहितानाम् एव चतुर्दशानां प्रेषणम् ।
यद्यपि
याज्ञवल्क्य-सुता राजंस्
त्रयो वै लोक-विश्रुताः ।
चन्द्रकान्त-महा-मेघ-
विजया ब्राह्मणोत्तमाः ॥
खरश् च दूषणश् चैव
त्रिशिरा ब्रह्मवित्तमाः ।
आसंस् तेषां च शिष्याश् च
चतुर्दश सहस्र-धा ।
इति शान्ति-धर्मे भीष्मोक्तेर्
अग्रे तेषां शिव-शापेन राक्षसत्वं
दाशरथेर् विष्णोर् हस्तेन शाप-मोक्षश् चोक्तः,
तथापि शाप-वशाद् एव
राक्षस-योनित्वाद् भगवद्-रूपाज्ञानम्,
आदौ प्राण-वियोग-काले च शापान्तं स्मृत्वा
तत्-स्व-रूप-ज्ञानात् स्व-स्वरूप-प्राप्तिः ।
ब्रह्म-वित्तमा इत्यत्र ब्रह्म वेद इत्य् आहुः ॥ ३।१९।२१,२२ ॥
मम भगिनीयं तेषां रुधिरं पास्यतीत्यन्वयः । अत्र रुधिरं मम पास्यतीति विपरीतार्थापत्तियुक्तवाक्येन तेषां संनिधानप्रयुक्तो बुद्धिमोहः सूचितः कविना ॥ ३।१९।२३२५ ॥
वातनुन्ना मेघा इव जग्मुरिति संबन्धः ॥ ३।१९।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकोनविंशः सर्गः ॥ ३।१९ ॥