०१९ खराय अङ्गवैरूप्यकथनम्

अथ पूर्वसर्गान्ते संक्षिप्ततया कथितार्थस्यैव विस्तारः तामिति ॥ ३।१९।१ ॥

प्रमोहो विसंज्ञता, संभ्रमश्चित्ताप्रतिष्ठानम् । एवंरूपा अतिप्रसिद्धसौन्दर्या त्वं केन विरूपितेत्यन्वयः ॥ ३।१९।२ ॥

आशिषि दंष्ट्रायां विषं यस्य तं पृषोदरादित्वात्साधुः । अभिसमापन्नमभिमुखे स्थितं तुदति व्यथयति ॥ ३।१९।३ ॥

उत्तमं विषं त्वद्विरूपतालक्षणम् ॥ ३।१९।४ ॥

अन्तकसमा त्वं कस्य समीपं गता येनेमामवस्थां नीता, अन्तकसमा त्वं केनेमामवस्थां नीता सती अत्रागतेत्यर्थो वा ॥ ३।१९।५ ॥

महात्मनां मध्ये इति शेषः ॥ ३।१९।६ ॥

महेन्द्रमिति । सहस्राक्षत्वापाकशासनत्वे विशेषणे महेन्द्रमित्यस्यान्तरेणेति शेषः । पश्यामीत्यत्र तमित्यध्याहारः । मनुष्यादीनां तु स्वाप्रियकरणे संभावनैव नेति भावः । क्वचित्तु “अन्तरेण सहस्राक्षम्” इत्येव पाठः ॥ ३।१९।७ ॥

जीवितस्यान्तं गमयन्ति प्रापयन्ति तैः तृषया निष्पिबन्सारसो हंसो यथा सलिल आसक्तं क्षीरमादत्ते एवं प्राणानादास्ये इत्यर्थः ॥ ३।१९।८ ॥

शरैः संकृत्तानि मर्माणि यस्य तस्य कण्ठकर्तनकालिकं सफेनमित्युपलक्षणम् । दीर्घधारं सोष्णं च ॥ ३।१९।९ ॥

सङ्गता मिलिताः पत्ररथाः पक्षिणः ॥ ३।१९।१०,११ ॥

विक्रम्य शौर्यं कृत्वा ॥ ३।१९।१२,१३ ॥

श्रीरामचन्द्रे दोषाणामभावाद्गुणोक्त्यैव तं बोधयति तरुणावित्यादि व्याख्यातप्रायम् ॥ ३।१९।१४,१५ ॥

देवौ वेति । यद्यपि दशरथपुत्रादाविति तत्सकाशाच्छ्रुतम्, अथाप्यमानुषचारित्र्यदर्शनादनिश्चय इति भावः ॥ ३।१९।१६,१७ ॥

तां प्रमदामधिकृत्य निमित्तीकृत्य ताभ्यामुभाभ्यां संभूयैकनियोगादपरेणेमामवस्थां नीता यथा ऽनाथा ऽसती कुलटा तथेत्यन्वयः ॥ ३।१९।१८ ॥

तस्या हताया इति विपरिणामः । रुधिरं पातुमिच्छामीत्यनेन स्वस्यास्तत्कामुकीत्वशङ्कां वारयति ॥ ३।१९।१९ ॥

उक्तमेवार्थमुत्कटेच्छाद्योतनाय पुनराह एष इति ॥ ३।१९।२० ॥

चतुर्दशेति । प्रभुतया रामे मानुषबुद्ध्या च सेनारहितानामेव चतुर्दशानां प्रेषणम् । यद्यपि “याज्ञवल्क्यसुता राजंस्त्रयो वै लोकविश्रुताः । चन्द्रकान्तमहामेघविजया ब्राह्मणोत्तमाः ॥ खरश्च दूषणश्चैव त्रिशिरा ब्रह्मवित्तमाः । आसंस्तेषां च शिष्याश्च चतुर्दश सहस्रधा ।” इति शान्तिधर्मे भीष्मोक्तेरग्रे तेषां शिवशापेन राक्षसत्वं दाशरथेर्विष्णोर्हस्तेन शापमोक्षश्चोक्तः, तथापि शापवशादेव राक्षसयोनित्वाद्भगवद्रूपाज्ञानमादौ प्राणवियोगकाले व शापान्तं स्मृत्वा तत्सरूपज्ञानात्स्वस्वरूपप्राप्तिः । ब्रह्मवित्तमा इत्यत्र ब्रह्म वेद इत्याहुः ॥ ३।१९।२१,२२ ॥

मम भगिनीयं तेषां रुधिरं पास्यतीत्यन्वयः । अत्र रुधिरं मम पास्यतीति विपरीतार्थापत्तियुक्तवाक्येन तेषां संनिधानप्रयुक्तो बुद्धिमोहः सूचितः कविना ॥ ३।१९।२३२५ ॥

वातनुन्ना मेघा इव जग्मुरिति संबन्धः ॥ ३।१९।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकोनविंशः सर्गः ॥ ३।१९ ॥