तामिति । कामपाशेनावपाशितां सञ्जातपाशबन्धाम् । “स्वेच्छाया” इति पाठे परिहासविनोदेनेत्यर्थः । अत एव स्मितपूर्वमिति तीर्थः । “स्वच्छन्दाम्” इति पाठो युक्तः । स्वेच्छाचारिणीमित्यर्थः ॥ ३।१८।१ ॥
कृतदार ऊढभार्यः भवतीति संबुद्धिः । इयं भार्या मम दयिता संनिहिता चेति शेषः । ससपत्नता सशत्रुता पत्युर्भार्यान्तरं हि भार्यान्तरस्य शत्रुभूतं भवति, सपत्नीसाहित्यमिति वार्थः । अगुणवचनत्वे ऽप्यार्षः पुंवद्भावः । सपत्नीशब्दश्च सपत्नप्रकृतिको ऽपि भर्तुद्वितीयभार्यायामेव रूढ इति ध्येयम् ॥ ३।१८।२ ॥
अकृतदारो ऽकृतपरदारपरिग्रह इति, धातूनामनेकार्थत्वादसंनिहितदार इति वा हृदिस्थो ऽर्थः । नहि रामो मिथ्या ब्रूते । परिहासादौ मिथ्याभाषणेन दोष इत्यनेन सूच्यते इति वयम् । एवमुत्तरत्रापि ॥ ३।१८।३ ॥
अपूर्वी इतः प्राग्भार्यासुखानभिज्ञः, अत एव भार्ययार्थी प्रयोजनवान् । आन्तराशयस्तु इतः पूर्वं परभार्यासुखानभिज्ञो भार्ययार्थी स्वाभार्यार्थीति अस्य ते रूपस्यायमनुरूपो भविष्यति यद्यङ्गीकरिष्यतीति शेषः ॥ ३।१८।४ ॥
भर्तारमेनं भजेत्यन्वयः । भर्तृत्वेन सेवस्वेति यावत् । असपत्ना सांप्रतमिति शेषः । अर्कप्रभा मेरुं यथा भजति तथा एवंविधो ऽपि वादो रामस्य स्वं प्रति काममोहतः प्राप्ताया द्राग्धिक्कारे दुःखं मा भूदित्याहुः ॥ ३।१८।५७ ॥
शूर्पनखीमिति शुद्धयौगिकम् ॥ ३।१८।८ ॥
दासस्य मे भार्या भूत्वा कथं दासी भवितुमिच्छसीति योजना । परवान्पराधीनः । कमलवर्णिनी रक्तकमलसदृशवर्णवती ॥ ३।१८।९,१० ॥
एतामिति । परमार्थस्तु विशिष्टरूपां विरूपां त्रैलोक्यसुन्दरीम् । असतीं न विद्यते ऽन्या सती यस्यास्ताम् करालामवयवसंनिवेशैर्युक्तैर्निम्नोन्नताम् निर्णतोदरीं तनुमध्याम् । अर्थान्तरमपि प्रागुक्तरीत्या द्रष्टव्यम् । वृद्धां ज्ञानवृद्धाम्, अनादिं च ॥ ३।१८।११,१२ ॥
कराला दारुणा । परिहासाविचक्षणा तत्तद्वाक्ये परिहासत्वज्ञानरहिता ॥ ३।१८।१३१५ ॥
पश्यतस्तव पश्यन्तं त्वामनादृत्य ॥ ३।१८।१६,१७ ॥
निगृह्य वाचेति शेषः ॥ ३।१८।१८ ॥
अनार्यैः परिहासो न कथमपि कार्यं इत्यत्रानुभवं प्रमाणयति पश्य वैदेहीं भक्षयितुमुद्युक्ता अस्मत्कृतपरिहासदोषादिति शेषः । इदं परिहासेनाप्यनृतवचनं सत्यनिष्ठस्य रामस्य सर्वानर्थमूलं मूलाविद्यायां मायायां बीजावेशमूलं चेति कतकः । हे सौम्य कथंचिज्जीवतीमेवेत्युत्तरश्लोकान्वयि ॥ ३।१८।१९ ॥
इमां स्वतो विरूपां विरूपय । पार्श्वस्थित इति शेषः ॥ ३।१८।२० ॥
कर्णनासे इत्यार्षत्वादेकवत्त्वाभावः ॥ ३।१८।२१,२२ ॥
विविधान्नादान्ननाद चकारेत्यर्थः ॥ ३।१८।२३ ॥
प्रगृह्योद्यम्य ॥ ३।१८।२४ ॥
अशनिरिव गगनाद्भूमौ पपात ॥ ३।१८।२५ ॥
अथास्याः खरं प्रति स्ववृत्तान्तकथनं कविः संक्षिप्याह तत इति । भयजनितमोहेन विसंज्ञतया मूर्छिता व्याप्ता राघवं वनमागतं शशंस, आत्मविरूपणं च शशंस । अत्रेदं बोध्यम् दशवर्षगमनोत्तरं पुनः सुतीक्ष्णाश्रमगमनं रामस्य । तत्र च वर्षाकालापगमपर्यन्तं स्थित्वा किंचिच्छिष्टे एकादशे ऽगस्त्याश्रमगमनम् । ततो वर्षाकालारम्भे पञ्चवट्यां वासः “मयूरनादिता रम्या” इति तत्रोक्तेः । एवं वसतस्तस्य शरद्व्यपाये हेमन्तर्तुः प्रविष्ट इत्युक्तेरत्र द्वादशवर्षपूर्तिः “पञ्चमे पञ्चमे वर्षे द्वौ द्वावधिकमासकौ” इत्युक्तेर्मार्गशुक्लैकादश्यां त्रयोदशारम्भः । अत एव पाद्मा उक्तम्
“तत्र तु द्वादशाब्दानि रामस्य अतिचक्रमुः । कस्मिंश्चिदथ काले तु राक्षसी कामरूपिणी । तत्र शूर्पणखा भेजे राघवं रावणानुजा ॥ " इति केचित् । अन्ये तु– त्रयोदशे किंचिदवशिष्टे शूर्पणखागमनम्, ततो माधे सीताहरणमित्याहुः । भारते युधिष्ठिरवनवासस्याधिकमासं गृहीत्वार्वागेव समाप्तेः । “पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः । एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः । त्रयोदशानां वर्षाणामिति मे वर्तते मतिः” इति भीष्मेणोक्तत्वात्तद्रीत्यात्रापि तथैवोचितमिति पूर्वव्याख्यैव युक्तेति मम भाति । यत्तु “तत्र त्रयोदशाब्दानि रामस्य अतिचक्रमुः” इति पाद्मे पाठः क्वचित्, तत्रापि प्रवेशमात्रेण तदतिक्रमव्यवहारः । यथान्ये तु वादिनामर्धावस्थितौ तद्व्यवहार इति बोध्यम् । प्रचुरस्तु “द्वादशाब्दानि” इत्येव पाठः ॥
३।१८।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे ऽष्टादशः सर्गः ॥ ३।१८ ॥