०१७ शूर्पणखा-आगमनम्

ततो ऽवगाहनोत्तरम् ॥ ३।१७।१ ॥

पौर्वाह्णिक प्रातःकालिकं, पर्णशालां बाह्याम् ॥ ३।१७।२,३ ॥

चित्रया चित्रानक्षत्रेण ॥ ३।१७।४,५ ॥

शूर्पणखा “नखमुखात्संशायाम्” इति ङीषो ऽभावः ॥ ३।१७।६ ॥

दीप्तास्यं कान्तिमन्मुखं गजस्येव मन्दतया विक्रान्तं गमनं यस्य ॥ ३।१७।७ ॥

व्यञ्जनं लक्षणम् ॥ ३।१७।८ ॥

सुमुखमित्यादि । विषमालङ्कारो ऽत्र ॥ ३।१७।९,१० ॥

दारुणा अदारुणमिति शेषः । दक्षिणं सुभाषिणं वामभाषिणी दुष्टभाषिणी ॥ ३।१७।११ ॥

शरीरजः कामः ॥ ३।१७।१२ ॥

तत्त्वं यथा तथा ऽ ऽख्यातुमर्हसि ॥ ३।१७।१३ ॥

शूर्पनख्येति यौगिकम् । ऋजुबुद्धितया तयेव ॥ ३।१७।१४१६ ॥

नियोगादाज्ञाबलाद्यन्त्रितो नियतः । धर्मकाङ्क्षी पितृवाक्यनिर्वहणरूपधर्माभिलाषी धर्मार्थं तस्यैव धर्मस्य परिपालनाय ॥ ३।१७।१७ ॥

कस्य त्वं कन्येति शेषः । कासि किंनामासि कस्य वंशजेति शेषः । राक्षसी एवं मनोज्ञाङ्गत्वस्य कामरूपत्वं विना ऽसंभवात् कामरूपत्वं च राक्षसीत्वं विना नेति भावः ॥ ३।१७।१८ ॥

मदनार्दिता रामदर्शनादिति शेषः ॥ ३।१७।१९,२० ॥

यदि ते श्रोत्रमागतः प्रायः श्रुत एव भविष्यतीति भावः ॥ ३।१७।२१ ॥

सदा प्रवृद्धनिद्र इत्यन्वयः । भ्रातरौ खरदूषणौ विभीषणवत्त्रिशिरा अराक्षसस्वभावत्वान्नोक्तः ॥ ३।१७।२२,२३ ॥

तान्रावणादीन्वीर्येण समतिक्रान्ता ततो ऽधिका, अतस्तान्समतिक्रान्ता त्वदभिसरणे तन्निमित्तभयरहितेत्यावृत्त्या योज्यम् । हे राम त्वा त्वां पूर्वदर्शनात्प्रथमदर्शनक्षणमारभ्य यद्वा पूर्वदर्शनाद्देवादिष्वितः प्रागदृष्टदिव्यत्वद्रूपदर्शनाद्धेतोर्भावेन त्वां पुरुषोत्तमं भर्तारं सर्वजगतां भर्तारं समुपेता ऽस्मि ॥ ३।१७।२४ ॥

प्रभावसंपन्ना प्रकृष्टेन भावेन शृङ्गारेण संपन्ना, यद्वा प्रभावेण शक्त्यतिशयेन संपन्ना अत एव स्वच्छन्देन स्वेच्छया बलेन च सर्वलोकगमनशीला । यदेवमतः– चिरायेति ॥ ३।१७।२५ ॥

आत्मनो देवयोनिभेदत्वेनाभिमतग्रहणसामर्थ्याभिमानेन स्वस्मिन्रामप्रवृत्तये सीतादूषणमाह विकृता चेति । विकृता मायास्वरूपतया परिणामाख्यविकारवती विरूपा नानारूपोच्चावचकार्यकारिणी अत एव शुद्धमुक्तस्वभावस्य तव न सदृशीति परमार्थः यथाश्रुतार्थस्तु स्पष्ट एव । अहमेवानुरूपा उभयोरपि मायाधिष्ठातृत्वादित्यर्थः ॥ ३।१७।२६ ॥

वैरूप्यमेवाह निर्णतोदरीमत्यन्तनिम्नोदरीम् । असतीं स्वपुरुषस्य दुस्तरानेकसंसारदुःखदत्वात् । कार्यरूपेण सतीं च त्वया सह प्रौढ्या निर्मनुष्ये वन आगमनाच्चासतीं सती हि वृद्धानां श्वश्र्वादीनां सविध एव पातिव्रत्यरक्षणाय तिष्ठेदित्याशयः ॥ ३।१७।२७२९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे सप्तदशः सर्गः ॥ ३।१७ ॥