अथ कविः शूर्पणखादर्शनं वक्तुं कामोद्दीपकं हेमन्तं वर्णयति लक्ष्मणमुखेन– वसत इति । पञ्चवट्यामिति शेषः । इष्टः रामस्येति शेषः । कामिनां च शरद्व्यपाये शरदृतुगमने हेमन्तऋतुरिति “ऋत्यक” इति सन्ध्यभावः भिन्नपदत्वं वा ॥ ३।१६।१,२ ॥
पृष्ठतः रामस्येति शेषः ॥ ३।१६।३ ॥
येन हेमन्तेन शुभो ऽयं संवत्सरः सुपक्वसस्यादिसंपत्त्या अलङ्कृत इवाभाति ॥ ३।१६।४ ॥
हेमन्तधर्मानाह नीहारेण परुषः कठिनस्पर्शशरीरः । वस्त्रादिस्पर्शसहशरीर इति कश्चित् । जलानुपभोगः शैत्यातिशयात् सुभग इष्टः ॥ ३।१६।५ ॥
काल आग्रयणानुष्ठानकाले नवाग्रयणपूजाभिर्नवान्नप्राशनाय यदाग्रयणाख्यं कर्म तद्रूपपूजाभिः पितृ़न्देवांश्च सन्तर्प्य कृताग्रयणकाः सन्तो विगतकल्मषा अभवन् ॥ ३।१६।६ ॥
प्राज्यं भूरि यथा भवति तथा संपन्नो ऽन्नप्राप्तिविषयः कामो येषां ते प्राज्यकामाः संपन्नतरगोरसा बहुलतरक्षीरादयो जनपदाः भवन्तीति शेषः । तथाभूतेषु जनपदेषु यात्रार्थं दर्शनार्थम् ॥ ३।१६।७ ॥
अन्तकसेवितां दिशं दक्षिणाम् ॥ ३।१६।८ ॥
प्रकृत्या स्वभावेन हिमकोशैर्घनीभूतहिमसमूहैराढ्यो हिमवानिति सांप्रतं यतो दूरसूर्यों ऽतः सुव्यक्तं प्रकटं हिमवान्सन्हिमवानिति यथार्थनामा भवति ॥ ३।१६।९ ॥
मध्याह्ने सुखः सञ्चारो येषु ते यथा मध्याह्ने स्पर्शत आतपस्पर्शतः सुखजनकाः अत एव सुभगादित्याः सुसेव्यादित्याः छायाः सलिलानि च दुर्भगान्यसेव्यानि येषु ॥ ३।१६।१० ॥
नीहारः सूर्यावरकं हिमम् मृदुसूर्या ईषदुष्णसूर्याः पटुशीताः शून्यारण्याः हिमनाशितपर्णत्वात् हिमध्वस्ता हिमध्वस्तपङ्कजाः ॥ ३।१६।११ ॥
निवृत्ताकाशशयना निवृत्तानावृतप्रदेशशयनाः पुष्यनीताः पुष्यनक्षत्रबोधितरात्रिकालपरिमाणाः, हिमारुणा हिमधूसराः । कपोतवर्णे ऽप्यरुणशब्दः शीतं वृद्धतरं यासु ताः आयामा दैर्ध्यवत्यस्त्रियामा रात्रयः ॥ ३।१६।१२ ॥
रवौ संक्रान्तं सौभाग्यं सुभगत्वमुपभोग्यस्वरूपं यस्य सः । तुषारधूसरमण्डलो निःश्वासान्धो निःश्वासमलिन आदर्श इव न प्रकाशते ॥ ३।१६।१३ ॥
आतपश्यामा आतपेन वैवर्ण्यं प्राप्ता सीतेव लक्ष्यते सत्तामात्रेण न तु शोभत इत्यर्थः ॥ ३।१६।१४ ॥
प्रकृत्या शीतलस्पर्शः पश्चिमदिग्वायुः सांप्रतं हिमविद्धत्वात्काले प्रातःकाले द्विगुणशीतलः ॥ ३।१६।१५ ॥
बाष्प ऊष्मा तेन छन्नान्यरण्यानि प्रातःकाले कूपोदकादिष्विव वनादप्यूष्मा प्रादुर्भवतीत्यनुभवप्रमाणकमिति तीर्थः । यवगोधूमाद्यङ्कुरेष्ववश्यायबिन्दुदर्शनाद्वृक्षेषु च तद्दर्शनाद्बाष्पच्छन्नानि बाष्पो नेत्रजले ऽपीत्यन्ये ॥ ३।१६।१६ ॥
खर्जूरपुष्पाकृतित्वं प्रलम्बत्वेन पीतत्वेन च किंचिदालम्बाः किंचिन्नम्राः । कनकप्रभाः परिणतत्वात् ॥ ३।१६।१७ ॥
नीहारो हिमातिशयरूपो वृक्षपर्वताद्यदर्शनसंपादनक्षमस्तत्संवृतैरुपसर्पद्भिर्मयूखैरुपलक्षितः शशाङ्कसदृश इत्यर्थः ॥ ३।१६।१८ ॥
आग्राह्यवीर्य ईषद्ग्राह्यौष्ण्यः स्पर्शतः सुखः सुखस्पर्शः ॥ ३।१६।१९ ॥
अवश्यायो हिमबिन्दुः ॥ ३।१६।२० ॥
प्रतिसंहरते करं दुस्पर्शशत्यवशादिति भावः ॥ ३।१६।२१ ॥
समुपासीना जलसमीपदेशमिति शेषः । नावगाहन्ति नावगाहन्ते ॥ ३।१६।२२ ॥
अवश्यायतमोभ्यां नद्धा रात्रौ नीहारतमसा ऽ ऽवृताः प्रत्यूषे ॥ ३।१६।२३ ॥
बाष्पो धूम ऊष्मा वा ॥ ३।१६।२४ ॥
अगाग्रस्थं पर्वताग्रस्थम् ॥ ३।१६।२५ ॥
जरया कालकृतया झर्झरितानि घूर्णनानि येषां तैः शीर्णानि केसराणि कर्णिकानि च येषां तैः ॥ ३।१६।२६३० ॥
निरुदरो ऽतुन्दिलः ह्रिया परनारीविषये निषेधश्चक्षुरादीन्द्रियनिवर्तनं यस्य सः तत्र हेतुर्जितेन्द्रियत्वम् ॥ ३।१६।३१ ॥
सौख्यान्सौख्यसाधनान् आर्यं त्वां सर्वात्मना श्रितः त्वत्सदृशव्यवहारवान् सर्वात्मना इतरव्यासङ्गत्यागपूर्वकं त्वद्विषयमननादिमानित्यर्थ इति कतकः ॥ ३।१६।३२ ॥
स्वर्गो जित एव स्वाधीनः कृतः । यतो वनस्थमपि त्वां तापस्ये तापसधर्मे स्थित्वा अनुविधीयते ऽनुकरोति सेवत इत्यर्थः । धीङो दैवादिकस्य रूपम् ॥ ३।१६।३३ ॥
द्विपदा मनुष्याः पित्र्यं स्वभावं नानुवर्तन्ते, किं तु मातृकं स्वभावमनुवर्तन्त इति प्रसिद्धो लोकवादो भरतेनान्यथा कृतः पितृस्वभाव एवाङ्गीकृतः, न मातुरित्यर्थः ॥ ३।१६।३४ ॥
भरतं स्तुत्वा कैकेयीं निन्दति– भर्तेत्यादि ॥ ३।१६।३५ ॥
स्नेहाद्भरतरामयोः स्नेहात् ॥ ३।१६।३६ ॥
न गर्हितव्या दैवकृतत्वात्तद्बुद्धेः । तामेव पूर्वोक्तामेव ॥ ३।१६।३७ ॥
बालिशीक्रियते गुणाश्रयस्य भरतस्य वियोगमसहमाना चाञ्चल्यं प्राप्नोतीत्यर्थः ॥ ३।१६।३८ ॥
स्नेहमेव प्रकाशयति संस्मरामीति । प्रियाण्यपि केनचिदुच्यमानानि कर्णकठोराणि भवन्तीति मधुराणीति हृद्यानि मन्त्रवत्परहृदयबन्धनानि । सामान्यतो माधुर्यमुक्त्वातिशयेनाह अमृतकल्पानीति अत एव मनःप्रह्लादनानि ॥ ३।१६।३९ ॥
त्वयेत्यस्य सहित इति शेषः ॥ ३।१६।४०४२ ॥
रुद्रोपमया संहाराविष्टचित्तत्वं दर्शयति ॥ ३।१६।४३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षोडशः सर्गः ॥ ३।१६ ॥