“व्यालः श्वापदसर्पयोः” इति कोशः । मृगा हरिणादयः ॥ ३।१५।१ ॥
यं देशं मुनिरब्रवीत्, यथोद्दिष्टं तं देशमागताः स्मेत्यन्वयः ॥ ३।१५।२ ॥
दृष्टिश्चार्यताम् प्रेक्ष्यतामित्यर्थः । निपुण आश्रमोचितदेशज्ञान इति शेषः । संमतः सीताया इति शेषः ॥ ३।१५।३ ॥
तदेवाह– रमत इति । त्वं रमसे, अहं रमे इत्यर्थः ॥ ३।१५।४ ॥
वनरामण्यकं वनस्य रमणीयत्वम् ॥ ३।१५।५ ॥
संयताञ्जलिर्बद्धाञ्जलिः ॥ ३।१५।६ ॥
हे काकुत्स्थ त्वयि स्थिते विद्यमाने वर्षशतमप्यहं परवानेव त्वदधीन एव न कदाचिदपि मे स्वातन्त्र्यमित्यर्थः । स्वयं तु त्वमयं रुचिरो देश इति विचार्य तत्र रुचिरे देशे क्रियतामिति वद ॥ ३।१५।७ ॥
विमृशन्पर्यालोचयन् ॥ ३।१५।८ ॥
हस्तेन स्वहस्तेन हस्ते लक्ष्मणस्य हस्ते, लक्ष्मणं गृहीत्वेत्यर्थः । अनेन स्नेहाधिक्यमन्तरङ्गत्वं स्वामित्वं च दर्शितम् ॥ ३।१५।९,१० ॥
आदित्यसंकाशैः तद्वदुज्ज्वलैरिति शेषः । पद्मशोभिता पद्मश्रिया शोभायुक्ता ॥ ३।१५।११ ॥
यथा ऽ ऽख्यातं तथेयं गोदावरी दृश्यत इत्यर्थः ॥ ३।१५।१२ ॥
मृगयूथैः पानार्थमागतैर्निपीडिता निबिडेति यावत् ॥ ३।१५।१३ ॥
प्रांशव उन्नताः । फुल्लैर्विकासितपुष्पवद्भिः ॥ ३।१५।१४ ॥
सौवर्णैः सुवर्णाभैः परमभक्तिभिर्गवाक्षिता गजा इव भक्तिभिर्गवाक्षाकारनीलपीतादिवर्णरचनारूपालङ्कारैरलङ्कृताः ॥ ३।१५।१५ ॥
सालाद्या वृक्षविशेषाः ॥ ३।१५।१६१८ ॥
इदं स्थलम् । पक्षिणा जटायुषा ॥ ३।१५।१९,२० ॥
संघाता मृत्तिका यस्यां सा दीर्घैर्मस्करैर्वेणुभिः कृतवंशा कृतवंशकार्याम् ॥ ३।१५।२१ ॥
आस्तीर्येति तिर्यग्वंशपरिक्षेपोपरीति शेषः । दृढपाशावपाशितां दृढबन्धनबद्धाम् ॥ ३।१५।२२ ॥
तलं भूतलम् । राघवस्यार्थे निवासमेकान्तभूतं चकारेति शेषः ॥ ३।१५।२३ ॥
स गत्वेति । एवं संपादनान्तरमिति शेषः । सफलो मार्गस्थवृक्षेभ्यो गृहीतफलः ॥ ३।१५।२४ ॥
कृत्वा स्वयमेवेति शेषः । शान्तिं वास्तुशान्तिम् ॥ ३।१५।२५ ॥
आहारयत्प्राप्तवान् ॥ ३।१५।२६,२७ ॥
ईदृशे महति कर्मणि दातुं प्रदेयो ऽत्यर्थम् उचितः यन्निमित्तं यत्प्रदेयनिमित्तं ते मया परिष्वङ्गः कृतः अन्यस्य देयस्याभावात् ॥ ३।१५।२८ ॥
भावो ऽभिप्रायः कृतमुपकारः न संवृत्तो न मृतः, किं तु जीवत्येव । पितृवदेव त्वया परिपालनादिति भावः ॥ ३।१५।२९३१ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चदशः सर्गः ॥ ३।१५ ॥