०१४ जटायुषः वृत्तान्तः

अन्तरा मध्ये ॥ ३।१४।१ ॥

तं पक्षिणं राक्षसं मेनाते विज्ञातवन्तौ तं राक्षसं ब्रुवाणौ परस्परं कथयन्तौ को भवानिति पप्रच्छतुरिति शेषः ॥ ३।१४।२ ॥

आत्मनः पितुः श्रीरामास्य तव पितुरित्यर्थः ॥ ३।१४।३,४ ॥

वचनम् वंशनामप्रश्नविषयकं वचनमित्यर्थ । स्वोत्पत्तिकथनप्रसङ्गात्सर्वभूतसमुद्भवमाचचक्ष इत्यर्थः । आत्मानमात्मनाम चेत्यर्थः ॥ ३।१४।५ ॥

पूर्वकाले ब्रह्मणो ऽहरादिकाले तान्प्रजापतीन् ॥ ३।१४।६ ॥

कर्दमाद्याः सप्तदश प्रजापतयो बभूवुः ॥ ३।१४।७९ ॥

दक्षस्य षष्टिर्दुहितरो बभूवुरित्यन्वयः । महायश इति रामसंबुद्धिः ॥ ३।१४।१० ॥

दक्षकन्यानां कश्यपपत्नीनां नामान्याह अदितिमित्यादि । अष्टावित्युपलक्षणम् । कश्यपाय त्रयोदशेत्यन्यत्रोक्तेः, वक्ष्यमाणसन्तानोपयोगिन्यो ऽष्टाविति वा ॥ ३।१४।१११३ ॥

तन्मनास्तत्सदृशपुत्राभिलाषवती । इदं दितिदनुकालकानां विशेषणम् । अमनसस्तथा मनोरथहीनाः । तत्फलं तासां कन्यासन्तानं वक्ष्यति ॥ ३।१४।१४ ॥

अश्विनौ चेत्यन्तास्त्रयस्त्रिंशत् ॥ ३।१४।१५ ॥

तेषां दितिपुत्राणाम् ॥ ३।१४।१६,१७ ॥

क्रौञ्च्यादिसन्तानमाह उलूकानिति ॥ ३।१४।१८,१९ ॥

संबोधननाम मध्ये मध्ये भद्रं ते इति प्रयोगः । हे राम ते भद्रमस्तु । शृण्विति शेषः ॥ ३।१४।२० ॥

क्रोधवशा कश्यपषष्ठपत्नी तस्या दशापत्यान्याह– मृगीं चेति ॥ ३।१४।२१,२२ ॥

सृमराः श्यामकेशपुच्छाः, चमराः श्वेतकेशपुच्छा इति भेदः ॥ ३।१४।२३,२४ ॥

हरयः सिंहाः । गोलाङ्गूला इति पूर्वान्वयि ॥ ३।१४।२५२७ ॥

गावः गा इत्यर्थः । नागा बहुफणाः सर्पाः, तदन्ये पन्नगा इति तीर्थः । निर्विषा नागाः, तदन्ये पन्नगा इति कतकः ॥ ३।१४।२८ ॥

जनयत् अजनयदित्यर्थः ॥ ३।१४।२९ ॥

उरसो बाहुमध्यात् । क्वचित्तु “बाहुभ्याम्” इति पाठः ॥ ३।१४।३० ॥

अनलापि व्यजायतेत्यनेन कश्यपस्याष्टानामपि पत्नीनां सन्तानान्युक्त्वा स्ववंशप्रदर्शनायाह– विनता चेत्यादि । शुकीपौत्री शुकीपुत्री नता तस्या विनता पुत्रीत्यर्थः । सुरसा कद्रूश्च नाम्ना सुते ॥ ३।१४।३१ ॥

नागसहस्रम् पन्नगसहस्रमित्यर्थः अतो नोक्तेन विरोधः ॥ ३।१४।३२ ॥

श्येनीपुत्रमिति । ननु ताम्रापुत्र्यं शुकीश्येन्यौ सा श्येनी शुकीपौत्रीपुत्रस्यारुणस्य कथं भार्यौ चेत्, तत्सन्तानपरम्परापतिता अन्यैषा श्येनीत्यदोषः, विधिनिषेधयोर्मनुष्याधिकारत्वाद्वा ॥ ३।१४।३३ ॥

वाससहायो वासस्थाने सीतारक्षणे सहायभूतः यदीच्छसि उक्तार्थमिति शेषः । तदेवाह– सीतामिति । त्वयि याते मृगयाद्यर्थम् ॥ ३।१४।३४,३५ ॥

परिदाय रक्षणार्थं जटायुषे इति शेषः । “परिधाय” इति पाठे परिवार्येत्यर्थः ॥ ३।१४।३६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुर्दशः सर्गः ॥ ३।१४ ॥