राम प्रीतो ऽस्मि, लक्ष्मण त्वयि च परितुष्टोस्मि । रामसेवातत्परत्वेन परितोषः । भगवद्विषयप्रीतेरेव भक्तित्वेन त्वद्भक्तो ऽहमिति ध्वनितम् । स्थ इति अस्तेर्लटि मध्यमपुरुषद्विवचनम् ॥ ३।१३।१ ॥
अध्वश्रमेणाध्वगमनादिप्रयुक्तखेदादिकार्यकारी श्रमः खेदो दुःखम् प्रचुरश्रमस्तज्जं दुःखं बाधते मैथिलीमिति शेषः, अत एवेयं व्यक्तमुत्कण्ठते । क्वचिद्विश्रान्तये इति शेषः ॥ ३।१३।२ ॥
न विमानिता इतः प्राक्कदापि न पीडिता खेदैः खेदजनकैः । “दुःखैः इति पाठान्तरम् । प्राज्यदोषं प्रभूतदोषम् ॥ ३।१३।३,४ ॥
दुष्करकरणप्रतिपादनशेषतया लोकव्यवहारमाह– एषेति । आ सृष्टेः सृष्टिमारभ्य समस्थं धनधान्यादियुक्ततया सम्यगवस्थितं विषमस्थं दरिद्ररोगादिग्रस्तम् ॥ ३।१३।५ ॥
एकत्रानवस्थानाद्विद्युतां चाञ्चल्यमनुगच्छन्ति । बहुकालागतस्नेहबन्धच्छेदेन शस्त्रतैक्ष्ण्यानुगमः । निन्द्यकार्यकरणे वाय्वादिशैध्र्यानुगमः ॥ ३।१३।६ ॥
श्लाध्या दोषराहित्यपूर्वकं गुणसंपदा सद्भिः प्रशंसनीया व्यपदेश्या पतिव्रतास्वग्रगण्या ॥ ३।१३।७ ॥
अयं देशो मदाश्रमरूप आगमनमात्रणालङ्कृतः । हे राम यत्र देश इतःपरं वत्स्यसि सो ऽलङ्कृतो भविष्यतीति किं वक्तव्यमित्यर्थः ॥ ३।१३।८१० ॥
किं तु किंचिद्वक्तव्यमस्तीत्यर्थः । व्यादिश बोधय आश्रमपदं वासस्थानम् । निरतः प्रीतः ॥ ३।१३।११ ॥
ध्यात्वा वासोचितं देशमिति शेषः । तत उवाचेत्यर्थे सन्धिरार्षः ॥ ३।१३।१२ ॥
तत्र पञ्चवटसमूहसत्त्वात्पञ्चवटीति नाम्ना ऽभिविश्रुतः प्रसिद्धः ॥ ३।१३।१३,१४ ॥
एष वृत्तान्तः पितृवचनपरिपालनाय वनवासरूपः तव स्नेहात्तपसः प्रभावेण च विदितः नह्यस्निग्धवृत्तान्तं तपसा ज्ञातुं यतते कश्चित् । दशरथस्य च वृत्तान्तः कैकेयीवशत्वप्राणत्यागादिरूपस्तत एव मे विदितः ॥ ३।१३।१५ ॥
यदिह वासं प्रतिज्ञाय “आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् । शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ " इत्यनेन मम समीपे इह मदाश्रमे वासं प्रतिज्ञाय पुनर्मां प्रति व्यादिश मे वासमित्येतद्वदसि तन्मूलं ते हृदयस्थं छन्दोऽभिप्रायो मया ज्ञातम् । अत्रावस्थाने प्रतिज्ञातराक्षसवधनिर्वाहो न भवति, अत्र राक्षसागमनाभावादित्येवंरूप इति भावः ॥
३।१३।१६ ॥
अतस्त्वदभिप्रायज्ञानात्त्वां पञ्चवटीं गच्छेति ब्रूमि ब्रमीमि । न तु शिष्टव्यवहारोचितमपीह तिष्ठेति ब्रवीमीत्यर्थः । तद्वनार्थवादमाह– स हीति ॥ ३।१३।१७,१८ ॥
विविक्त एकान्तः पुण्यः पुण्यजनको रम्यो दृष्टिमनसोः ॥ ३।१३।१९ ॥
परिरक्षणे शक्तः तापसानामिति शेषः । भवानपीत्यनेन स्वस्यापि तापसरक्षणे सामर्थ्यबोधनेन स्वाश्रमे रक्षसामपीडा सूचिता । अत्र पञ्चवट्याश्रमे पालयिष्यसि प्रतिज्ञातपालननिर्वाहं करिष्यसि ॥ ३।१३।२० ॥
अस्य मधूकवनस्योत्तरेणेत्यर्थः । न्यग्रोधं तदुपलक्षितमाश्रमं गच्छता ॥ ३।१३।२१ ॥
स्थलं निर्वनं देशमुपारुह्य प्राप्य कस्यचित्पर्वतस्याविदूरतः समीपतः पञ्चवटीत्येव ख्यातो देशः ॥ ३।१३।२२ ॥
सत्कृत्य प्रदक्षिणनमस्कारादिभिः ॥ ३।१३।२३,२४ ॥
विषक्ते तूणी ययोस्ते । पूर्वपदे पुंवत्त्वम् ॥ ३।१३।२५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे त्रयोदशः सर्गः ॥ ३।१३ ॥