हितः शुभकारी अनुकूलस्तदिच्छावशवर्ती पूज्यविषयानुरागो भक्तिस्तद्वान्भक्तः । यदीति संभावनायाम् । बहुदिनं वने वासादस्मच्छ्रवणं तवापि संभावितमित्यर्थः ॥ ३।१२।१३ ॥
भगवन्तं द्रष्टुमिच्छामहे, अतो दर्शनार्थमागता इति निवेद्यतामित्यर्थः ॥ ३।१२।४ ॥
अग्निशरणमग्निहोत्रगृहं निवेदितुं निवेदयितुम् ॥ ३।१२।५ ॥
अञ्जसा शीघ्रम् ॥ ३।१२।६ ॥
संमत इष्टः ॥ ३।१२।७ ॥
द्रष्टुं तदनन्तरं कियत्कालं शुश्रूषार्थं सेवार्थं चागतौ ॥ ३।१२।८ ॥
अनन्तरं तत्त्वं वक्तव्यतत्त्वमुपश्रुत्य भगवदागमनश्रवणानन्दमनुभूयेत्यर्थ इति तीर्थः ॥ ३।१२।९ ॥
मां द्रष्टुं समागत इति यत्तद्दिष्ठ्या मम भाग्येन किं चान्तर्भावितण्यर्थो दृशिः मामात्मानं दर्शयितुं यद्वने वसतश्चिरस्य चिरकालस्य गमने ऽप्यागतस्तद्दिष्ट्या मद्भाग्येन उद्बुद्धेनेत्यर्थः ॥ ३।१२।१० ॥
तदेवाह मनसेति । एतदागमनमुद्दिश्य काङ्क्षितम् इच्छा कृतेति यावत् । सत्कृतः आचारोपचारव्यवहारैरित्यर्थः ॥ ३।१२।११ ॥
किमसौ न प्रवेशितः कस्माद्धेतोर्विलम्बः कृत इत्यर्थः ॥ ३।१२।१२ ॥
अभिवाद्यागमननियोगप्रयुक्तं पुनरभिवादनं कृत्वा तथेत्यानयामीत्येवम् ॥ ३।१२।१३ ॥
स्वयं प्रविशतु भगवता ऽवगतवृत्तान्तत्वान्नास्य शिष्यमुखापेक्षेति भावः । आश्रमपदमाश्रमप्रान्तदेशम् ॥ ३।१२।१४ ॥
लक्ष्मणः काकुत्स्थं रामं प्रदर्शयामास शिष्यमिति शेषः । तं दृष्टं रामं शिष्यो ऽगस्त्यवचनमुच्यत इति वचनमगस्त्योक्तं वाक्यं प्रश्रितं प्रीतियुक्तं ब्रुवन्प्रावेशयदित्यन्वयः ॥ ३।१२।१५ ॥
सुसत्कृतं पाद्यार्घ्यादिभिरग्रे गत्या मार्गप्रदर्शनेन च सत्कृतम् ॥ ३।१२।१६ ॥
अगस्त्याश्रमस्थदेवतास्थानदर्शनमाह स तत्रेति । तत्राश्रमे स रामः ब्रह्मणो हिरण्यगर्भस्य कल्पितं स्थानम् । अग्निरत्र रुद्रः ॥ ३।१२।१७ ॥
भगः स्थूलमण्डलाभिमानी ॥ ३।१२।१८ ॥
धाता कार्यप्रजापतिः विधाता विश्वकर्मेति कतकः ॥ ३।१२।१९ ॥
गायत्रीति सरस्वतीसावित्र्योरप्युपलक्षणम् ॥ ३।१२।२० ॥
एषां स्थानानि पश्यतीत्यन्वयः । एतेन पूजास्थाने एतावतां देवानां पूजावश्यकीति सूचितम् । अभिनिष्पतम् अडभाव आर्षः, अभ्युत्थानं कृतवानित्यर्थः ॥ ३।१२।२१ ॥
मुनीनामग्रतः स्थितमिति शेषः । ईदृशं तमगस्त्यं ददर्शेत्यन्वयः ॥ ३।१२।२२ ॥
औदार्येण तेजोविशेषजनितौन्नत्येन ॥ ३।१२।२३ ॥
एवमगस्त्यमुक्त्वा लक्ष्मणं प्रति बोधयित्वा आपतत आश्रमादागच्छतस्तस्य ऋषेः पादौ स्पृष्ट्वा नमश्चकारेत्यर्थः ॥ ३।१२।२४ ॥
योगरूढिभ्यां रामशब्दद्वयापौनरुक्त्यम् ॥ ३।१२।२५ ॥
प्रतिगृह्य उत्थापनपूर्वकमालिङ्ग्येत्यर्थः ॥ ३।१२।२६ ॥
अर्चनस्यैव विस्तरापदेशः अग्निमिति । वैश्वदेवहोमं कृत्वेत्यर्थः । अतिथीन्रामादीन् ॥ ३।१२।२७ ॥
आसीनं पश्चादासीनमित्यर्थ इति प्राञ्चः । मम तु भाति प्रथममिति भोजनं ददावित्यनेनान्वेति । अथोपविश्य अतिथिपूजाव्यग्रतया तावत्पर्यन्तमनुपवेशनमिति ॥ ३।१२।२८ ॥
एवं क्षत्रियपूजानुचितेत्याशङ्कां समाधित्सुः प्रकृतं धर्ममुवाचेत्याह अन्यथेति । अन्यथा समुदाचरन् एवमतिथिपूजनमकुर्वन्नित्यर्थः । दुःसाक्षी कूटसाक्षी एवं च प्रत्यवायपरिहारायैवमतिथिपूजा ऽ ऽवश्यकीत्याशयः ॥ ३।१२।२९ ॥
त्वदधिको ऽतिथिश्च नास्तीत्याह राजेति । सर्वलोकराजा सर्वलोकनियन्तृत्वेनेश्वरत्वं गर्भितम् । धर्मचारी धर्माचरणेन तत्प्रवर्तकः ईदृशस्त्वं प्रियातिथिः सन्प्राप्तः, अतः पूजनीयो मान्यश्च मान्यत्वेनेतः परं त्वमेवास्माकमाराधनीय इति सूचितम् ॥ ३।१२।३०,३१ ॥
हेम्ना वज्रेण च भूषितम् । वैष्णवमिति । परशुरामाद्गृहीत्वा वरुणहस्ते दत्तं यद्रामेण तदेव वरुणादादाय महेन्द्रो ऽगस्त्ये निक्षिप्तवानिति कतकः । योगेन महेन्द्रपदेनात्र वरुण एवेत्यन्ये ॥ ३।१२।३२ ॥
ब्रह्मणा दत्तो ब्रह्मदत्तस्तदाख्याश्च तूणी चेति चेन्न धनुःशरयोरुभयोरिन्द्रदत्तत्वं गम्यते ॥ ३।१२।३३ ॥
महारजतं सुवर्णम् हेमविभूषितो मुष्टिदेशे ॥ ३।१२।३४,३५ ॥
वज्रं वज्रधरो यथेत्यनेन त्वदीयमेव त्वया स्वीक्रियत इति ध्वनितम् ॥ ३।१२।३६ ॥
वरायुधं वरस्य विष्णोरायुधं च ॥ ३।१२।३७ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्वादशः सर्गः ॥ ३।१२ ॥