अग्रत इति ॥ ३।११।१,२ ॥
जलजाः खगा दात्यूहादयः ॥ ३।११।३ ॥
पृथबन्धान्यूथरूपेण संबद्धान् पृषतामिति षष्ठी । विषाणिन इति महिषादिविशेषणं नागान् गजान् ॥ ३।११।४ ॥
दिवाकरे लम्बमाने सायाह्न इत्यर्थः । योजनायतं चतुर्दिक्षु योजनायतम् ॥ ३।११।५ ॥
पद्मपुष्करसंबाधं पद्मानि रक्तानि पुष्करं पुण्डरीकं तैः संबाधः संमर्दो यस्मिंस्तं पद्मानां पुष्करे जले संबाधो नैबिड्यं यत्र तमिति कतकः । गजयूथैरलङ्कृतम् तीरे जले चेति शेषः । हंसा राजहंसाः, कादम्बाः कलहंसाः, जलजातिभिर्जले जातिर्जन्म येषां तैर्मत्स्यादिभिः ॥ ३।११।६ ॥
गीतवादित्रनिर्घोषो गीतोपेतवाद्यशब्दः न तु कश्चनेति गीतादिकर्तेत्यर्थः ॥ ३।११।७ ॥
धर्मभृतं नाम धर्मभृतनामकं धर्मभृन्नामकं वा शरणागतेष्वनुयायिष्वेकम् ॥ ३।११।८१० ॥
पञ्चाप्सरसां क्रीडासाधनत्वात्पञ्चाप्सरोनामत्वेन प्रसिद्धम् सर्वकालोदकपूर्त्यादिगुणकं सार्वकालिकम् ॥ ३।११।११,१२ ॥
अग्निरूपपुरोगमसहिताः साग्निपुरोगमाः सर्वे प्रव्यथिता अभूवन् । ततः सर्वे ऽब्रुवन्नित्यर्थः ॥ ३।११।१३ ॥
इति संविग्नमनसः अभूवन्निति शेषः ॥ ३।११।१४ ॥
तत उद्विग्नसर्वदेवैस्तपोविघ्नाय नियुक्ताः विद्युच्चलितवचसेश्चलितविद्युत्कान्तयः । प्रधानाप्सरसः पञ्चेत्यनेन तत्परिवारभूतान्यसत्ता ध्वनिता ता आगता इति शेषः ॥ ३।११।१५ ॥
दृष्टपरावरो दृष्टैहिकपारलौकिकधर्माधर्मः ॥ ३।११।१६ ॥
निर्मितं तेनैव मुनिना क्रीडार्थमिति शेषः ॥ ३।११।१७ ॥
तत्रैव निर्मिते गृहे तपोयोगो यौवने हेतुः ॥ ३।११।१८ ॥
भूषणोन्मिश्रो वलयादिभूषणध्वनिमिश्रः ॥ ३।११।१९ ॥
वचनं तदर्थमाश्चर्यमिति प्रतिजग्राह ॥ ३।११।२० ॥
एवं कथयमान आश्चर्यमित्येवं कथयन्ब्राह्मया लक्ष्म्या ब्रह्मविद्यानुष्ठानजलक्ष्म्या ब्रह्मवर्चसेनेति यावत् ॥ ३।११।२१ ॥
प्रविश्याश्रममण्डलमित्यनुषङ्गः आश्रममण्डले उवासेति शेषः ॥ ३।११।२२ ॥
तद्वासप्रकारमाह उषित्वेति । एकस्याश्रमे इति शेषः । अथ पर्यायेण सर्वेषामाश्रमाञ्जगाम ॥ ३।११।२३ ॥
किं च येषामृषीणामाश्रमे पूर्वमुषितवान्पुनरपि तेषामाश्रमाञ्जगाम तद्भक्त्यतिशयात् यथा सुतीक्ष्णाश्रमे पुनरागमनम् । एकत्र वासाभावादेवाह क्वचिदिति । परिदशान्दशत्वसंख्यां परिगतान् । दशसंख्यान्मासानित्यर्थः ॥ ३।११।२४२६ ॥
रमतो रममाणस्य । परिसृत्य सर्वमुन्याश्रमानटित्वा । “परिवृत्य” इति पाठान्तरम् । “प्रतिश्रुत्य” इति पाङ्क्तः पाठः ॥ ३।११।२७ ॥
यतः पुनरागन्तव्यमिति प्रतिज्ञाय गतः अतः पुनराजगामेत्यर्थः ॥ ३।११।२८,२९ ॥
उपासीनः समीपस्थः ॥ ३।११।३० ॥
कथाः कथयतां सकाशादिति शेषः ॥ ३।११।३१३३ ॥
मनोरथाभिनयः यदहमित्यादि ॥ ३।११।३४,३५ ॥
एतच्छब्दार्थः अगस्त्यमित्यादि । अस्मिन्नर्थे मदुपदिदिक्षितार्थे ॥ ३।११।३६ ॥
“योजनादाश्रमादस्मादभि चत्वारि वै ततः” इति कतकपाठे ऽस्मादाश्रमाद्योजनादभि अधिकं चत्वारि योजनानीत्यर्थः, दक्षिणेन गन्तव्यानीति ततस्तद्भ्रातुराश्रम इत्यर्थः । पाठान्तरे तु चतुर्योजनोत्तरमिति स्पष्ट एवार्थः ॥ ३।११।३७ ॥
तदाश्रमचिह्नं स्थलीप्रायवनोद्देशत्वादि ॥ ३।११।३८,३९ ॥
तत्रागस्त्यभ्रात्राश्रमे । इध्मवाहेत्यस्य नाम । “अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम् । यस्यां दृढवृतो जात इध्मवाहात्मजो मुनिः ॥ " इति भागवतं तु देवराच्च सुतोत्पत्तिरिति न्यायेनेत्येके । दक्षिणां दिशमायोजनमन्तरमवकाशं गत्वा तत्रागस्त्याश्रमं द्रक्ष्यसि ॥
३।११।४०४३ ॥
मुनेः श्रुत्वेति वचनमिति शेषः ॥ ३।११।४४ ॥
मार्गवशानुगान्मन्मार्गवशात्प्राप्तान् ॥ ३।११।४५४७ ॥
नूनमेतदेवेत्यत्र हेतुमाह यथा हीति । यथा यादृशचिह्नवत्तया वनं श्रुतं तथैवास्य फलभारेण पुष्पभारेण संनताः सहस्रशो द्रुमा ज्ञाता ज्ञायमाना वर्तन्ते ॥ ३।११।४८ ॥
असाधारणलिङ्गानुभवमप्याह पिप्पलीनामिति । पिप्पलीफलानामित्यर्थः । कटुकोदयः कटुकरससंबन्ध्युदयः ॥ ३।११।४९,५० ॥
कृष्णाभ्रं नीलाभ्रं शिखरं पर्वतशिखरं चोपमा यस्य ॥ ३।११।५१ ॥
विविक्तेषु निर्मलेष्वेकान्तेषु च स्वयमेवार्जितैः देवपूजार्थमिति शेषः ॥ ३।११।५२,५३ ॥
मृत्युं तत्तुल्यं दैत्यम् शरण्या वासयोग्या लोकानाम् ॥ ३।११।५४ ॥
को ऽसौ मृत्युतुल्यो ऽसुरो यो ऽगस्त्येन निगृहीतो लोकरक्षणायेत्यतस्तदाख्यायिकामाह इहेति । वने इत्यर्थः । एकदा कस्मिंश्चित्पूर्वकाले ॥ ३।११।५५ ॥
ब्राह्मणरूपं ब्राह्मणसदृशवेषम् संस्कृतं वदन् ब्राह्मणवदिति शेषः । एतदुभयं विश्वासार्थम् ॥ ३।११।५६ ॥
संस्कृतं कृत्वा श्राद्धोचितपाकसंस्कारसंस्कृतं कृत्वा ॥ ३।११।५७,५८ ॥
मेषवन्नदन् मृतसञ्जीवनीवैभवादुदरान्तरिति शेषः । विनिष्पतद्विनिर्गतवान् आडभाव आर्षः ॥ ३।११।५९ ॥
संहत्य समेत्य ॥ ३।११।६० ॥
प्रार्थितेन प्रार्थितासुरद्वयसंहारेण महर्षिणागस्त्येन श्राद्धे श्राद्धव्यापारमनुभूय भक्षितः सो ऽसुरो वातापिः ॥ ३।११।६१ ॥
तत इल्वलः श्राद्धान्ते संपन्नमित्युक्त्वा हस्तोदकं दत्त्वा भ्रातरं निष्क्रमस्वेत्यभ्यभाषत ॥ ३।११।६२ ॥
मया जीर्णस्य भुक्तस्येति शेषः ॥ ३।११।६३,६४ ॥
प्रधर्षयितुं हिंसितुम् ॥ ३।११।६५ ॥
चक्षुषा चक्षुर्वीक्षणेन । अनलकल्पेनाग्नितुल्येन ॥ ३।११।६६७१ ॥
अभिवादये त्वेति पादे नवाक्षरत्वमार्षम् ॥ ३।११।७२,७३ ॥
नीवारा जलकदम्बा वञ्जुलो ऽशोकः तिनिशो धवः चिरिबिल्वो नक्तमालः ॥ ३।११।७४७७ ॥
यथा श्रुतास्तथा स्निग्धपत्रा वृक्षा दृश्यन्ते इति शेषः । अतो निकट आश्रमः ॥ ३।११।७८ ॥
अगं विन्ध्यं स्तम्भयतीत्यगस्त्यः पृषोदरादिः । स्वेन कर्मणा विन्ध्यस्तम्भनकर्मणा परिश्रान्तश्रमापहन्ता ॥ ३।११।७९ ॥
प्राज्यैर्भूरिभिर्धूमैः पाकयज्ञधूमैराकुलं वने यस्मिन् ॥ ३।११।८०,८१ ॥
यस्य प्रभावाद्राक्षसैरियमगस्त्याश्रमप्रदेशवर्तिनी दक्षिणा दिग्दृश्यते केवलम् त्रासान्महर्षिभीत्या नोपभुज्यते न स्वदेशत्वेनाङ्गीक्रियत इत्यर्थः ॥ ३।११।८२ ॥
निर्वैराः प्राणिषु वैररहिताः प्रशान्तास्त्यक्तक्रूरकर्माणः ॥ ३।११।८३ ॥
भगवतो ऽगस्त्यस्य महिम्ना प्रदक्षिणा एतदाश्रमावच्छेदेन निर्वैरत्वादिसंपादनसमर्था क्रूरकर्मभी रक्षोभिर्दुर्धर्षा, अतो नाम्ना च नाम्नापि संपूर्णा दिगेव दक्षिणेति त्रिषु लोकेषु प्रथिता ॥ ३।११।८४ ॥
मेरुस्पर्धया भास्करमार्गं निरोद्धुं वर्धितुकामो ऽप्यचलो विन्ध्यस्तस्यागस्त्यस्य सन्देशं मदागमनपर्यन्तं मा वर्धस्वेत्येवमाज्ञां पालयन्न वर्धते । अद्यापीति शेषः ॥ ३।११।८५,८६ ॥
अधिगतान्स्वाश्रमं प्राप्ताच्छ्रेयसा योजयिष्यति । दिव्यशस्त्रादिदानेनेति गूढो ऽभिसन्धिः ॥ ३।११।८७ ॥
प्रभो शुश्रूषणसमर्थेत्यर्थः ॥ ३।११।८८,८९ ॥
क्रूरो निर्दयः शठो गूढविप्रियकारी नृशंसो घातुकः तथाविधो दुर्वृत्तासहिष्णुः ॥ ३।११।९० ॥
पतगा गरुडादयः धर्मं स्वर्गादिजनकम् ॥ ३।११।९१ ॥
आत्राश्रमे सिद्धाः तपसेति शेषः । नवैर्देहैर्दिव्यदेहैः ॥ ३।११।९२ ॥
आत्राश्रमे भूतैः प्राणिभिः कर्तृभिः शुभैः सत्कर्मभिराराधिता देवादय आश्रममाहात्म्यादल्पकालेनैव राज्यादीनि प्रयच्छन्तीत्यर्थः ॥ ३।११।९३,९४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे एकादशः सर्गः ॥ ३।११ ॥