एवं युद्धस्यापाततः सीतया धर्मत्वं प्रतिपादितं तद्वाक्यविरोधेनैव धर्मत्वं प्रतिपादयति रामः वाक्यमिति । “संवर्धितः” इति पाठे संवर्धिततेजाः । “धर्मस्थितः” इति पाठान्तरम् ॥ ३।१०।१ ॥
कुलं व्यपदिशन्त्या “क्षत्रियाणां तु वीराणाम्” इत्यादिना क्षत्रियकुलधर्मं बोधयन्त्या ॥ ३।१०।२ ॥
अत्रोत्तरमहं किं नु वक्ष्यामि । त्वयैवोत्तरं दत्तमित्यर्थः । इदंशब्दार्थः क्षत्रियैरिति । रक्षकाभावकृत आर्तानां शब्दो मा भूदित्यर्थं क्षत्रियैश्चापो धार्यत इत्येषो ऽर्थो धनुषा कार्यमेतावदार्तानामभिरक्षणमिति वाक्येनोक्त इति शेषः ॥ ३।१०।३ ॥
त्वद्वचनस्यायमेवानुष्ठानकाल इत्याह ते चेति । संशितव्रतास्तीक्ष्णव्रताः । स्वयमागम्य शरणं गता इत्यनेन नाहं गर्वादिदोषेण रक्षोवधार्थं प्रवर्ते, किंत्वस्मच्छरणागतेषु वैरेण ममापि वैरमर्थादायातमिति निर्वैरं वधप्रसक्तिर्न मे इत्युक्तम् ॥ ३।१०।४ ॥
कालकालेषु सर्वकालेष्वित्यर्थः । राक्षसैरित्यस्य वध्यमाना इति शेषः ॥ ३।१०।५,६ ॥
अभ्यवपद्यानुगृहाणेति मामूचुः । पद्यतेरार्षं परस्मैपदम् । एवं रक्षेत्येवं तेषां मुखाच्च्युतं वचनं श्रुत्वा ॥ ३।१०।७ ॥
वचनशुश्रूषां वचनानुपालनलक्षणशुश्रूषां कृत्वा मनसि कृत्वेत्यर्थः “चरणशुश्रूषाम्” इत्यपि पाठः । यदीदृशैरुपस्थितैरस्माभी रक्षणार्थमुपास्यैरुपस्थितः रक्षणार्थमिति शेषः । एषा ममाह्रीरकीर्तिः, अतः प्रसीदन्त्वित्यर्थः । तीर्थस्तु एषा मम ह्रीः, अतः प्रसीदन्त्विति व्याचष्टे ॥ ३।१०।८ ॥
किं करोमि किं करवाणीत्यर्थः । लोडर्थे लडार्षः ॥ ३।१०।९ ॥
सर्वैः एवं मयोक्तैस्तैः सर्वैरित्यर्थः ॥ ३।१०।१० ॥
स्म स्मः । तत्र रक्षःपीडाविषये । रक्षत्विति भवच्छब्दयोगात्प्रथमपुरुषः । पर्वकालेषु दर्शपूर्णमासेष्टिकालेषु ॥ ३।१०।११ ॥
धर्षयन्त्यभिभवन्ति ॥ ३।१०।१२ ॥
गतिं त्रातारम् ॥ ३।१०।१३,१४ ॥
तेनातिक्लेशार्जिततपोव्ययभयेन ॥ ३।१०।१५ ॥
रक्षकस्त्वम् भवेति शेषः । त्वन्नाथास्त्वं नाथो येषां ते कार्त्स्न्येन कृत्स्नरक्षःपीडानिवर्तनेन ॥ ३।१०।१६ ॥
चतुर्दशवर्षपर्यन्तं पित्राज्ञया राज्यत्यागे ऽप्यग्रे राज्यसबन्धस्यावश्यकत्वाच्छरणागतरक्षणे ऽस्त्येवाधिकारः । किं च क्षत्रजातेरेवात्राधिकारः, न तु राज्यपदस्थस्यैवेति तात्पर्यम् । संश्रुतं प्रतिज्ञातम् जीवमानो जीवन् प्रतिश्रवं प्रतिज्ञाम् ॥ ३।१०।१७ ॥
न शक्ष्यामीत्यत्र हेतुः सत्यमिष्टमित्यादि ॥ ३।१०।१८ ॥
यस्मै कस्मै अपि प्रतिज्ञां प्रतिज्ञाय न जह्याम् किं पुनर्ब्राह्मणेभ्य इत्यर्थः ॥ ३।१०।१९ ॥
अनुक्तेनापि ऋषिभिरिति कार्यमिति च शेषः । प्रतिज्ञाय कथं पुनर्न कार्यामिति शेषः । स्नेहः प्रीतिः, सौहार्दं शोभनहृदयता, प्रीतौ सत्यामपि तादृशहृदयत्वाभाव एवमनुशासनादर्शनादुभयमुक्तम् ॥ ३।१०।२० ॥
न ह्यनिष्टो ऽनुशास्यते यस्मिन्यस्य प्रीतिर्नास्ति नासावनुशिष्यते हितं नोपदिश्यत इत्यर्थः । सदृशं तव स्नेहस्य त्वदुक्तं वच इति शेषः । कुलस्यानुरूपम् ॥ ३।१०।२१,२२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे दशमः सर्गः ॥ ३।१० ॥