००७ राम-सुतीक्ष्णसंवादः

द्विजैः प्रार्थनार्थमागतैर्वानप्रस्थैः ॥ ३।७।१ ॥

विमलं पवित्रम् “महामेघमिव” इति पाठे स्थितमिति शेषः, नैल्यस्थौल्याभ्यां सादृश्यम् । उन्नतमिति स्वरूपकथनम् ॥ ३।७।२४ ॥

अत्र “ततस्तदिक्ष्वाकुवरौ” इत्यादिश्लोकत्रयं प्रक्षिप्तमिति कतकः मलपङ्कजधारिणं मलस्य सर्वाघस्य शान्तये पङ्कजे पद्मासने स्थित्वा धारणशीलम्, यद्वा पङ्कजे हृदयपङ्कजे धारिणमैश्वरयोगधारणशीलमित्यर्थ इति कतकः, तीर्थस्तु “मलपङ्कजटाधरम्” इति पठित्वा मलमुद्वर्तनादिसंस्काराभावाच्छरीरजं पङ्को वनसञ्चाराच्छरीरलग्न इति भेद इत्याह । विधिवदुपगम्येति शेषः ॥ ३।७।५ ॥

तन्माभिवदेति । मा इति माम् उक्तयोगधारणशीलत्वेन वाग्व्यवहाराभावादेवं प्रार्थना । सत्यविक्रम अक्षततपःस्वभाव ॥ ३।७।६ ॥

स निरीक्ष्येति । उक्तवचनात्समाधितो व्युत्थाय । रामं दृष्ट्वेत्यर्थः ॥ ३।७।७ ॥

सनाथ इव सस्वामिक इव । अत्रायमाश्रमो ब्रह्मचर्याद्याश्रमव्यवहार्यो ऽयं देहस्त्वया जीवरूपेणाक्रान्तो ऽपि सांप्रतमद्य बहिश्चक्षुषा ऽनुभवन्सनाथ इव मायया सच्चिदानन्दस्यैवैवं शरीररूपेण प्रतिभासमानस्येदृशस्य त्वद्रूपस्य दर्शनेन चित्तशुद्ध्या पूर्वं जीवाभेदेनाहमिति प्रतीत्या गृहीतस्य तद्वैलक्षण्येनेदानीं ग्रहाद्भेदनिबन्धसनाथत्वव्यवहारः । इवेन जडानामप्यतिरिक्तत्वाभावः सूचित इति ध्वनिः ॥ ३।७।८ ॥

अतस्त्वां प्रतीक्षमाण इति । त्वां स्वात्मभूतम् महायश इति संबोधनम् । देवलोकं देवस्य ब्रह्मणो लोकम् ॥ ३।७।९ ॥

ननु कात्र मदागमनसंभावना तत्राह चित्रेति । यदा राज्यभ्रष्टश्चित्रकूटमुपादाय प्राप्य स्थितो ऽसि तदाप्रभृति मे मया श्रुतो ऽसि । आश्रमो ऽयमित्यस्य व्यङ्गे ऽर्थे तु– चित्रं विचित्रफलहेतुकूटं दुरवगाहत्वात्संसारं प्राप्य राज्यभ्रष्टो विद्यासंसर्गेण स्वाराज्यान्नित्यशुद्धबुद्धमुक्तस्वरूपाद्भ्रष्टस्तद्योगात्संसारं प्राप्तस्त्वमेव मया श्रुतिवाक्येभ्यः श्रुतो ऽसि अतस्तत्प्रतीक्षया न देवलोकं गत इति व्यङ्यो ऽर्थः । नन्विदानीं क्व ते देवलोकारोहणप्रसक्तिस्तत्राह– इहेति । शरभङ्गाह्वानानन्तरमिहाप्यागत इत्यर्थः ॥ ३।७।१० ॥

पुण्येन कर्मणा जितानित्यनेन श्रवणसंपत्तावपि निदिध्यासनसंपत्त्यभावो ऽस्योक्तः । पूजावचनेषु पौनरुक्त्यं न दोषाय, देवादिपदानां प्रवृत्तिनिमित्तभेदस्य स्पष्टत्वान्न पौनरुक्त्यमिति केचित् ॥ ३।७।११ ॥

अथ सर्वं पुण्यमनन्तफलत्वाय भगवत्यर्पयति– तेष्विति ॥ ३।७।१२,१३ ॥

अहमेवेति । तपसेत्यर्थः । त्वत्तः प्रतिग्रहे नाहमधिकारीति आपाततो ऽर्थः वास्तवस्तु तद्दत्तपुण्याङ्गीकारेणानुगृह्णाति भगवान् अहमेवेति । न्यासत्वेन त्वया स्थापितं तुभ्यं प्रापयिष्यामि अहमेवेत्यनेन सर्वकर्मफलदाता सर्वोपासनास्वहमेवेति सूचितम् । अथ लोकदृष्ट्येतरजनप्रतारणायावासमिति प्रदिष्टम् । त्वयेति शेषः ॥ ३।७।१४ ॥

गौतमेन गौतमगौत्रेण शरभङ्गेन सर्वत्र इह परत्र च कुशल इत्याख्यातम् । एवं चानभिज्ञो ऽहमित्युत्तरं दातुमशक्यमित्याशयः ॥ ३।७।१५,१६ ॥

अयमेवास्मदीयः ॥ ३।७।१७ ॥

अनेन गुणमुक्त्वा दोषमाह– इममिति । इममाश्रमं दण्डकारण्याश्रमं महीयसो ऽतिशयितमहत्त्ववृतो ऽपि अहत्वा हननमकृत्वा लोभयित्वा रूपकान्तिगतिविशेषैश्चित्तक्षोभं कृत्वा गच्छन्तीत्यर्थः । अनेन भावी मारीचवृत्तान्तः सूचितः । अकुतोभयास्ते इव ॥ ३।७।१८ ॥

अत्र दण्डकारण्ये नान्यो दोषो भवेत् । अत्रेत्यस्यैव विवरणम् मृगेभ्यो ऽन्यत्र विद्धि वै इति । मृगेभ्यो ऽन्यत्र न भयमिति विद्धीत्यर्थः । दण्डकारण्याभिप्रायेण मुन्युक्तं तदाश्रममात्राभिप्रायं परिकल्प्य रामो ऽवादीदित्याह । तच्छ्रुत्वा मृगेभ्यो भयविषयं वचनम् ॥ ३।७।१९,२० ॥

हन्याम् प्राप्तकाले लिङ् । प्राप्तमृगहननं कुर्याम् । परं त्वेवं कृत्वात्र स्थातुमशक्यमित्याह भवानिति । तत्र मृगसङ्घवधे भवान्मयाभिषज्येत अभिषङ्गः पराभवः, कृतपराभवो यो भवेत्ततः परं मे कृच्छ्रतरं किं स्यात् न किमपि ॥ ३।७।२१ ॥

यदेवमतः एतस्मिन्निति । चिरं चिरकालं वासं न समर्थये नेच्छामि । मृगसंङ्घवधं विना स्थातुमशक्यं तद्वधेन च भवतां पीडेत्याशयः । उपरममुपरम्य क्वचित् “उपरम्य” इत्येव पाठः । सन्ध्यामुपागमत्सन्ध्यां वन्दितुमुपागतवान् ॥ ३।७।२२,२३ ॥

सन्ध्यानिवृत्तौ रजनीमभ्यवहारार्हां समीक्ष्येति यावत् ॥ ३।७।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे सप्तमः सर्गः ॥ ३।७ ॥