सुनिसङ्घा दण्डकारण्यवासिनः समागता मिलिता अभ्यगच्छन्त स्वरक्षणप्रार्थनार्थमिति शेषः ॥ ३।६।१ ॥
वैखानसा इति । “ये नखास्ते वैखानसा ये वालास्ते वालखिल्याः” इति श्रुतेः प्रजापतेर्नखलोमजाः । संप्रक्षाला भगवतः पादप्रक्षालनजा महर्षयः, अश्वस्तनिकाः संप्रक्षाला इत्यन्ये परीचिपा रविचन्द्रान्यतरकिरणजीवनाः, अश्मकुट्टा अपक्वकुट्टितान्नभक्षकाः ॥ ३।६।२ ॥
दन्तोलूखलिनो दन्तातिरिक्तावहननसावनरहिताः उन्मज्जकाः कण्ठदघ्ने जले स्थित्वा तपः कुर्वन्तः, गात्रशय्या अनास्तरणशायिनः, अशय्या निद्राहीनाः, अनवकाशिका एकपादस्य स्थित्यवकाशदानरहिताः एकपादस्थितिमन्त इति यावत् ॥ ३।६।३ ॥
आकाशनिलया अनावृतप्रदेशस्थायिनः, स्थण्डिलशायिन उपलिप्तानास्तीर्णस्थलशयनाः ॥ ३।६।४ ॥
ऊर्ध्ववासिनो गिरिशिखराद्यूर्ध्वप्रदेशे नित्यं वासशालिनः “व्रतोपवासिनः” इति पाठस्तु चिन्त्यः तस्य साधारणधर्मत्वादिति कतकः । आर्द्रपटवाससो नित्यमार्द्रवस्रवसनशीलाः, सजपाः सदा जपपराः, तपोनिष्ठाः सदा स्वाध्यायाध्ययनशीलाः “तपो हि स्वाध्यायः” इत्युक्तेः, पञ्चतपोन्विता ग्रीष्मे पञ्चाग्निमध्यस्थाः ॥ ३।६।५ ॥
ब्राह्मया श्रिया ब्रह्मविद्यानुष्ठानजनितब्रह्मवर्चसेन दृढयोगसमाहिता योगैकाग्रचित्ताः ॥ ३।६।६,७ ॥
किमूचुस्तत्राह त्वमिति । इक्ष्वाकुकुलस्य पृथिव्याश्च चेन सकलत्रैलोक्यस्येति गूढम् । प्रधानत्वेन जगद्धारणकर्तृत्वं नाथत्वेन पालकत्वं गर्भितम्, देवानां मघवानिव ॥ ३।६।८ ॥
यशसा विक्रमेण च श्रुतः प्रसिद्धः तेन रूपेणेति शेषः । पितृवचनपालनं व्रतं यस्य तद्भावः सत्यं सत्यवचनं च त्वयि तिष्ठतीति शेषः । किं च त्वयि स्मृते धर्मश्च पुष्कलः अङ्गहीनो ऽपि सकलाङ्गपूर्णो भवतीत्यर्थः । “प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु च । तद्विष्णोः स्मरणादेव संपूर्णं स्यादिति श्रुतिः” इति स्मृतेः ॥ ३।६।९ ॥
धर्मज्ञं शरणागतरक्षणरूपधर्मज्ञम्, धर्मवत्सलं धर्मानुष्ठातृप्रियम् त्वामासाद्य शरणं प्राप्यार्थित्वादर्थिभावेन यत्क्रूरमपि वक्ष्यामस्तत्क्षन्तुमर्हसीति योजना । यद्यपि “सत्सु कार्यवतां पुंसामलमेवाग्रतः स्थितिः” इति न्यायेन त्वदग्रे ऽवस्थानमेव सकलमनोरथपूरकत्वान्न कार्यसाधनम् तथाप्यार्त्यतिशयेन किंचिद्वक्ष्यमाणं क्षन्तव्यमिति भावः ॥ ३।६।१० ॥
जगद्रक्षणतत्परस्य विनापि कथनं स्वरक्षणे ऽपि प्रवृत्तिरस्त्येव, तथाप्यार्त्यतिशयेन लोकरीत्या राजधर्मं बोधयन्ति अधर्म इति । न च रक्षति विषयवासिन इत्यपकृष्यते । बलिषड्भागं करभागरूपं षष्ठांशम्, यद्वा बलये पूजा यै दत्तं षड्भागं षष्ठांशम् प्रजाभिः स्वानिष्टपरिहारायेत्यर्थः ॥ ३।६।११ ॥
अथ रक्षणे ऽभ्युदयमाहुः युञ्जान इति । युञ्जानः प्रजारक्षणे यतमानः सर्वान्देशवासिनः स्वान्प्राणानिव प्राणैरिष्टान्प्राणेभ्यो ऽप्यधिकप्रियान्सुतानिव नित्ययुक्तः सदा सावधानो रक्षन् ॥ ३।६।१२ ॥
इह शाश्वतीम् । अस्यैव विवरणम् बहुवार्षिकीं कीर्तिमैहिकीमामुष्मिकं च ब्रह्मलोकरूपं फलं प्राप्नोति । तदाहुः ब्रह्मण इति ॥ ३।६।१३ ॥
ननु षष्ठांशग्रहात्प्रजारक्षणावश्यकत्वे ऽपि वनवासिरक्षणं कुतस्तत्राह यदिति । यदिति सामान्ये नपुंसकम् । प्रजा वानप्रस्थप्रजाः चतुर्भागश्चतुर्थांश इदमुपलक्षणं षड्भागस्यापि तत्रोपवासिभिक्षाहारिधर्मात्षड्भागप्राप्तिः तेन धर्मषड्भागप्रतिपादकस्मृत्यविरोधः । राजपरिपालितदेशभवफलाद्यशनवतो धर्माच्चतुर्थो भागः तदन्नभोजनादिपुष्टाङ्गधर्मात्त्वर्धं राज्ञः “अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः” इति स्मृतेरिति बोध्यम् ॥ ३।६।१४ ॥
अथ विवक्षितमर्थमाहुः सो ऽयमिति । ब्राह्मणभूयिष्ठ इत्यनेन क्षत्रवैश्यवानप्रस्थसत्तापि तत्र बोधिता । त्वं नाथो रक्षको यस्य स त्वंनाथः सो ऽप्यनाथवद्वध्यते अतस्त्वादृशस्योपेक्षानुचितेति भावः ॥ ३।६।१५ ॥
स्ववचसो मिथ्यात्वपरिपाहायाहुः एहीति । मुनयो मननशीलाः भावितात्मानो निदिध्यासननिष्ठाः शरीराणि केवलं हत्वा त्यक्तानि बहुप्रकारैरङ्गप्रत्यङ्गच्छेदनादिभिः ॥ ३।६।१६ ॥
सकलदण्डकारण्यपीडामाहुः पम्पेत्यादि । पम्पा च नद्यश्च तत्र निवासो येषां तेषाम् पम्पारूपा नदी वा । अनुमन्दाकिनीमपीति अनुर्लक्षणे कर्मप्रवचनीयः मन्दाकिन्या अत्रत्यपुण्यनद्यास्तीरवासिनाम् मन्दाकिन्या विस्तर्णप्रवाहत्वाद्दुरवगाहतया पृथगुक्ती राघवाख्याने ॥ ३।६।१७ ॥
विप्रकारं दुःखं न मृष्यामः सोढुमशक्ताः ॥ ३।६।१८ ॥
शरण्यं रक्षणसमर्थम् । शरणार्थं रक्षणार्थम् ॥ ३।६।१९ ॥
त्वत्तः परा गतिस्त्वदन्यस्त्राता ॥ ३।६।२० ॥
तपस्विनां तपोबलयुतानां तापसानामृषीणाम् ॥ ३।६।२१ ॥
तदेवाह नैवमिति । एवमुक्तं प्रार्थनारूपं वचः आज्ञाप्यः शिष्यादिरिवेदं कुर्विति शिक्षणीयः केवलेनोपाध्यान्तररहितेन स्वकार्येण पितृवचनपरिपालनात्मकेन हेतुना मयावश्यं वनं प्रवेष्टव्यमेव स च मे वनप्रवेशो राक्षसैः क्रियमाणं भवतामिमं विप्रकारमपाक्रष्टुमपि भविष्यतीत्यर्थ इति तीर्थकतकौ भवच्छत्रुहननं केवलं मदीयमेव कार्यं बहुधर्मोपचयजनकत्वान्मदिष्टसाधनमेव । यद्यपि स्वविप्रकारनाशे भवन्तः समर्था एव तथापि मम धर्मोपचयायैवैषा भवदीया मम प्रेरणेति भावः । अन्वयस्त्वत्र स्फुट एवेत्यन्ये । किं च पित्राज्ञापरिपालनार्थमिदं वनं प्रविष्ट एवास्मि । प्रविष्टे च मयि सौ ऽर्थो ऽवश्यं भाष्य एवेति भवतामेव । प्रार्थनमनवसरमिति भावः ॥ ३।६।२२,२३ ॥
तदेवाह– भवतामिति । यदृच्छया आगत एवाहं भवतामर्थसिद्ध्यर्थमपि भविष्याम्येवेति शेषः । पितुस्त्वित्यनेनोक्त एवार्थः कविना श्लोकान्तरेण वर्ण्यते । इयमपि शैली कवेरिति कतकतीर्थौ यतः शत्रून्हन्तुमिच्छामि, अतस्तस्य यदृच्छया वनमागतस्य मे ऽयं वनवासो महाफलो भविष्यतीति स्वगतो विचारः । अथ ऋषिधैर्याय प्रकाशं प्रतिजानीते पश्यन्त्विति । सर्वथा हनिष्यामीति यावत् ॥ ३।६।२४,२५ ॥
वरमुक्तवचनात्मना । धर्मे धृतात्मा धर्मे स्थितचित्तः आर्यं पूज्यं दत्तं यस्य सः तपोधनैः सह सुतीक्ष्णमभिजगाम ॥ ३।६।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे षष्टः सर्गः ॥ ३।६ ॥