समाश्वास्य समाश्वस्येव । विराधाद्भीतामिवेति शेषः ॥ ३।५।१ ॥
इदं वनं कष्टं पीडाजनकं दुर्गं विषमं क्रमणायोग्यं च वयं चेतः पूर्वं कदापि वनगोचरा न स्मः कदापीदृशं वनं न दृष्टं यस्मात् ॥ ३।५।२ ॥
अतः शीघ्रं शरभङ्गं गच्छामहे गच्छाम इत्यर्थः । इत्युक्त्वेति शेषः ॥ ३।५।३ ॥
भावितः शुद्ध आत्मा यस्य तस्य समीपे महदद्भुतं ददर्श ॥ ३।५।४ ॥
तदेवाह विभ्राजमानमिति । वपुषा वपुःकान्त्या विबुधानुगं देवानुचरम्, बहुव्रीहिः ॥ ३।५।५ ॥
वसुधामसंस्पृशन्तं रथादवरुह्यापीति शेषः । विबुधेश्वरं शक्रम् अतिशयप्रभावदाभरणं विरजस्कमम्बरं धर्तुं शीलं यस्य तम् ॥ ३।५।६ ॥
तद्विधैस्तद्विधाभरणादिमद्भिः हरितैः श्यामवर्णैस्तादृशं रथं च ददर्श ॥ ३।५।७ ॥
पाण्डुराभ्रस्येव घना अधिका प्रख्या कान्तिर्यस्य तत् ॥ ३।५।८ ॥
चामरव्यजने वालव्यजने रुक्मं स्वर्णम्, महाधने रत्नयुतत्वाद्बहुमूल्ये ॥ ३।५।९११ ॥
उक्तलक्षणे वासवे शरभङ्गेन संभाषमाणे तु तं शतक्रतुं दृष्ट्वा ज्ञात्वा रामो ऽब्रवीत् । उक्तस्यैव प्रपञ्चः रामो ऽथेति । उद्दिश्य हस्तेन निर्दिश्य दर्शयत अदर्शयतेत्यर्थः ॥ ३।५।१२,१३ ॥
पुरु बहु यथा तथा यज्वभिराहूयते यागायेति पुरुहूतः नो ऽस्माभिः ॥ ३।५।१४ ॥
शतं शतम् अष्टदिक्ष्विति शेषः । शतशब्दो ऽनन्तवाची ॥ ३।५।१५ ॥
विस्तीर्णविपुलान्यतिशयेन विशालान्युरांसि येषां ते आयता दीर्घाः शोणांशूनि शोणप्रभानि वसनानि येषाम् “शोणाश्मवसनाः” इति पाठे पद्मरागसदृशवसना इत्यर्थः । “शोणांशु “इत्येव प्राचीनः पाठ इति कतकः ॥ ३।५।१६ ॥
ज्वलनसंनिभा दीप्तिमात्रेण ॥ ३।५।१७ ॥
एतद्धि पञ्चविंशतिवर्षप्रमाणकम् नित्यदेत्यार्षम् ये इमे देवा यथा यादृशशुभदर्शनवयस्का दृश्यन्ते एतदेवैषां नित्यदा वय इति पूर्वेण संबन्धः ॥ ३।५।१८ ॥
यावज्जानामि ज्ञास्यामि तावत्तिष्ठेत्यन्वयः । क एष रथे इन्द्रत्वेनानुमितो ऽपि प्रमाणान्तरेणापि ज्ञातव्य इत्यर्थः ॥ ३।५।१९ ॥
उक्तानुवादपूर्वं व्यापारान्तरोपदेशः तमेवमित्यादि । इहैव स्थीयतामिति एवमुक्तत्वेत्यर्थः ॥ ३।५।२० ॥
अनुज्ञाप्य गमनाय कृतानुमतिकं कृत्वा ॥ ३।५।२१ ॥
यावदसौ मां नाभिभाषते तावन्मां निष्ठां स्थानान्तरं स्वर्गं वा नयत मया सह गच्छत । ततो वनचारित्वाद्धेतोर्मा मामद्रष्टुमर्हति द्रष्टुं नार्हतीत्यर्थः । अ इति निषेधार्थमव्ययं पृथक्पदम् । विपदीव स्थितेनैव वैभवस्य दर्शनमनुचितमित्यर्थः ॥ ३।५।२२ ॥
कृतार्थं निस्तीर्णविपदम् जितवन्तम् रावणमिति शेषः । तदा वैभवयुक्तमिमं द्रक्ष्यामीति शेषः । कतकस्त्वेतत्पद्यं प्रक्षिप्तमित्याह तद्वृथैव, मद्रीत्या व्याख्याने सर्वसामञ्जस्यात् । रामो यावन्मां नाभिभाषते तावत्कर्मणो रावणवधस्य निष्ठां समाप्तिं नयत । ततो मां द्रष्टुमर्हति । अन्यैः सुदुष्करं महत्कर्म तेन कर्तव्यमस्ति रावणवधरूपम्, अतस्तत्करणेन कृतार्थं कृतदेवप्रयोजनं रावणजयिनं द्रष्टास्मि इति तीर्थव्याख्याने । संप्रत्यदर्शनहेतुस्तु पूर्वोक्त एवोपरितो बोध्यः ॥ ३।५।२३ ॥
अथ वज्रीति । देवैरालापोत्तरं तं तापसं शरभङ्गमामन्त्र्य मानयित्वा संपूज्य च दिवं ययौ ॥ ३।५।२४ ॥
सपरिच्छदः स्त्रीभ्रातृसहितः ॥ ३।५।२५ ॥
पादौ संगृह्य राम ईश्वरो ऽपि ब्राह्मणा एवं पूज्या इत्यन्याञ्शिक्षयितुमेवं चकार । तदनुज्ञाता आसनावस्थानाय कृतानुमतिकाः अत एव लब्धवासा लब्धवासस्थानाः निमन्त्रिता भोजनाद्यर्थम् तादृशा निषेदुः ॥ ३।५।२६ ॥
शक्रोपयानमिन्द्रागमनप्रयोजनम् ॥ ३।५।२७ ॥
निवेदनप्रकारमाह मामेष इति । उग्रेण तपसा मया जितं ब्रह्मलोकमेष वरद इन्द्रो ब्रह्माज्ञया मां निनीषति, यद्वा देवेन्द्रवेषधारी ब्रह्मैवायम् अकृतात्मभिरननुष्ठितभगवदुपासनैः ॥ ३।५।२८ ॥
तर्हि किमिति विलम्बितं तत्राह अहमिति । ज्ञात्वा योगचक्षुषा न गच्छामि योगसिद्ध्या स्वेच्छया देहत्यागात्त्वां प्रियातिथिमतिप्रियमतिथिम् ॥ ३।५।२९ ॥
त्वया समागम्य त्वत्समागमश्च सकृदपि संवृत्त एतावत्कालपर्यन्तानुष्ठितोपासनातो ऽधिकफलद इति भावः । त्रिदिवमवरं परं च, परो ब्रह्मलोकः ॥ ३।५।३० ॥
समागमस्य । यथा ऽधिकफलता भवति तथा करोति अक्षया इति । के ते लोकास्तत्राह ब्राह्मया इति । उभयत्र ष्यञ् आर्षः । ब्रह्मलोका नाकपृष्ठलोकाश्च जिता मामकास्तान्प्रगृह्णीष्व स्वकृतत्वेनाङ्गीकुरुष्व । अनेन सर्वकर्मणां भगवदर्पणमकरोदिति सूचितम् । “कामतो ऽकामतो वापि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ नाहं कर्ता सर्वमेतद्ब्रह्मैव कुरुते तथा । एतद्ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ " इति कौर्मोक्तिः । भगवत्यर्पितधर्माणामनन्तफलत्वं गीतादिषु स्पष्टमेव मुक्तिपर्यवासयित्वात् ॥
३।५।३१,३२ ॥
अहमेवेति । तपसेत्यर्थः त्वद्दत्तप्रतिग्रहे नाहमधिकारीत्यापाततो ऽर्थः, वास्तवस्तु ऋषेः परमभक्तस्यानुग्रहाय तदर्पितधर्माङ्गीकारमाह भगवान्– अहमेवेति । मयि न्यासत्वेन स्थापितनिमांस्त्वदर्जितान्सर्वाँल्लोकांस्तुभ्यमहमेवाहरिष्यामि प्रापयिष्यामीत्युक्त्वेतरजनाप्रतारणायाह आवासं त्विति । प्रदिष्टमुपदिष्टम् ॥ ३।५।३३,३४ ॥
इहारण्ये वसति । अदूरे इति शेषः ॥ ३।५।३५ ॥
प्रतिस्रोताम् आबन्तत्वमार्षम् । मन्दकिनीं तामिव पुण्यां तन्नामिकां वा चित्रकूटस्थेयमेव प्रतिस्रोतसं कृत्वा व्रज । पूर्ववाहिन्यां पुरुषेण पश्चिमाभिमुखतया गमने प्रतिस्रोतस्त्वं भवति । पुष्पवल्लघु उडुपवहा उडुपं प्लवः पुष्पसमूहवहामिति वा ॥ ३।५।३६ ॥
एष पन्था इति मार्गोपदेशः । अथ ऋषिर्भगवत्प्रार्थितस्योत्तरं दत्त्वा स्वाभीष्टं भगवन्तं प्रार्थयते मुहूर्तं तात पश्य माम् । अयं कृतार्थो भवत्वित्यभिध्यानपूर्वकं कटाक्षेणेति शेषः । तातेति गूढं जगज्जनकेत्यर्थमपि गात्राणि गात्रावयवान् ॥ ३।५।३७ ॥
ततो ऽग्निं स इति । “वृद्धः शौचक्रियालुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः ॥ " इत्युक्तेऽग्निप्रवेशेऽन्त्येष्टिमार्गेणाग्निं समाधाय मन्त्रवत्तदुक्तमन्त्रैर्हुत्वा चाग्निप्रवेशोक्तमन्त्रैरुपनिषदुक्तैः प्रविवेश ॥
३।५।३८ ॥
तस्येति । तस्य शरभङ्गस्य रोमादीनि वह्निर्ददाहेति शेषः ॥ ३।५।३९ ॥
स्वर्गारोहणार्थं दिव्यशरीरपरिग्रहमग्निप्रवेशस्य पूर्वकृतोपासनस्य च फलभूतमाह स चेति ॥ ३।५।४० ॥
आहिताग्निलोकाः “कर्मणा पितृलोकः” इति श्रुताश्चन्द्रप्रदक्षिणाः ऋषिलोका “विद्यया देवलोकः” इति श्रुताः सूर्यप्रदक्षिणाः । देवानामाजानदेवानां ब्रह्मविष्णुरुद्राणां च लोकाः, यान्ध्रुवः प्रदक्षिणं करोति । ततो ब्रह्मलोकं तुर्यं व्यरोहतारूढवान् ॥ ३।५।४१ ॥
पितामहं ब्रह्मादित्रयसमष्टिरूपम् ॥ ३।५।४२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे पञ्चमः सर्गः ॥ ३।५ ॥