सुमहान्तौ स्वभुजौ प्रगृह्योद्यम्य ॥ ३।४।१ ॥
क्रोशनप्रकारमाह एष इति ॥ ३।४।२ ॥
शार्दूलद्वीपिनः सबिन्द्वबिन्दुव्याघ्राः । मां हरते नम इत्युक्ती रामलक्ष्मणयोः प्रेमातिशयत्वात् ॥ ३।४।३ ॥
वेगं त्वराम् ॥ ३।४।४ ॥
बाहुं बभञ्ज । नैतावतापि प्राणहानिरिति न वरदानविरोधः । अभेद्याच्छेद्यत्वं च प्राणनाशक्षमावयवविशेषपरं बोध्यम् । बभञ्ज मुष्टिप्रहारेणेति शेषः । अभेद्याच्छेद्यत्ववरस्तु शस्त्रकरणकतद्विषय इत्यन्ये ॥ ३।४।५ ॥
संविग्नः खिन्नः ॥ ३।४।६ ॥
सूदयन्तौ हिंसन्तौ ॥ ३।४।७ ॥
न ममार वरदानबलादिति भावः ॥ ३।४।८ ॥
भयेषु भयकालेषु अभयदः स्वगुणादिश्रवणस्मरणकीर्तनादिना ॥ ३।४।९ ॥
निखनावहे भूमौ गर्ते पातयावहे ॥ ३।४।१०,११ ॥
प्रदरो गर्तः कण्ठ आक्रम्य गयमिव ॥ ३।४।१२ ॥
प्रश्रितं शापान्तकालप्राप्तेः प्रश्रयप्राप्तिः ॥ ३।४।१३ ॥
प्रदरकरणरूपप्राणान्तव्यापारात्पूर्वं रामस्त्वमिति न ज्ञातः ॥ ३।४।१४ ॥
इदानीं कथं ते ज्ञानं तत्राह कौसल्येत्यादि । त्वया कौसल्या सुप्रजा इति त्वं विदितः कौसल्यापुत्र इति ज्ञातो ऽसीत्यर्थः । एवं च कौसल्यायामीश्वरो ऽवतीर्णो वैदेही च लक्ष्मीर्लक्ष्मणश्च तवांश इति सूचितम् ॥ ३।४।१५ ॥
एवंज्ञाने कारणमाह अभिशापादिति । तुम्बुरुरहं वैश्रवणेन शप्तः, तस्माच्छापाद्राक्षसीं तनुं प्रविष्टः, अतो मे ज्ञानशक्तिरस्तीत्यर्थः ॥ ३।४।१६,१७ ॥
प्रकृतिं गान्धर्वीम् । प्रकृतक्रोधकारणमाह अनुपस्थीयमानो ऽवसरेष्वसेव्यमानः । व्याजहारेत्यस्य राक्षसीं तनुं प्रविशेतीति शेषः ॥ ३।४।१८ ॥
अनुपस्थाने कारणमाह इतीति । उक्तं शापं तत्प्रतीकारं चोवाचेत्यर्थः । शापमुक्तिकालज्ञानजानन्दपारवश्यात्पुनरुक्तिर्न दोषाय ऽ"रम्भासक्तं पुरानघ" इति पाठे पुनरुक्त्यभाव एव ॥ ३।४।१९ ॥
स्वं भुवनं स्वं लोकम् “भवनम्” इति पाठान्तरम् ॥ ३।४।२० ॥
अध्यर्धयोजने सार्धयोजने ॥ ३।४।२१ ॥
गतसत्त्वानां गतप्राणानाम् सनातनः परंपराप्राप्तः अत एव कलिराक्षसेषु यवनेष्वेतद्धर्मप्रवृत्तिः ॥ ३।४।२२ ॥
उक्तमेव विवृणोति अवटे इति ॥ ३।४।२३ ॥
न्यस्तदेहो ऽवटनिक्षिप्तदेहः स्वर्गसंप्राप्तः संप्राप्तस्वर्ग इत्यर्थः । बभूव तथा भवितुमुद्यतो बभूवेत्यर्थः । यद्वा बभूवेत्यर्धेन संक्षिप्ततयोक्तस्य विस्तरमाह तच्छ्रुत्वेति । अवटनिक्षेपेण स्वर्गप्राप्तिं श्रुत्वा ॥ ३।४।२४ ॥
कुञ्जरस्येव मृतकुञ्जरस्य निखननार्थमिवेत्यर्थः । खन्यतामिति शीघ्रमिति शेषः, मया तर्कितस्यैतन्मरणोपायस्यानेनापि कथनान्निश्चितत्वेन शीघ्रता कार्येत्याशयः ॥ ३।४।२५ ॥
पादेन कण्ठ आक्रम्य तस्थौ श्वभ्राद्दूरपरिलुण्ठनव्यावृत्त्यर्थम् ॥ ३।४।२६ ॥
विराधस्य महात्मनः । महात्मनो महाशरीरस्य गन्धर्वत्वप्रत्यापत्त्यभिप्रायेण रामस्वरूपज्ञानाभिप्रायेण च कविना महात्मन इति प्रयुक्तं वा ॥ ३।४।२७ ॥
मुक्तकण्ठं श्वभ्रे क्षेपणार्थं रामेण मुक्तकण्ठाक्रमणम् शङ्कुवत्कठिनकर्णम् उत्क्षिप्य चालयित्वा महास्वनत्वादेव भैरवस्वनत्वं यथा तथा धन्यो ऽहमतिधन्यो ऽहमिति नदन्तं श्वभ्रे प्राक्षिपत् ॥ ३।४।२८ ॥
आशुविक्रमौ क्षिप्रकारिणौ संयति स्थिरौ दृढचित्तौ आहवे निर्जितं बलेनोत्क्षिप्य सञ्चाल्य गर्ते चिक्षिपतुः ॥ ३।४।२९ ॥
अवध्यतां शस्त्रेणावध्यतां प्रेक्ष्य । “असह्यताम्” इति पाठे ऽप्यवध्यतामित्येवार्थः । प्रेक्ष्य विचार्य समर्थ्य बिलं संपाद्य तत्र बिले वधं प्रचक्रतुः मृत्पूरणेनेति शेषः ॥ ३।४।३० ॥
उक्तमेवार्थमुपसंहरति स्वयमिति । यथार्थं स्वप्रयोजनोचितम् रामेण कर्त्रा प्रसह्य स्वयं स्वस्य यो मृत्युरीप्सितस्तमात्मनो मृत्युं प्रसह्योद्दिश्य । “प्रपद्य” इति पाठे ऽप्ययमेवार्थः । काननचारिणा विराधेन मे वधः शस्त्रकृतो न भवेदिति निवेदितो ऽभूद्राम इति शेषः ॥ ३।४।३१ ॥
तदेव भाषितं विराधोक्तं शस्त्रेण मे न मृत्युरित्येवंरूपम् ॥ ३।४।३२ ॥
प्रहृष्टरूपाविव इवशब्द एवार्थे ॥ ३।४।३३ ॥
दिवि स्थितौ चन्द्रदिवाकराविव महावने विजह्रतुः । नीलत्वाद्विशालत्वाच्च वनस्याकाशसादृश्यम् उभावपि चन्द्रवत्कलासंपन्नौ सूर्यवत्प्रतापयुतौ ॥ ३।४।३४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे चतुर्थः सर्गः ॥ ३।४ ॥