००३ राम-विराधयुद्धम्

अथेति । वनं पूरयन्नित्यस्य शब्देनेति शेषः । युवयोः स्वरूपं पृच्छते मह्यं ब्रूतम् लोण्मध्यमद्विवचनम् । प्रश्नप्रकारः कावित्यादि ॥ ३।३।१ ॥

ज्वलिताननं राक्षसत्वान्मुखनिःसृताग्निज्वालया आत्मन इक्ष्वाकुसंबन्धि कुलमुवाचेत्यर्थः ॥ ३।३।२ ॥

क्षत्रियौ इक्ष्वाकुवंशजाविति शेषः । वनगोचरौ बहुव्रीहिः । कुतश्चिद्धेतोरिति शेषः ॥ ३।३।३ ॥

निबोध मम वचनान्मम स्वरूपमिति शेषः ॥ ३।३।४ ॥

जवस्य जवनाम्नः ॥ ३।३।५ ॥

लोके प्राणिलोके शस्त्रेण शस्त्रसामान्येन किं च अच्छेद्याभेद्यत्वं प्राणवियोजनाय छेदभेदाशक्यगात्रत्वं च प्राप्तमित्यर्थः ॥ ३।३।६ ॥

यदेवमतः उत्सृज्येत्यादि । अनपेक्षौ प्रमदाशया युद्धाशया च रहितौ वां युवयौः ॥ ३।३।७,८ ॥

हीनार्थं परदारस्पर्शलक्षणहीनकर्मकरम् अत एव त्वां धिक् । मृत्युमन्वेषसे ध्रुवम् उक्तदुष्कर्मकरणादिति शेषः तं च मृत्युं रणे सम्यक्प्राप्स्यसि तिष्ठ क्षणमिति शेषः ॥ ३।३।९ ॥

अभिसन्धाय धनुषीति शेषः ॥ ३।३।१० ॥

ज्यागुणवता ज्यारूपरज्जुमता ज्याशब्दवतेति वा सुपर्णानिलाभ्यां तुल्यं गच्छन्ति तान् ॥ ३।३।११ ॥

बर्हिणवाससो वर्हिणो मयूरस्तत्संबधिबर्हवासस इत्यर्थः । शोणितादिग्धा रक्तलिप्ताः ॥ ३।३।१२ ॥

स विद्धो ऽपि रामबाणताडितो ऽपि वरदानमाहात्म्यादगतासुर्व्यथामात्रेण वैदेहीं हित्वा शूलमुद्यम्याभ्यद्रवत् ॥ ३।३।१३ ॥

महानादं विनद्य कृत्वा शक्रध्वजोपमं दैर्घ्येण स्थौल्येन च व्यात्ताननो विवृताननः ॥ ३।३।१४ ॥

कालान्तकयमाः प्राणतनुमनःसंहारप्रधानाः संहाररुद्रस्य मूर्तयस्तत्सदृशे ॥ ३।३।१५ ॥

प्रहस्य शस्त्रावध्ये मयि वृथैषां बाणपात इति हासः । ते बाणा रामलक्ष्मणविसृष्टा जृम्भणेन शरीरलग्रा अपि कायान्निर्जग्मुः । आशुगाः शीघ्रगा इत्यर्थे केवलं यौगिकम् ॥ ३।३।१६ ॥

स्पर्शात्तु वरदानेन वरदानसंबन्धादित्यर्थः । संरोध्य धृत्वा परमदुःखं प्राप्तो ऽपीति शेषः ॥ ३।३।१७ ॥

तच्छूलं करस्थशूलभागमेवेति शेषः । गगने ज्वलनोपमं शिखाभागावच्छेदेनेति भावः ॥ ३।३।१८ ॥

अशनिर्वज्रम् ॥ ३।३।१९ ॥

तदा पतनकाल एव प्रहरतामित्यर्थः ॥ ३।३।२० ॥

भुजाभ्यां परिगृह्य एकैकेनैकैकम् ॥ ३।३।२१ ॥

तस्याभिप्रायं काननान्तर्नयनविषयम् ॥ ३।३।२२ ॥

यथेच्छति तथा वहतु यथास्येष्टं भवति तथा वहतु अनेन निर्भयत्वं दर्शितम् । तत्र हेतुमाह अयमेवेति ॥ ३।३।२३ ॥

स्कन्धगतौ चकार स्कन्धावारोपयामास ॥ ३।३।२४,२५ ॥

शिवायुतं शिवाभिर्वृतम् ॥ ३।३।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे तृतीयः सर्गः ॥ ३।३ ॥