००२ विराधेन सीतापहरणम्

उदयनं प्रति उदयकाले अन्वगाहत प्राविशत् ॥ ३।२।१ ॥

ध्वस्तवृक्षलतागुल्मं विराधसञ्चारवशादिति शेषः । दुर्दर्शसलिलाशयमुक्तहेतुवशादेव ॥ ३।२।२ ॥

निष्कूजमानाः शकुनयो यत्र तत् । विराधभयादेवं झिल्लिकागणमात्रशब्दयुतं वनमध्यं ददर्शेति संबन्धः ॥ ३।२।३ ॥

घोरमृगास्तरक्ष्वादयः पुरुषादं राक्षसम् ॥ ३।२।४ ॥

गभीराक्षं महाकूपवदगाधचक्षुषम्, विकटं विशालं, बीभत्सं कुत्सितं, विषमं निम्नोन्नतसंस्थानं, विकृतं वक्ष्यमाणधर्मैर्विपरीतवेषम् अत एव घोरदर्शनम् ॥ ३।२।५ ॥

वसा मांसान्तर्गतस्नेहः । व्यादितास्यं व्यात्तास्यमित्यर्थः ॥ ३।२।६ ॥

पृषता बिन्दुयुक्ता मृगाः ॥ ३।२।७ ॥

भक्षणार्थे सिंहादीनायसे शूले ऽवसज्य महास्वनं यथा तथा विनदन्तम् ॥ ३।२।८ ॥

काले युगान्तकाले वृद्धो ऽन्तकः प्रजा अभि उद्दिश्य यता धावति तथाभ्यधावत् ॥ ३।२।९ ॥

अङ्केन कटिप्रदेशेन । सभार्यौ भार्याशब्दो योषिन्मात्रवाची एकया योषिता सहितौ, यद्वा विराधस्येदं निन्दोक्तिरूपमेव वाक्यम् ॥ ३।२।१० ॥

तदेवाह कथमिति । प्रमदयैकया सह द्वयोर्वासः कथं चेत्यन्वयः ॥ ३।२।११ ॥

अत एवाह अधर्मचारिणौ । मुनिदूषकौ मुनिवेषविरुद्धशरचापासिधारणादेकभार्यारक्तत्वाच्च अत एव पापौ । तयोर्भीत्युत्पादनाय विराधः स्वयमेव स्वस्वरूपमाह अहमिति ॥ ३।२।१२,१३ ॥

मृधे युद्धे ॥ ३।२।१४ ॥

सगर्वितम् भावे निष्ठा सगर्वमिति यावत् । उद्वेगाद्भयात् ॥ ३।२।१५ ॥

परिशुष्यता शोकसङ्कुचितेन मुखेनोपलक्षित इव ॥ ३।२।१६ ॥

प्रवेशिताम् विराधेनेति शेषः ॥ ३।२।१७ ॥

अस्मासु विषये यद्दुःखं कैकेय्या वने संपादनीयतयाभिप्रेतं यत्स्वस्य प्रियं वरदृतं च तत्क्षिप्रमद्यैव सुसंवृत्तं सिद्धम् या पुत्रार्थे पुत्रप्रयोजननिमित्तं राज्येन राज्याभिषेकमात्रेण न तुष्यति दीर्घदर्शिनी अस्मन्नाशेन स्वपुत्रस्य चिरं राज्यं पश्यन्ती ॥ ३।२।१८,१९ ॥

यया दीर्घदर्शिन्या सर्वभूतहितो ऽहं वनमपि प्रस्थापितः पितृराज्यदार्ढ्याय या मे मध्यमा माता कौसल्यातः कनिष्ठत्वात्सुमित्रातो ज्येष्ठत्वात्साद्य दिवस इदानीमस्मिन्काले सकामा जाता । कौसल्यापेक्षया कनिष्ठत्वात्पूर्वं यवीयसीत्युक्तिरपि नासङ्गता । तीर्थस्तु कौसल्यासुमित्राभ्यां कनीयसी, इतरदशरथपत्नीभ्यो ज्येष्ठेत्याह । भगवतो ऽपीदृशोक्तिस्तु लक्ष्मणोत्साहवर्धनायेति शेषः ॥ ३।२।२० ॥

तदर्थमेव पुनरप्याह परेति । पितुर्मरणात्स्वराज्यहरणादधिकदुःखजनको वैदेहीपरस्पर्शः इतो ऽधिकं दुःखजनकं तु न मे किंचिदिति दुःखातिशयो व्यङ्ग्यः ॥ ३।२।२१ ॥

बाष्पशोकाभ्यां नेत्रचित्तगताभ्यां परिप्लुतो व्याप्तस्तथा क्रुद्धः कैकेयीं प्रति विराधं प्रति च रुद्धो नाग इव अहितुण्डिकेन मन्त्ररुद्धः पेटीरुद्धो वा सर्प इवेत्यर्थः, श्वसन्रामविषाददर्शनेन ॥ ३।२।२२ ॥

अनाथ इव नाथापेक्षः प्राणी नाथरहितः सन्यथा शोचति तद्वत् । कीदृशस्त्वम् भूतानां सर्वजीवानां नाथस्त्राता तेन तस्य नाथनिरपेक्षत्वं ध्वनितम्, तदुपपादकमेव वासवोपम इत्यपि । मया प्रेष्येण युक्त इति शेषः ॥ ३।२।२३ ॥

किं त्वया शक्यं तत्राह शरेणेति ॥ ३।२।२४ ॥

विराधे मोक्ष्यामि भरतेन राज्यकामनायाः प्रदर्शितत्वात्तमुपेक्ष्य ॥ ३।२।२५ ॥

भुजबलवेगेन धनुष्कर्षणवेगेन वेगित आहितवेगो महीं पततु विराध इति शेषः । विघूर्णितः सञ्जातभ्रमणः ॥ ३।२।२६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे द्वितीयः सर्गः ॥ ३।२ ॥