अरण्यकाण्डम् ।
अथ ऋषिदर्शितवर्त्मना रामस्य दण्डकारण्यप्रवेशमाह प्रविश्येति । ऋषिदर्शितवर्त्मनेति शेषः, दण्डकारण्यं तत्सञ्ज्ञकं महारण्यं दण्डकस्य राज्ञो देशः शुकशापवशादरण्यमभूत् । ततः प्रभृति दण्डकारण्यसञ्ज्ञा तस्य । प्रायेण महाराष्ट्रदेशो ऽयम् । आत्मवान्स्वायत्तचित्तः, दुर्धर्षो द्विषद्भिरप्रधृष्यः । “दुर्धर्षम्” इति पाठे रक्षोयुतत्वादशक्यप्रवेशमित्यर्थः, मण्डलं समूहः ॥ ३।१।१ ॥
आश्रममण्डलं वर्णयति कुशेति । परिक्षिप्तं व्याप्तम् । ब्राह्मी लक्ष्मीर्ब्रह्मविद्याभ्यासजनितस्तेजोविशेषः तत्समावृतत्वादेव गगने प्रदीप्तं दुर्दर्शं रक्षआदिभिर्द्रष्टुमशक्यं सूर्यमण्डलं यथा तथा भुवि स्थितम् ॥ ३।१।२ ॥
शरण्यं वासायार्हं सर्वत्राणार्हं च । सुसंमृष्टाजिरमलङ्कृतप्राङ्गणम् ॥ ३।१।३ ॥
अप्सरसां गणैरुपनृत्तमुप समीपे कृतनर्तनम् अतिमनोरमदेशत्वात् । अत एव तैः पूजितं च । अग्निशरणैरग्निहोत्रगृहैः स्रुगादिभिर्यज्ञोपकरणैश्च शोभितम् ॥ ३।१।४ ॥
आरण्यैररण्यभवैः ॥ ३।१।५ ॥
बलिहोमार्चितं वैश्वदेवहोमबलिहरणैः सत्कृतं, ब्रह्मघोषो वेदघोषस्तेन निनादितं सञ्जातनिनादम् । पद्मिनी सरः, सपद्मया पद्मपुष्पयुक्तया ॥ ३।१।६ ॥
पुराणैर्वृद्धैः ॥ ३।१।७ ॥
ब्रह्मभवनं ब्रह्मलोकः, ब्रह्मघोषो वेदघोषः ॥ ३।१।८ ॥
ब्रह्मविद्भिः सर्वत्र ब्रह्मानन्यत्वज्ञानवद्भिः । ब्राह्मणैरुक्तलक्षणैरन्वर्थब्राह्मणैस्तादृशैर्युक्तत्वादेव ब्रह्मभवनप्रख्यत्वमाश्रमस्य ॥ ३।१।९ ॥
विज्यमवरोपितगुणम् आश्रमवर्तिमगादित्रासनिवृत्त्यर्थमिति भावः । दिव्यज्ञानोपपन्ना आदिगुर्ववतारो रामो रावणादीन्हनिष्यतीत्येवं ज्ञानयुक्तास्ते रामं सीतां च, चाल्लक्ष्मणं च, दृष्ट्वा प्रीता अभिजग्मुराभिमुख्येन जग्मुः । उद्यन्तं सोममिव तद्वत्प्रियदर्शनम् “सोमो ऽस्माकं ब्राह्मणानां राजा” इति श्रुतेः । स्वकुलरक्षकसोमराजमिव स्वरक्षकं धर्मचारिणं रामं दृष्ट्वा लक्ष्मणं यशस्विनीं पातिव्रत्ययशोवर्तीं रक्षःकुलसंहारजयशोवर्तीं च सीतां दृष्ट्वा अत एवाग्रे रक्षणबुद्ध्या प्रतिगृहीतवन्तः ॥ ३।१।१०१२ ॥
रूपसंहननम् “अङ्गान्यभूषितान्येव प्रेक्षणीयैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥ " इति लक्षितं रूपं तद्युक्तं संहननमापादकेशं सुश्लिष्टसंबन्धः । “अङ्गप्रत्यङ्गकानां च संनिवेशे यथोचितम् । सुश्लिष्टसन्धिबन्धो यस्तत्सौन्दर्यमिहोच्यते ॥
" इत्युक्तलक्षणं सौन्दर्यम् । लक्ष्मीं कान्तिलावण्यम् । “मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तन्निगद्यते ॥ "
सौकुमार्यं परचित्तग्राहितालक्षणं मार्दवं वा । विस्मितानामद्भुतवस्तुदर्शनवतां य आकारो मुखप्रसादस्फारितेक्षणत्वादिरूपस्तथाविधाकाराः । विस्मितचित्ता इति यावत् वनवासिन इति रामविशेषणम् । तादृशस्यापीदृशं रूपादीत्याश्चर्यम् ॥ ३।१।१३ ॥
तदेवाह– वैदेहीमिति । अनिमेषैर्निमेषरहितैः । आश्चर्यभूतान्रूपादिभिर्विस्मयप्रापकान्सर्वे ते वनवासिन ऋषयो मृगादयश्च । तद्दर्शनानन्दविच्छेदभयेन च निमेषराहित्यम् ॥ ३।१।१४ ॥
अत्राश्रममण्डले । अतिथिं न्यायतः पूजार्हम् । पर्णशालायां प्रातिस्विक्याम् ॥ ३।१।१५ ॥
रामस्य सत्कृत्येति कर्मणः शेषत्वविवक्षायां षष्ठी । भवद्दर्शनादिभिर्वयं धन्या इत्यादिप्रियवचनैः सत्कृत्य सलिलं सलिलादिपूजाद्रव्यमाजह्रुः रामपूजार्थमिति शेषः ॥ ३।१।१६ ॥
आश्रमं च स्ववासस्थानभूतम् ॥ ३।१।१७ ॥
प्राञ्जलयः निजकुलदेवतावतारत्वात् अन्यथा हि क्षत्रिये ब्राह्मणाञ्जलिकरणस्यानौचित्यं स्यात् ॥ ३।१।१८ ॥
पूजनीयो देवताबुद्ध्या पालकत्वेन गुरुत्वाद्वा । मान्यो राजबुद्ध्या सत्कारार्हः । तदेवाह– राजेत्यादि । दण्डधरो दुष्टनिग्रहकर्ता । सर्वलोकप्रसिद्धं पूजाहेतुमाह– इन्द्रस्येति । इन्द्रस्याशेषयागपूज्यस्य चतुर्भागश्चतुर्थों ऽशः, यद्वा इन्द्रस्य परमात्मनो विष्णोश्चतुर्थो ऽशः । एवकारेण न यस्यकस्यापि देवतासामान्यस्येति सूचितम् ॥ ३।१।१९ ॥
नमस्कृतः लौकैरिति शेषः । एवं राजमात्रस्याप्येवंविधत्वे साक्षाद्भगवतस्तवैवंविधत्वमिति किमु वक्तव्यमिति ध्वनिः । ते वयमृषयः । रक्ष्यत्वे हेतुः भवद्विषयवासिन इति । विषयो देशः । सार्वभौमत्वाद्दण्डकारण्यमपि तद्देश एवेति भावः । विष्ण्ववतारत्वात्सर्वो देशस्तवैवेति गूढो ऽभिप्रायः । ननु वनस्थेन बलहीनेन मया कथं भवन्तो रक्ष्यास्तत्राह नगरस्थ इति । नगरमयोध्या । त्वं नो राजा रक्षकः राजा जनेश्वर इत्याभ्यामिहामुत्र च त्वमेव रक्षकः राजा जनेश्वर इत्याभ्यामिहामुत्र च त्वमेव रक्षकः सर्वशक्तिसंपन्नस्य नगरवनवासाभ्यामुपचयापचययोरभावादिति ध्वनितम् ॥ ३।१।२० ॥
ननु महाप्रभावानां कुतो रक्षकान्तरापेक्षेत्यत आह– न्यस्तेति । त्यक्तभूतनिग्रहाः । तत्र हेतुर्जितक्रोधाः तपोनाशभयात् । अतो रक्षितव्याः । गर्भभूताः यथा मातुर्गर्भे प्राप्तो जीवो मात्रा रक्ष्यते तद्वद्रक्ष्या इत्यर्थः ॥ ३।१।२१ ॥
अन्यैर्नीवारादिभिर्विविधाहारैः । सलक्ष्मणमित्यनेन लक्ष्मणस्याप्याहारभक्षणं स्पष्टमुक्तम् ॥ ३।१।२२ ॥
अन्ये सिद्धा सङ्कल्पसिद्धाः । न्यायो धर्मस्तदनुरुद्धं वृत्तं चरित्रं येषां ते । यथान्यायमीश्वरार्हपदार्थोपस्थापनेनेश्वरं तर्पयामासुः ॥ ३।१।२३ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽरण्यकाण्डे प्रथमः सर्गः ॥ ३।१ ॥