११९ रामस्य दण्डकारण्यप्रवेशः

अनसूयेति ॥ २।११९।१ ॥

स्वयंवरं वृत्तं स्वयंवरो वृत्तः अर्धर्चादिः स्वयंवरः ॥ २।११९।२ ॥

उपोह्य समीपं प्रापय्य ॥ २।११९।३ ॥

दिवसं व्याप्याहारार्थ परितः कीर्णानां संचरताम् निलीनानां निलीयमानानाम् ॥ २।११९।४ ॥

कलशोद्यता उद्यतकलशाः सहिताः परस्परं मिलिताः ॥ २।११९।५ ॥

कपोताङ्गवत्पारावतकण्ठवदरुणो मेचकः । ऽश्यामे रक्ते ऽरुणो ऽर्के चऽ ॥ २।११९।६ ॥

अल्पपर्णा अपि तरवस्तमसाव्यक्तपर्णान्तरत्वाद्धनीभूता इव । विप्रकृष्टेन्द्रिये देशे इन्द्रियविप्रकृष्टे दूरे देश इत्यर्थः, न प्रकाशन्ति न प्रकाशन्ते ॥ २।११९।७ ॥

वेदितीर्थेष्वग्निहोत्रवेदिसंबन्धात्पुण्यक्षेत्ररूपा श्रमप्रदेशेषु तीर्थशभ्दः पुण्यक्षेत्रवाची ॥ २।११९।८ ॥

चन्द्रो दृश्यते इत्यनेन कार्तिक्युत्तरं प्रतिपदि यात्रेति सूचितम् ॥ २।११९।९ ॥

अनुचरी भव शुश्रूषुर्भव ॥ २।११९।१० ॥

अलंकुरु आत्मानमिति शेषः । प्रीति जनय अलंकृत्य दिव्यस्वस्वरूपानुभावनेनेति शेषः ॥ २।११९।१११३ ॥

सर्वं न्यवेदयदित्यस्यैव प्रपञ्च–प्रीतिवानमित्यादि । अत्र कर्मणि ल्युट् ॥ २।११९।१४ ॥

मानुषेषु मनुष्यलोकेषु ॥ २।११९।१५ ॥

पुण्यामनसूयया पुण्यया कृतालंकारां सीतां दृष्ट्वा शर्वरीमुवास ॥ २।११९।१६ ॥

आपृच्छेताम् । वनान्तरगमनार्थमिति शेषः ॥ २।११९।१७ ॥

संचारं देशम् । वृद्धिरार्षी । समभिप्लुतं सम्यगुपद्रुतम् ॥ २।११९।१८ ॥

व्याला हिंस्रपशवः । ऽसर्पो हिंस्रःपशुर्व्यालःऽ इत्यमरः ॥ २।११९।१९ ॥

उच्छिष्टमशुचिम् । प्रमत्तमसावधानम् । तान्रक्षोव्यालान् ॥ २।११९।२० ॥

क्षमं युक्तम् ॥ २।११९।२१ ॥

इतीरित एवमुपदिष्टमार्गः । कृतस्वस्त्ययनः कृतमङ्गलाशीर्वादः ॥ २।११९।२२ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय अदिकाव्ये ऽयोध्याकाण्डे एकोनविंशाधिकशततमः सर्गः ॥ २।११९ ॥

इति श्रीमद्वाल्मीकिरामायणे ऽयोध्यकाण्डं समाप्तम् ।

इति शिवम्