अनयासू ऽसूयारहिता । अनसूययान्वर्थतन्नाम्न्या । वचो ऽनसूयायाः ॥ २।११८।१ ॥
अनुभाषसे शिक्षयसि । नार्या गुरुः पतिरिति यथा भवत्योपदिष्टमेतद्विदितमेतद्विषयकं ज्ञानं ममापि ॥ २।११८।२ ॥
तदेव दर्शयति–यद्यपीत । एष भर्ता यद्यप्यनार्यः पूज्यचरित्रहीनो वृत्तिवर्जितो जीवनरहितो दरिद्रश्च भवेत्, तथापि मया मद्विधयात्र भर्तर्यद्वैधं प्रकारद्वयरहितं यथा भवति तथा वर्तव्यं वर्तितव्यम् प्रीतिप्रकारेणैव वर्तितव्यमित्यर्थः ॥ २।११८।३ ॥
गुणश्लाध्यत्वादिविशिष्टे सा वृत्तिरिति किं पुनर्वक्तव्यम् । मातृवत्पितृवत्प्रियः मयीति शेषः । प्रियः प्रीतिमान् ममेति वा शेषः, प्रीतिविषय इत्यर्थः । ऽमातृवर्ती पितृप्रियःऽ इति पाठे मातृवर्ती मातृसेवारतः पितुः प्रीतिविषय इत्यर्थ इति तीर्थः ॥ २।११८।४ ॥
अन्यासामपि नृपनारीणां सुमित्रादीनां विषये ऽपीत्यर्थः । तथान्यासामपि विषये मदतिरिक्तस्त्रीमत्रविषये ऽपि तामेव वृत्ति कुरुत इत्यर्थः । नृपनारीणामित्यनेनैव सुमित्रादीनां लाभादित्यन्ये ॥ २।११८।५ ॥
नृपेम दशरथेन मानमहं महाप्रभुरित्यभिमानं त्यक्त्वेत्यर्थः । अन्यमते उक्तार्थे सत्यत्वप्रत्यायनायैतदुक्तिरिति बोध्यम् ॥ २।११८।६ ॥
यन्मे श्वश्रवा समाहितं त्वदुक्तार्थकमेव वाक्यं शिक्षितम्, तन्मे हृदि स्थिरं वर्तते ॥ २।११८।७ ॥
तदपि मे धृतं मात्रनुशासनमपि मे हृद्गतमेवास्ति ॥ २।११८।८ ॥
यच्च स्वैरात्मीयैर्बन्धुवर्गैः पतिशुश्रूषणादिप्रकारैर्बोधितमर्थजातं तच्च मे न विस्मृतं त्वित्यर्थः ॥ २।११८।९ ॥
सावित्री सत्यवतः स्त्री । तथावृत्तिः सावित्रीसमानवृत्तिः । त्वमनसूया । यातेत्युक्तिः पातिव्रत्यमहिन्ना स्वर्गस्य हस्तगतत्वादिति तीर्थः । तपोर्थमिह वर्तमानापि पतिसेवया मूर्त्यन्तरेण दिवं यातेत्यर्थ इति कतकः ॥ २।११८।१० ॥
रोहिणी विना चन्द्रं मुहूर्तमपि न दृश्यते पूर्वकृतपतिशुश्रूषावशादेवं पतिसाहित्यं प्राप्तमिति भावः ॥ २।११८।११ ॥
प्रवराः स्त्रियो ऽरुन्धत्यादयः ॥ २।११८।१२ ॥
हर्षयन्त्युत हर्षयन्त्यपीत्यर्थः । ऽउताप्यर्थविकल्पयोःऽ ॥ २।११८।१३ ॥
तद्बलं संश्रित्याश्रित्य छन्दये वरं वृणीष्वेति प्रार्थयामि ॥ २।११८।१४,१५ ॥
विस्मिता जाताश्चर्या । अहो तपसो माहात्म्यं यन्ममापि वरदाने सामर्थ्यम् । मन्दविस्मया मन्दस्मिता, कृतं भवत्या अनुग्रहेणैव सर्वं मे पूर्णं न किंचित्कर्तव्यमस्तीति भावः ॥ २।११८।१६ ॥
तया लोभरहितवाचा । प्रहर्षं लोभराहित्यजं स्वनिष्ठम् । ते त्वद्विषयम् ॥ २।११८।१७ ॥
अङ्गरागः उद्वर्तनेनाङ्गानि रञ्जयतीत्यह्गरागः केशरचन्दनादिजः, अनुलेपनं तु ऽकर्पूरागुरुकस्तूरीकङ्कोलैर्यक्षकर्दमःऽ इत्युक्तप्रकारो दिव्यगन्धद्र्व्यकल्क इति तीर्थः । कतकस्तुअङ्गरागमङ्गरञ्जनकरमनुलेपनं दिव्यगन्धद्रव्यकल्कमित्यर्थ इत्याह, इदमेव युक्तम् ॥ २।११८।१८ ॥
शोभयेच्छोभयिष्यति । अनुरूपं त्वदेकोचितं नित्यमेवासंक्लिष्टमुपभोगे ऽप्यशुचित्वमृदितत्वादिदोषरहितं भविष्यति ॥ २।११८।१९ ॥
शोभयिष्यसीत्यनेन त्वत्पूजया भर्तुरपि पूजा कृतेति सूचितम् ॥ २।११८।२० ॥
क्षत्रियत्वात्प्रतिग्रहानधिकारेण प्रीतिदानमित्युक्तम् । लक्ष्म्युद्देशेन ब्राह्मणादिब्यो दत्तमक्षयं चेत्साक्षाल्लक्ष्म्यै प्रीत्या दत्तं तथेति किं वक्तव्यमिति देव्यै तद्दानमनसूयाया इति बोध्यम् ॥ २।११८।२१ ॥
श्लिष्टाञ्जलिपुटा रचिताञ्जलिपुटा ॥ २।११८।२२ ॥
अन्वनन्तरं प्रियां कांचित्कथां श्रोतुकामा वचनं प्रष्टुमारेभे ॥ २।११८।२३ ॥
अनेन रामेण, श्रुतिं मम श्रोत्रपथम् ॥ २।११८।२४ ॥
विस्तरेण च विस्तरेणैव ॥ २।११८।२५२७ ॥
क्षेत्रमण्डलं यज्ञयोग्यक्षेत्रम्, चयनप्रकरणे “षङ्गवेन कृषति” इति श्रुतेः । कृपतस्तस्य पुरो जगतीं भुवं भित्त्वोत्थिता एतावन्मात्रेणाहं नृपतेर्जनकस्य सुता ॥ २।११८।२८ ॥
मुष्टिविक्षेपतत्परः " या जाता ओषधयो देवेभ्यः" इत्यादिमन्त्रोक्तप्रकारेणोपधिमुष्टिविकिरणतत्पर इति तीर्थः । निम्नोन्नतसमीकरणाय मृत्तिकामुष्टिविक्षेपतत्पर इति कतकः ॥ २।११८।२९ ॥
अत्र चौ त्वर्थे ॥ २।११८।३० ॥
प्रतिमामनुषी प्रतिमया स्वरूपेण मानुषी मनुष्यवाक्तुल्या वागन्तरिक्षे उक्ता । तां वाचमाह–एवमिति । एतन्ममेयं तनयेत्येतत् । एवमर्थवदेव । यतो हे नरपते धर्मेण न्यायेनैषा त्वत्क्षेव्रजातत्वात्तव तनयैव ॥
२।११८।३१ ॥
मामवाप्य यज्ञभूमेरिति शेषः, मल्लाभोत्तरं तस्य महती संमृद्धिर्जातेति भावः ॥ २।११८।३२ ॥
इटवद्देव्यै इष्टायै देव्यै राज्ञ्यै इष्टमिति भावे क्तः, इष्टमिच्छा तद्वत्यै षिययतासंबन्धेनेत्यक्षरार्थः । आर्ष वा साधुत्वमूक्तार्थे । यद्वा सतानेच्छावत्यै देव्यै इत्यर्थः पुण्यकर्मणो इति देवीविशेषणम् । तृतीयान्तः पाठः क्कचित् । संभाविता संवर्धिता ॥ २।११८।३३ ॥
पतिसंयोगसुलभं पाणिग्रहणोचितम् ॥ २।११८।३४ ॥
सदृशादपकृष्टाच्च वरवर्गजनात्कन्यायाः पिता इन्द्रसमो ऽपि भुवि स्थितो लोके प्रधर्षणमसंमानादिरूपं क्लेशमाप्नोति किमुताधिकादिति शेषः ॥ २।११८।३५ ॥
अदूरस्थां निकटप्राप्तां धर्षणां कन्यानिमित्ततिरस्क्रियामात्मनि संदृश्य संभाव्य । प्लवः पोतः ॥ २।११८।३६ ॥
सदृशं कुलविद्यादिना, अभिरूपं वयःसौन्दर्यादिना, वरमिति शेषः ॥ २।११८।३७,३८ ॥
महायज्ञे दक्षयज्ञे । तस्य मत्पितृपूर्वजस्य देवरातस्य । तदा शत्रुजयसमर्थधनुर्लाभाय तपःकरणकाले । दक्षयज्ञे हि शिवेन पीडिता देवाः शिवं संप्रार्थ्य धनुर्याचितवन्तः स च देवेभ्यो दत्त्वोक्तवान् इदं देवराताय दीयतामिति, ततो देवैर्वरुणद्वारा देवराताय दत्तम् । यद्वा व्रियते सर्वदेवैरिति व्युत्पत्त्या वरुणः शिव एव ॥ २।११८।३९ ॥
गौरवाद्भारवत्त्वात् ॥ २।११८।४०,४१ ॥
न संशय इति पित्रा व्याहृतमिति पूर्वेण संबन्धः ॥ २।११८।४२ ॥
तोलने चालने । अभिवाद्य नमस्कृत्य ॥ २।११८।४३४५ ॥
इमौ धनुर्दर्शनकाङ्क्षिणौ । अतो रामाय दैविकं देवदत्तं धनुर्दर्शयेति विश्वामित्रः पितरं प्रोवाचेति संबन्धः ॥ २।११८।४६,४७ ॥
पूरयामास सज्यं कृत्वा कृष्टवान् ॥ २।११८।४८,४९ ॥
उत्तमं जलभाजनमुद्यम्य पित्राहं रामाय दातुमुद्यतेति संबन्धः ॥ २।११८।५० ॥
छन्दमभिप्रायम् ॥ २।११८।५१५४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टादशाधिकशततमः सर्गः ॥ २।११८ ॥