अनुविचिन्तयन्वक्ष्यमाणलक्षणमुपाधिम् ॥ २।११७।१ ॥
तमेवाहइहेति । मे मया संबन्धसामान्ये षष्ठी । सा मे स्मृतिमां नित्यमनुशोचतस्तानन्वेति विषयीकरोति, एवं च तादृशतत्स्मरणेन ममापि शोको वर्धत इति भावः ॥ २।११७।२ ॥
राजधानीतो निर्गतायाः सेनाया निवासस्थानं स्कन्धावारः । तस्य भरतस्य तेन पुरतो दृश्यमानेन, अनेन स्मृत्युद्बोधकमुक्तम् । उपमर्दो भूमेरशुचिता ॥ २।११७।३,४ ॥
स रामः तमत्रिं तमपि जगत्कारणमपि रामं लोकव्यवहारानुसरणेन पुत्रवदङ्गीचकारालिङ्गनमूर्धाघ्राणादिभिः ॥ २।११७।५ ॥
स्वयमादिश्य विज्ञाप्यास्य सर्वमातिथ्यं सुसत्कृतं कृत्वा समसान्त्वयत्प्रीतियुक्तेन चक्षुषा ऽपश्यत् ॥ २।११७।६ ॥
तं देशमनुप्राप्तां वृद्धां पत्नीमनसूयानान्नीं तापसीत्वादिगुणयुक्तां वाचा सत्कृतां सर्वैः सत्कृतां वामन्त्र्य संबोध्य सान्त्वयामास प्रीत्या सीतां दर्शयामास अनन्तरं वैदेहीं प्रतिगृह्णीष्वेत्यब्रवीदित्यर्थः ॥ २।११७।७,८ ॥
तामाचचक्षे तद्वैभवं कथितवान् । तदेव दर्शयतिदशेत्यादि ॥ २।११७।९ ॥
मूलफले ऋषीणां जीवनायेति शेषः । जाह्नवी गङ्गा च प्रवर्तिता दशवर्षमनावृष्ट्या भूमेर्निर्जलत्वात्तेषां स्नानार्थं मन्त्रसिद्धिवैभवेनावाहिता स्वाश्रमे इति शेषः ॥ २।११७।१० ॥
अनसूयाव्रतैस्तत्कृतैर्व्रतैः । प्रत्यूहा ऋषीणां तपोविघ्नाः ॥ २।११७।११ ॥
वेवकार्यनिमित्तमिति । मण्डव्यऋषिणा ऽप्रातिर्विधवा भवऽ इति कस्यांचिदृषिपत्न्यामनसूयासख्यां शप्तायां ऽप्रातरेव मा भूत्ऽ इति तया प्रतिशापे दत्ते तत्प्रतिशापेन व्याकुलैर्देवैः प्रार्थितानसूया दशरात्रावधिकालमेकरात्रित्वेन कृत्वा देवकार्यं कृतवती, सख्या वैधव्यं च परिहृतवतीति गाथेति कतकः । सेयं मातेव ते पूज्येति शेषः ॥ २।११७।१२ ॥
अभिगच्छतु दर्शनार्थमिति शेषः । ननु वैदेह्या अल्पवयस्त्वेन व्यवहारानभिज्ञत्वात्क्वचिद्व्यवहारे स्खलने ऽनर्थः स्यादत आहअक्रोधनां सदेति ॥ २।११७।१३,१४ ॥
अस्य मुनेः समीरितं वचनं यतः श्रुतम् अत आत्मनः श्रेयो ऽरिथमित्यादि ॥ २।११७।१५ ॥
तामनसूयेत्यन्वयर्थनान्नीम्, अभिगम्याम् अक्रोधनत्वात् ॥ २।११७।१६,१७ ॥
शिथिलां श्लथसंधिबन्धाम्, वलितां संजातवलिम्, वृद्धामिति सर्वोपपादकं विशेषणम् । प्रवाते कदलीमिव वेपमानाङ्गीं स्थिताम् ॥ २।११७।१८ ॥
समुदाहरत् अभिवादनाङ्गत्वेनेति शेषः ॥ २।११७।१९ ॥
अनामयमिति तपस्विनां स्वायत्तकुशलतया ऽ ऽरोग्यप्रश्न एवोचित इति भावः ॥ २।११७।२० ॥
धर्मचारिणीं भर्तृसमानधर्मचारिणीम् । दिष्ट्या दैवयोगेन ॥ २।११७।२१ ॥
मानं राजसुताहं कथं वनं गच्छेयमित्येवंरूपम् । वने ऽवरुद्धं वनवासे पित्रा नियुक्तम् ॥ २।११७।२२ ॥
शुभो ऽनुकूलः, अशुभः प्रतिकूलः, प्रियो लौकिकालौकिकनिमित्ततो ऽप्रियत्वानास्पदम् ॥ २।११७।२३ ॥
आर्यस्वभावः पूज्यस्वभावः ॥ २।११७।२४ ॥
अतो विशिष्टं भर्तुर्विशिष्टम् बान्धवमिष्टबन्धुम् । सर्वत्र योग्यमिहामुत्र चेष्टसाधनतया भजनयोग्यं तपःकृतम् भावे निष्ठा तपो ऽनुष्ठानमिति यावत् ॥ २।११७।२५ ॥
याः कामवक्तव्यहृदयाः कामाधीनगृदयाः ऽगृह्याधीनौ तु वक्तव्यौऽ भर्तृनाथा भर्तृणां
नाथभूतान्तन्नियन्त्र्यः, यद्वा भर्तृन्भोगार्थं नाथन्ते याचन्ते ताः चरस्ति स्वेच्छया इतस्ततो यान्ति ॥ २।११७।२६ ॥
तद्विधा उक्तनिकृष्टगुणवत्यः ॥ २।११७।२७ ॥
दृष्टो लोकः, परो ऽवरश्च याभिस्ताः ॥ २।११७।२८ ॥
समय आचारः ॥ २।११७।२९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीयआदिकाव्ये ऽयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ २।११७ ॥