सोद्वेगं सभयम् । औत्सुक्यमाश्रमान्तरगमनौत्सुक्यम् ॥ २।११६।१ ॥
पुरस्तात्पूर्वं ये तापसाः । चित्रकूटस्याश्रमे । संधिरार्षः । राममाश्रित्य निरता नितरां रताः सानन्दास्तानुत्सुकानलक्षयत् । अत्रेदं बोध्यम्–चैत्रशुक्लदशस्यां पुष्ये रामवनप्रस्थानम्, ततः पूर्णिमायामर्धरात्रे दशरथगरणम्, ततः पक्षेण भरतागमनमयोध्यायाम्, तत और्ध्वदेहिकेन पक्षो गतः । एवं वैशाखे गते ज्येष्ठे भरतस्य चित्रकूटं प्रति प्रस्थानम्, अग्रे वर्षाकाले संनिहिते सति कार्तिक्यन्तं चित्रकूटे वासो रामस्य, तदनन्तरं तापसौत्सुक्यलक्षणम्, न तु भरतनिवृत्त्यनन्तरमेवैतदिति । अत एव पाझे भरतस्यायोध्यां प्रतिनिवृत्त्यनन्तरमुक्तम्–ऽ राघवश्चित्रकूटाद्रौ सानुजो ऽरमत स्त्रिया । कदाचिदङ्के वैदेह्या निद्राणे रघुनन्दने ॥ ऐन्द्रः काकः समागम्य जानकीं वीक्ष्य कामुकः । विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् ॥ तद्दृष्ट्वा राघवः क्रुद्धः कुशं जग्राह पाणिना । ब्राह्मेणास्त्रेण संयोज्य चिक्षेप ध्वाङ्क्षमारणे ॥ तं दृष्ट्वा घोरसंकाशं ज्वलत्कालानलोपमम् । दृष्ट्वा काकः प्रदुद्राव निनदन्दारुणस्वानम् ॥ वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः । यत्र यत्र ययौ काकः शरणार्थी च वायसः ॥ तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् । ब्रह्माणमिन्द्रं रुद्रं मां शरणार्थी जगाम सः ॥ तं दृष्ट्वा वायसं भीतं देवता न ररक्षिम । न शक्ताः स्म वयं त्रातुं राघवास्त्राद्भयंकरात् ॥ इत्यब्रूम महादेवा अन्यथास्त्रं दहेच्च नः । पुनश्चागाद्विधिं काको दयया विधिराह तम् ॥ भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज । स एव रक्षकः श्रीशः शरणागतवत्सलः ॥ इत्यक्तः सो ऽथ बलिभुग्ब्रह्मणा रघुनन्दनम् । उपेत्य सहसा भूमौ निपपात भयातुरः ॥ प्राणसंशयमापन्नं दृष्ट्वा सीता तु वायसम् । त्राहि त्राहीति भर्तारमुवाच दयिता विभुम् ॥ तच्छिरः पादयोस्तस्य युयुजे चाथ जानकी । तमुत्थाप्य करेणाथ कृपापीयूषसागरः ॥ ररक्षासौ निजास्त्रय तदेकाक्षि ददौ तदा । वायसो ऽपि मुहुर्नत्वा सीतायै राघवाय च ॥ उवाच चित्रकूटाद्रौ स्तूयमानो महर्षिभिः ॥ ऽ इति ॥
२।११६।२ ॥
कथमलक्षयत्तत्राह–नयनैरित्यादि । निर्दिश्य पदर्श्य शङ्कीता रामः किं मंस्यत इति भीताः नयनादिभिः प्रदर्श्यान्योन्यमुपजल्पन्त आह्वयन्तः शनैरुपांशु कथाश्चक्रुः । अयं राम इह सस्त्रीक आस्ते, राक्षसाश्चैतद्द्वेषेणेह संचरन्तो ऽस्मान्बाधन्ते, अतो ऽन्यत्र गन्तव्यमित्येवंरूपाः कथाश्चक्रुः ॥ २।११६।३ ॥
शङ्कत आशङ्कतेत्यर्थः । एतदाश्रभत्यागकारणमात्मनिष्ठं दोषमशङ्कतेत्यर्थः अत एव कृताञ्जलिः सन्कुलपतिमृषिसंघस्वामिनमाश्रममस्वामिनं वा । ऽ कुलमन्वयसंघातगृहोत्पत्त्याश्रमेषु च ऽ ॥ २।११६।४ ॥
मयि पूर्ववृत्तं पूर्वराजवृत्तं न दृश्यते कच्चित् विकृतं वा दृश्यते कच्चित् येन तपस्विविक्रियारूपं किंचित्कारणकं भवति तन्निवेदयतु भवानिति शेषः ॥ २।११६।५ ॥
अवरजस्य लक्ष्मणस्य नानुरूपं चरितमयुक्ताचरणं प्रमादाज्जातं किंचिदृषिभिर्न दृष्टं कच्चित् ॥ २।११६।६ ॥
वः शुश्रूषमाणा अर्ध्यपाद्यादिना युष्मान्सेवमाना अधुना मच्छुश्रूषानुरोधात्प्रमदोचितां युष्यासु युक्तां वृत्तिं शुश्रूषाविषयां सीता न वर्तते कच्चित् ॥ २।११६।७ ॥
तपसा व वृद्ध इत्यनुकर्षः । वेपमान इव कथं वा रामो मंस्यत इति कम्पः जरया वा कम्पः । इव एवार्थे ॥ २।११६।८ ॥
सत्त्वं स्वभावः ॥ २।११६।९ ॥
त्वन्निमित्तं त्त्वत्तो हेतोः । इदं भयं रक्षोभ्यः समागतमिति भावः ॥ २।११६।१० ॥
कथं तत्राह–रावणेति । उत्पाट्य संपीड्य ॥ २।११६।११ ॥
जितकाशी जिताहवो जितभयो वा त्वां च न भृष्यते पीडयितुमिच्छति ॥ २।११६।१२ ॥
विप्रकुर्वन्त्यपकुर्वन्ति ॥ २।११६।१३ ॥
तमपकारं दर्शयति–दर्शयन्तीति । बीभत्सैर्जुगुप्सितरूपेरात्मानं दर्शयन्तीत्यन्वयः ॥ २।११६।१४ ॥
अप्रशस्तैः पापजनकैरशुचिभिः पदार्थैतस्तापसान्संप्रयुज्य विप्रकुर्वन्ति । अपरानपि मृदन्प्रतिघ्नन्त्यपि पीडयन्त्यपि ॥ २।११६।१५ ॥
अबुद्धमविदितं यथा भवति तथा निद्रादाववलीय च निर्भयमाश्लिष्य च तदालिङ्गनेनाल्पचेतसो विचेतसस्तापसान्नाशयन्तो रमन्ते ॥ २।११६।१६ ॥
सुग्भाण्डान्सुगादियज्ञसंभारानवक्षिपन्त्यवस्कन्दयन्ति । कलशानुदकपात्राणि । प्रमर्दौ भङ्गः । हवने होमकर्मणि समुपस्थिते प्रवृत्ते ॥ २।११६।१७ ॥
प्रजहासवः परित्यक्तुमिच्छवो मिथो मिलिताः ॥ २।११६।१८ ॥
शारीरीमुपहींसां प्राणवियोगरूपां पुरा दर्शयन्ति दर्शयिष्यन्ति, अत इममाश्रमं त्यक्ष्यामः ॥ २।११६।१९ ॥
अश्वस्य न विद्यते श्वः संचयो यस्य तस्य महर्षेः पृषोदरादित्वात्साधु । एतेन रक्षोभयनिवारणक्षमत्वं तस्य दर्शितम् ॥ २।११६।२० ॥
पुरा प्रवर्तते प्रवर्तयिष्यति । अतस्तव नित्ययुक्तस्यापि सदा सावधानस्यापि रक्षोनिग्रहे समर्थस्यापि सकलत्रस्यापि हेतुगर्भमेतत् इहाश्रमे संदेहवानेव वासः अर्शआद्यचु । दुःखो दुःखजनकः अतस्तवाप्यत्रावस्थानमनुचितमिति व्यङ्ग्यम्, अतस्त्वमपि सहास्माभिरतो गच्छेत्यन्वयः ॥ २।११६।२१,२२ ॥
अवबुद्धुम् । अहं रक्षांसि निवारयिष्यामि, मा भैष्ट, इत्यादिवचनैर्निवारयितुं न शशाक । तत्र हेतुःसमुत्सुकमिति । कार्यशेषस्य स्वीयान्यदेशगमनसाध्यत्वाच्च ॥ २।११६।२३ ॥
अभिनन्द्य स्तुत्वा, समाधाय स्ववियोगखिन्नं समाश्वास्य । कुलैऋ़षिसंघैः ॥ २।११६।२४ ॥
रामस्तस्माद्देशादपयान्तमृषिगणमनुगमनादनुव्रजनेन संसाध्य प्रस्थाप्य कुलपतिमृषिमभिवाद्य सम्यक्प्रीतैस्तैरनुमतः कृतानुमतिक उपदिष्टार्थो रक्षःसंदेहादत्रावस्थानमनुचितमिति कृतोपदेशः पुण्यं स्वनिलयं स्ववासायोपसंपेदे ॥ २।११६।२५ ॥
क्षणमपि न जहौ सीतारक्षणार्थमिति भावः । आर्षमृषिसंबन्धि चरितं वृत्ते यस्य तादृशे राघवे धृत गुणा निश्चितनिजरक्षासामर्थ्यगुणाः केचित्तापसाः सततं निरन्तरं राघवमनुगता हि अनुगता एव नाश्रमान्तरं जग्मुः ॥ २।११६।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षोडशाधिकशततमः सर्गः ॥ २।११६ ॥