तत इति ॥ २।११५।१ ॥
अत्रायोध्यायाम् । तेन सहागमनकारितं राघवं विना दुःखं पितृभ्रातृवियोगजं दुःखमिति यावत् ॥ २।११५।२ ॥
तदेवाहगतश्चेति ॥ २।११५।३५ ॥
बन्धुलुब्धस्य बन्धुजनपरिपालने ऽधिकस्पृहावतः । आर्यं श्रेष्ठम् नानुमन्येत त्वद्वचनमिति शेषः ॥ २।११५।६ ॥
यथाभिलषितं स्वाभिलषितमनतिक्रम्य प्रवृत्तम् ॥ २।११५।७९ ॥
नन्दिग्रामो यतो भवेद्येन मार्गेण स प्राप्तो भवेत्तेन ययुः ॥ २।११५।१० ॥
तदनाहूतं भरतेनाकृताह्वानमपि ॥ २।११५।१११३ ॥
एतदयोध्याराज्यं मम भ्रात्रा संन्यासवत्समीचीनवस्तुनिक्षेपवन्मयि दत्ते स्थापितम् । कालान्तरे ग्रहणाय विश्वस्तपुरुषे रक्षणार्थं वस्तुस्थापनं न्यासो निक्षेप इति च । न्यासस्यापि राज्यस्य रक्षणं भगवत्पादुकाधीनमेव न मदधीनमित्याहयोगेत्यादि । इत्युवाचेति पूर्वेणान्वयः ॥ २।११५।१४ ॥
पादुके संन्यासं पादुकात्मकं सद्वस्तुन्यासम्, ऽवेदाः प्रमाणम्ऽ इति वत्साधु । शिरसा कृत्वा प्रणम्येति यावत् ॥ २।११५।१५ ॥
इमौ पादुकारुपावार्यपादाविति । पादशब्दः पूजावाची । विधेयाभिप्रायेण चेमाविति पुंलिङ्गनिर्देशः । ऽशैन्यं हि यत्सा प्रकृतिर्जलस्यऽ इति तत्परमपूज्यरामभावनाविषये इमे पादुके इत्यर्थः । राज्ये ऽपेक्षितो मम गुरोर्धर्मव्यवहारो ऽनयोरेव स्थितः, अत आभ्यां पादुकाभ्यां छत्रं धारयत । एतत्संनिधानादेव तत्तद्वयवहारे धर्मव्यवहारांशज्ञानं ममेति भावः ॥ २।११५।१६ ॥
अयं राज्यरूपः संन्यसो निक्षेपो निक्षिप्तः राघवागमनं प्रति तावत्पर्यन्तम् ॥ २।११५।१७ ॥
संयोजयित्वा चरणयोः पादुके ॥ २।११५।१८ ॥
समागतो मिलितः । निवेद्य प्रत्यर्प्य । गुरुवर्तितां गुरुचितशुश्रूषाम् ॥
२।११५।१९,२० ॥
अवसद्धीरो धीमान् ॥ २।११५।२१ ॥
वालव्यजनेन सहितं छत्रम् । स भरतः सर्व शासनं ताभ्यां निवेदयन्नुक्तविशेषणं छत्रं स्वयमेव धारयामास ॥ २।११५।२२ ॥
आर्यपादुके अभिषिच्य तयो राज्याभिषेकं कृत्वा तदधीनः पादुकाधीनः ॥ २।११५।२३ ॥
यत्कार्यं राज्यविषयम् । पश्चाद्यथावत्कोशागारस्थमुपायनं चकार, प्रजान्यायकार्यं च यथावच्छास्त्रानतिक्रमेण चकार ॥ २।११५।२४ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चदशाधिकशततमः सर्गः ॥ २।११५ ॥