११४ अयोध्याप्रवेशः

उपयानुपगच्छन् ॥ २।११४।१ ॥

बिडालदिभिश्चरितां तत्संचारवतीम् । आ समन्ताल्लीनानि श्लिष्टानि लग्नानि नराणां वारणानि कवाटानि यस्याम्, तिमिरेणालक्ष्यतां प्राप्तम् अत एव कालीं तत एवाप्रकाशां निशामिव स्थितामयोध्यां प्रविवेशेत्यन्वयः ॥ २।११४।२ ॥

राहुशत्रोश्चन्द्रस्य श्रिया दिव्यैश्वर्येण युक्तामत एव प्रज्वलितप्रभाम् अभ्युदितेन ग्रहेण राहुणा पीडितभर्तृकामत एवैकामसहायां रोहिणीमिव स्थिताम् ॥ २।११४।३ ॥

आतपवशादल्पोष्णं क्षुब्धं कलुषं च सलिलं यस्यास्ताम् । झषो मत्स्यविशेषः, क्षुब्धेत्यार्षम् ॥ २।११४।४ ॥

विधूमामत एव हेमाभामग्रेः समुत्थितां शिखामिव पूर्वं रामस्थितिसमये जाज्वल्यमानरूपतया स्थितां पश्चाद्रामविवासनकाले हविरभ्युक्षितां पयोहोमीयपयः सिक्तामत एव विप्रलयं गतां शिखामिव स्थिताम् । ऽअध्वराग्रेः समुत्थिताम्ऽ इति पाठो बहुसंमतस्तत्राप्यर्थः प्राग्वदेव, शिखामित्यस्य चावृत्तिः ॥ २।११४।५,६ ॥

समुत्थितां प्रबलमारुतेन समुत्थिताम्, अत एव सफेनां सस्वनामूर्मिमिव भूत्वा तत्सदृशं रूपं प्राप्य पश्चात्प्रशान्तमारुतेनोदल्पं धूतां कम्पितामत एव निःस्वनां सागरस्य जलोर्मिमिव स्थिताम् ॥ २।११४।७ ॥

यज्ञायुधैः स्फ्यादिभिः । अभिरूपैः प्रशस्तैः । सुत्याकाले यागकाले । निवृत्ते समाप्ते सति ॥ २।११४।८ ॥

गोष्ठो व्रजं तत्र स्थिताम् । गोवृषेण श्रेष्ठगवां वृषभेण, यद्वा गवां प्रियेण वृषेण त्यक्तामत एवार्तां तत्रोत्मुकां नवं तृणमचरन्तीमभक्षयन्तीं गवां तरुणवृषाणां पत्नीमिव स्थिताम् । ऽ गवां पङ्क्तिमिव ऽ इति पाठान्तरम् । पत्नीमित्यस्य पङ्क्तिमित्यर्थं तीर्थ आह, तच्चन्त्यम् ॥ २।११४।९ ॥

प्रभाकराद्यैः पद्मरागाद्यैः । स्फटिकाद्यैरिति कतकोक्तं तु न युक्तम् ॥ २।११४।१० ॥

स्थानात्सहसा चरितां चलिताम् । पुण्यक्षयेति लुप्तसप्तम्यन्तम्, पुण्यक्षये सति महीं प्राप्तम्, संहृतो द्युतिविस्तारो यस्यास्ताम् ॥ २।११४।११ ॥

द्रुतदावाग्रिविप्लुष्टां वेगवद्दावाग्निना व्याप्ताम् ॥ २।११४।१२ ॥

संमूढाः शोकाकुलचित्ता निगमा वणिजो यस्याम्, यद्वा संमूढो जनसंचाररहितो निगमः पन्था यस्याम्, ऽनिगमो निश्चये वेदे पुरे पथि वणिक्पथे ऽ । संक्षिप्ता विपणापणाः पण्यवीथयो ऽस्याम् ॥ २।११४।१३ ॥

क्षीणपानोत्तमैः क्षीणमद्यैः । भग्रैः शरावैः संवृताम् । हतशौण्डां हतमद्यपाम् ॥ २।११४।१४ ॥

वृक्मभूमितलां भिन्नचत्वराम्, भिन्नपात्रर्युक्ताम्, भग्रां भग्रस्तम्भाम्, उपयुक्तोदकां समाप्तोदकाम् ॥ २।११४।१५ ॥

विपुलां विशालाम्, विततां धनुष्यातताम्, युक्तपाशां धनुष्कोट्योर्च्याबन्धनार्थपाशयुताम्,तरस्विनां बाणैर्विनिकृतां छिन्नाम्, आयुधाद्धनुषः पतिताम् ॥ २।११४।१६ ॥

सहशा बलात्कारेम वाहितां प्रधाविताम्, प्रतिसैन्येन निहतामत एव पातिताम् ॥ २।११४।१७,१८ ॥

यथपुरं यथापूर्वं न निशाम्यते खलु अत्र किं कुर्म इति योजन ॥ २।११४।१९ ॥

मदकरो गन्धो मदगन्धः मूर्छितो व्याप्तः ॥ २।११४।२०२३ ॥

मम भात्रा सहेति शेषः ॥ २।११४।२४ ॥

अर्जुनी शारदी शुक्लपक्षसंबन्धिनी वा, सासारा वेगवद्वष्टिधारासहिता, महोत्सव इव ग्रीष्मे ऽमबुद इव च ॥ २।११४।२५ ॥

उन्नतगामिभिः संतोषादुद्धतगामिभिः ॥ २।११४।२६२८ ॥

सुरैरुत्कृष्टं कृतशोकमभास्करं दिनमिव । एवं हि श्रूयतेपुरा देवासुरे युद्धे ऽसुरैर्देवाः पराजिताः राहुणा च भानुः पातितः तदा दिवारात्रिविभागरहिते काले स्वस्वलोकाद्ब्रह्मलोकं गतैर्देवैः प्रार्थितस्य ब्रह्मणो नियोगादत्रिः सप्तरात्रं सूर्याधिपत्यं चकारेति तीर्थः । देवैरुत्कृष्टं भास्करहीनं दिनं कविकल्पितमत्रोपमानमिति कतकः । विभक्तं विगतसंस्कारम् । भक्तं सेवितं संस्कृतं तद्भिन्नमिति यावत् ॥ २।११४।२९ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ २।११४ ॥