११३ भरतस्य प्रतिनिवर्तनम्

तत इति । पूर्वं सर्वलोकज्ञानाय गजमस्तके स्थापयित्वा पुनः सादरं तत आदाय स्वमस्तके कृत्वेत्यर्थः, यद्वा शिरसीत्यस्य गजशिरसीत्येवार्थः ॥ २।११३।१ ॥

मन्त्रे गाढकार्यविचारे निश्चेतृत्वेन पूजिता इत्यर्थः ॥ २।११३।२ ॥

मन्दाकिनीं चित्रकूटोत्तरपार्श्ववर्तिनीम् । प्रदक्षिणामिति । उत्तरपार्श्वस्थां मन्दाकिनीं प्राप्य प्राङ्मुखतया गमनात्सिद्धं तस्य प्रदक्षिणकरणम् ॥ २।११३।३ ॥

पार्श्वेनोत्तरपार्श्वेन ॥ २।११३।४ ॥

यत्र यमुनादक्षिणकूले अत एव चित्रकूटस्यादूरात् । अनेन यमुनादक्षिणतटे ऽपि क्वचिद्भरद्वाजाश्रम इति ज्ञायते अत एवाग्रे भरद्वाजामन्त्रणोत्तरं ततस्ते यमुनां तीर्त्वेति वक्ष्यति संप्रति तत्र स्थितिस्तु रामभरतयोः संवादं शिष्यद्वारा झटिति श्रोतुमिति बोध्यम् ॥ २।११३।५,६ ॥

कृत्यं कर्तव्यं कृतमपि अपिः प्रश्नो । कृत्यमेवाह–रामेण चेति ॥ २।११३।७,८ ॥

गुरुणा वसिष्ठेन मात्रा च परमप्रीतः सत्यपरिपालनविषये इति शेषः । या कैकेयीनिमित्तं मम पितुः प्रतिज्ञा चतुर्दशवर्षाणि रामेण वने वस्तव्यमिति, तामेव पितुः प्रतिज्ञां पालयिष्यामीति संबन्धः ॥ २।११३।९,१० ॥

एवमुक्तः रामेणेति शेषः ॥ २।११३।११ ॥

प्रयच्छ प्रतिनिधित्वेनेति शेषः । अप्राप्तप्राप्तिर्योगः, प्राप्तस्य परिपालनं क्षेमः, तत्करो भवेति । एतद्वारा भरते सर्वाज्ञ्यसंपादनेनेति शेषः ॥ २।११३।१२ ॥

हेमविकृते हेम्ना विचित्रतया कृते । मम राज्याय मम राज्यरक्षाशक्त्यनुग्रहार्थमित्यर्थः ॥ २।११३।१३१५ ॥

यदार्यं शोभनचरित्रं त्वयि तिष्ठेदित्ति थत्तदुत्सृष्टमुदकं निन्ने तिष्ठेदितवन्न चित्रम् । निम्नेति लुप्तसप्तम्यन्तम् ॥ २।११३।१६,१७ ॥

उक्तवाक्यम् उक्तरीत्येति शेषः । आमन्त्रयितुमारेभे आमन्त्रणं कृतवान् ॥ २।११३।१८२० ॥

यमुनां तीर्त्वा गङ्गां ददृशुरिति । यमुनां तर्त्वा तस्मिन्नेव दिने भरद्वाजं दृष्ट्वा गङ्गां ददृशुरित्यर्थ इति कश्चित्, तत्तु पूर्वोक्तरीत्यासामञ्जस्याद्धेयम् । जलस्य शिवत्वं रम्यत्वं च दर्शनमात्रेण सकलपापापहन्तृत्वं मधुरत्वं च ॥ २।११३।२१,२२ ॥

शृङ्गवरेपुरादिति निर्गत्येति शेषः ॥ २।११३।२३ ॥

विध्वस्ता विध्वस्तशोभा, निराकारा निरलंकारा ॥ २।११३।२४ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे त्रयोदशाधिकशततमः सर्गः ॥ २।११३ ॥