११२ पादुकाप्रदानम्

भ्रातृब्यामित्यार्षी तृतीया भ्रात्रोः संगममित्यर्थः । संगमं प्रेक्ष्य विस्मिता इत्यन्वयः । समुपेताः स्वार्थरावणवधसंपत्तये तत्र स्थलं समवेता महर्षयो नारदाद्याः ॥ २।११२।१ ॥

अन्तर्हितास्तयोः संगमं द्रष्टुमागता अदृश्यरूपा आकाशस्थाः ॥ २।११२।२ ॥

धर्मविक्रमौ धर्ममार्गवर्तिनौ । उभयोः संभाषां संभाषणे श्रुत्वोभाब्यां स्पृहयामहे प्रीता भवामः, यद्वा तादृशसंभाषणं श्रोतुं पुनः पुनर्वाच्छामहे इति ॥ २।११२।३ ॥

संगता ऐकमत्यं प्राप्ताः ॥ २।११२।४ ॥

पितरं यद्यवेक्षसे पितुः सुखं यदीच्छसीत्यर्थः ॥ २।११२।५ ॥

सदानृणं सता स्वकृतसमीचीनानुष्ठानेन सर्वतो ऽनृणमित्यर्थः । अनृणत्वात् रामप्रतिज्ञयेति शेषः, यदि राम इदानीं विपरीतं कुर्यात्प्रतिनिधिद्वारा वानुतिष्ठेत्तदा ते पितुः पुनः स्वर्गाद्भंश एवेति ध्वनिः ॥ २।११२।६,७ ॥

अभ्यपूजयत् सस्यड्यां धर्मतो रक्षितवन्त इत्युक्तवानित्यर्थः ॥ २।११२।८ ॥

त्रस्तगात्र उद्विग्नगात्रः । ऽस्रस्तऽ इति पाठान्तरम् ॥ २।११२।९ ॥

रामं इमं धर्मं ज्येष्ठस्य राज्यमित्येवंरूपं कुले कुलधर्मबुद्ध्या ऽनुसंततं संबद्धम् । ऽधर्ममथ प्रेक्ष्य कालधर्माश्च संततम्ऽ इति पाठे धर्ममुक्तम् । अथाथवा कालधर्मान्कालकृतस्वशक्तिमन्निष्ठतदभावलक्षणान्प्रेक्ष्य विचार्यं मम मातुः कौसल्यायाश्च याचनां कर्तुमर्हसि ॥ २।११२।१० ॥

अथ कालकृतां स्वस्य रक्षणाशक्तिं दर्शयति–रक्षितुमिति । एको ऽसहायः, रक्ताननुरक्तान् ॥ २।११२।११ ॥

हि यतस्त्वामेव प्रतीक्षन्ते ॥ २।११२।१२ ॥

अत इदं राज्यं प्रतिपद्य स्वीकृत्य कस्मिंश्चित्स्थापय हि । हिर्वाक्यालंकारे हि यतः स त्वद्दत्तराज्यो लोकपालने शक्तिमान्भवति । ऽशक्तिमानसिऽ इति पाठे ऽयं मदीय इति स्वीकारमात्रेण लोकस्य समस्तस्य पालने शक्तिमानसि । रामस्य राज्यमित्येतावल्लोकपरिपालने ऽपेक्षितसहायतयेत्यर्थः ॥ २।११२।१३ ॥

एवमुक्तप्रकारम् ॥ २।११२।१४ ॥

स्वयमह्के कृत्वेत्यन्वयः ॥ २।११२।१५ ॥

इयं बुद्धिर्मद्वनवासविरोधिनी स्वीयत्वेनाह्गीकृत्य स्थापनविषया आगता जाता सा स्वजा स्वाभाविकी, गुरुसेवया प्राप्तो यो विनयः शिक्षा तज्जन्या च इतरा च सर्वा दुष्टेति भावः । अथ या त्वया स्वस्याशक्तिरुक्ता पालने सा नास्त्येवेत्याह–भृशमिति ॥ २।११२।१६ ॥

अमात्याः प्रधानमन्त्रिणः, मन्त्रिण उपमन्त्रिणः, कारय राजाज्ञयेति शेषः ॥ २।११२।१७ ॥

अथ मातृयाचनयापीदानीं परावृत्तिरशक्येत्याह–लक्ष्मीरित्यादि । पितुः प्रतिज्ञां न त्यजेयमिति शेषः ॥ २।११२।१८ ॥

कामात्त्वद्गतस्नेहात् लोभात्त्वव्द्याजेन राज्यकरणलोभात् तुभ्यं मात्रा ष्ष्ठ्यर्थे आर्षी चतुर्थी, यदिदं कृतं तत्तवानिष्ठमप्यनिष्टमिति मनसि न कर्तव्यं मदाज्ञयेति शेषः, अतस्तस्यां मातृवदेव वर्तितव्यं शुश्रूषितव्यम् । “तदर्हम्” इति वतिःि । कामाद्देवानामिच्छातः लोभाद्वा लोभादेव तेषां देवलोकराज्यलोभात् तव मात्रा देवैरेव मन्थराद्वारा इदं कृतं कारितमिति गूढो ऽर्थः । शेषं प्राग्वत् ॥ २।११२।१९ ॥

प्रतिपच्चन्द्रदर्शनमित्यनेन तद्वदादरणीयदर्शनत्वं वर्धिष्णुत्वं चिरमदर्शनं च सूचितम् ॥

२।११२।२० ॥

एते उटजसंनिहिते । अधिरोहेत्यनेन भद्रासनस्थानीयपादुकयोः प्रतिनिधिभूतयोरारोहणेन राज्यप्रतिपत्तिः कारिता । एषा च प्रार्थना वसिष्ठनियोगानन्तरं बोध्या भरद्वाजं प्रति ऽएते प्रयच्छ संहृष्टः पादुक हेमभूषितेऽ इति वसिष्ठोक्तित्वेन वक्ष्यमाणत्वात् । प्रतिनिधित्वमेवाहएते हीत्यादिना ॥ २।११२।२१ ॥

स रामः पादुके अधिरुह्य व्यवमुच्य पुनस्ततो ऽवरूह्य भरताय प्रायच्छत् एतेन प्रतिनिधिदानद्वारा राज्यरक्षानियोगः कृतः । प्रतिपद्य स्थापयेति चिरं भरतप्रार्थनं च साधितम् । अधिरोहणेन शक्तिविशेषस्य तत्र स्थापनम् यद्दर्शनेन सर्वज्ञत्वसंपत्तिरिति बोध्यम् । तदुक्तं पाझेऽ ज्ञात्वा तदाज्ञां ताभ्यां च भरतः क्षितिमन्वशात् ऽ इति । ताभ्यां पादुकाभ्यां तद्दर्शनमात्रेणेदृशे विषये भगवत एवमाज्ञेति ज्ञात्वा तथा व्यवहारमकरोदित्यर्थः । भरतस्तु पाञ्चजन्यावतारत्वादाच्चादितसार्वज्ञ्य इत्यनेन सूचितम् । भगवत्स्पर्शेनाचेतने ऽपि सार्वज्ञ्यदानशक्तिमत्वमिति भगवन्माहान्म्यातिशयद्वारा रामस्येश्वरत्वं च सूचितम् ॥ २।११२।२२ ॥

जटाचीरधर इत्यादिना राज्यकृतभोगाभावः सूचितः ॥ २।११२।२३,२४ ॥

राज्यतन्त्रं राज्यव्यापारं न्यस्य त्वद्बुद्ध्या विनिवेद्य । चतुर्दशे वर्षे संपूर्णे पञ्चदशवर्षाद्यदिवसे यदि त्वां न द्रक्ष्यामि तदाग्निं प्रवेक्ष्यामि ॥ २।११२।२५२७ ॥

शप्तो ऽसि रोषाकरणायेति शेषः ॥ २।११२।२८ ॥

संपरिगृह्य शिरसेति शेषः । उत्तमनागमूर्धनि राजोपवाह्यागजमस्तके तत्कालाभिषिक्तराजाधिरोहणधियेति शेषः । सर्वलोकप्रख्यापनार्थमेतत् ॥ २।११२।२९,३० ॥

सर्वाः सकैकेयीकाः अनेन कैकेय्या दोषराहित्यं सूचितम् । रुदन् रुदन्निव ॥ २।११२।३१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः ॥ २।११२ ॥