मनुमारभ्य त्वत्पर्यन्तं ज्येष्ठेनैव राज्यं पाल्यते इति न्यायेन निवर्त्यमानस्यापि तदनङ्गीकारमालोच्य पितृवचनादपि मद्वचनं गरीय इति वाक्यमुपक्रमतेवसिष्ठ इति ॥ २।१११।१ ॥
गुरव उपास्याः ॥ २।१११।२ ॥
जनयति शरीरमात्रेम प्रज्ञां ददाति । उपनयनसंस्कारपूर्वं वेदविषयां प्रज्ञां ददाति । तस्मादाचार्य एव गुरुसमवाये गुरुरुच्यते । तदुक्तमापस्तम्बेन" आचार्यः श्रेष्ठो गुरुणां स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म शरीरमेव मातापितरौ जनयतः शीर्यत्स्वभावं सर्वयोनिसुलभं प्राकृतं मलजं शरीरम् " इति ॥ २।१११।३ ॥
नातिवर्तेर्नातिवर्तेथाः सद्गतिभ्रंशो न भवतीत्यर्थः ॥ २।१११।४ ॥
परिषदस्त्वत्संबन्धिन्यः श्रेणयः, ज्ञातयो बान्धवाः, नृपाः सेवकनृपाः, एषु रक्षारूपं धर्मं चरन्ननुतिष्ठन्नित्यर्थः ॥ २।१११।५ ॥
मातुः शुश्रूषणे वचनकरणे चावर्तितुं नार्हसीत्यर्थः ऽपितुः शतगुणं माता गौरवणातिरिच्यतेऽ इति स्मृतेरित्याशयः ॥ २।१११।६ ॥
आत्मानं त्वां प्रति राज्यप्रत्यर्पणपूर्वं प्रतिनिवृत्तिं याचमानस्य भरतस्य वचः कुर्वन्नित्यर्थः ॥ २।१११।७,८ ॥
मातापितरौ यद्वृत्तं तनये कुरुतो यादृशं पुत्रस्योपकारं कुरुतस्ताभ्यां कृतमुपकाररूपं वस्तु यत्तन्न सुप्रतिकरम् अशक्यप्रत्युपकारमित्यर्थः ॥ २।१११।९ ॥
तदेवाहयथाशक्तिप्रदानेन बालस्य जीवनार्थं पदार्थभोजनशक्त्यनुरोधतः क्षीरान्नादिप्रदानेन । उच्छादनमुद्वर्तनं तिलपिष्टादिना, संवर्धनं क्रीटनम्, एतैर्यत्ताभ्यां कृतं तन्न सुप्रतिकरमित्यन्वयः ॥ २।१११।१० ॥
जनयितोत्पादकः पिता, न तु गौणः पिता यदाज्ञापयद्वनवासरूपम् । एवं च भवदाज्ञातः पूर्वं तेनाज्ञादानान्मया चावश्यमिति प्रतिज्ञानात् भवदाज्ञयापि तदन्यथाकरणमधुनात्यन्तमनुचितमिति भावः ॥ २।१११।११ ॥
प्रत्यनन्तरं समीपवर्तिनम् ॥ २।१११।१२ ॥
आर्यं प्रत्युपवेक्ष्यामि आर्यमुद्दिश्य प्रत्युपवेशनकर्म करिष्व इत्यर्थः । तच्चोपरोद्धव्यस्य गृहद्वारसमीपे कुशेषु यावत्कार्यसिद्धि निराहारतयावगुण्ठिताननस्यैकपार्श्वेनैव पार्श्वान्तरपरिवृत्तिराहित्येन शयनमिति ॥ २।१११।१३ ॥
एतदुतरम्निराहारः इत्यादि पद्यं प्रक्षिप्तमिति कतकस्वरसः । धनहीनो ऽधमर्णेन धनहीनः कृतो द्विज उत्तमर्णो यथा स्वधनग्रहणायाधमर्णद्वारि शेते तद्वदहं शये यावन्मां मद्वचनमङ्गीकृत्य प्रतियास्यत्ययोध्यामित्यर्थस्तस्य ॥ २।१११।१४ ॥
स तु भरतो राममवेक्षन्तं प्रतीक्षमाणं सुमन्त्रं प्रेक्ष्य तदनुरोधात्कुशानयने विलम्बमानमिति यावत्, कुशोत्तरं कुशास्तरणं स्वयमेवोपस्थाप्यास्तीर्य भूमावेवास्थितः, प्रत्युपवेशनमनुष्ठितवानित्यर्थः ॥ २।१११।१५ ॥
किं कुर्वाणं किमन्याय्यं कुर्वाणम् ॥ २।१११।१६ ॥
ब्राह्मणः धनादिना वियोजित इति शेषः, एकपार्श्वेनेति प्रत्युपवेशधर्मोपलक्षणम् अनेन क्षत्रियाणामेतत्करणे प्रायश्चित्तमिति सूचितम् ॥ २।१११।१७ ॥
त्समादुत्तिष्ठेति ॥ २।१११।१८ ॥
आसीन एव प्रत्युपवष्ट एव । नानुशासथ नानुशिष्टेत्यर्थः, इत्युवाचेत्यन्वयः ॥ २।१११।१९ ॥
काकुत्स्थं रामं प्रति राघवो भवान्भरतः सम्यग्वदतीति जानीमः ॥ २।१११।२० ॥
एषो ऽपि महाबागो रामः पितुर्वचसि तिष्ठति तदपि सम्यगेव । यदेवमत एवेत्यर्थः । अत्र भगवता स्वव्यावर्तनिश्चयेनागतानामपि पौरादीनामन्तर्यामिविधया स्वानुकूलवचनप्रयोगः कारितः भरतस्य तु यशःख्यापनाय ज्येष्ठे कनिष्ठेनैवं वर्तितव्यमिति लोकव्यवहारबोधनाय च तथा प्रवर्तनमिति प्रतिभाति ॥ २।१११।२१ ॥
रामो वचनमब्रवीदिति भरतं प्रतीति शेषः । धर्मचक्षुषां धर्मदर्शिनां निबोध शृणु ॥ २।१११।२२ ॥
उभयं त्वद्विषयं मद्विषयं च वचनं श्रुत्वा संपश्य विचारय । विचारेणापि कर्तव्यं निश्चेतुमशक्तश्चेन्मयोक्तं कुरु इति शेषः । तत्स्वोक्तमाहउत्तिष्ठेति । क्षत्रियाविहितप्रत्युपवेशनप्रायश्चित्तमाहमां च स्पृश तथोदकम् । उदकस्पर्श आचमनार्थः ॥ २।१११।२३ ॥
परिषदः सभ्याः ॥ २।१११।२४ ॥
न याचे न याचितवान् । नानुशासामि नानुशिष्टवान् शबार्षः । नानुजानामि वनवासायेति शेषः । ऽनाभिजानामिऽ इति पाठे वनवासेद्युक्तमिति शेषः ॥ २।१११।२५ ॥
अहमेव प्रितनिधित्वेनेति शेषः ॥ २।१११।२६ ॥
तस्य भ्रातुर्भरतस्य ॥ २।१११।२७ ॥
यज्जीवता पित्रा विक्रीतं मूल्यं गृहीत्वा दत्तम्, आहितमाधिरूपेण न्यस्तम्, क्रीतं मूल्यं दत्त्वा गृहीतम् । एवं चेदं राज्यं कैकेय्यै आदिरूपेण दत्तं विक्रीतं वेति भावः ॥ २।१११।२८ ॥
उपाधिः प्रतिनिधिः । जुगुप्सितत्वं च स्वस्य तत्समर्थत्वात् । असमर्थे हि कर्तरि स विहितः । उक्तौ कृतौ च युक्तत्वं वररूपऋणापाकरणार्थत्वाद्बहूपकारकत्वाच्च । अतस्तस्या मातुस्तस्य पितुश्च वचनमवश्यमेव कार्यमिति सेषः, अयुक्तवादित्वे हि ऽगुरोरप्यवलिप्तस्यऽ इत्यादिन्यायविषयत्वं स्यादिति भावः ॥ २।१११।२९ ॥
अत्र भरते सर्वमेव कल्याणं राज्यपरिपालनादिरूपं संभावयामीति शेषः ॥ २।१११।३०,३१ ॥
तद्वचनं कैकेयीवचनं मोचयानेन मोचयमानेन । एवं मदुक्तकरणेन त्वमपि पितरमनृतान्मोचयेति ध्वनितम् ॥ २।१११।३२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकादशोत्तरशततमः सर्गः ॥ २।१११ ॥