११० वसिष्ठसूचनम्

अथ वसिष्ठो बगवतो जाबालिविषयकोपनाटनं शमयितुमाभिषेकस्वीकारशेषतया ब्रह्मणमारभ्य ज्येष्ठाभिषेकरूपं कुलाचारं कथयतिक्रुद्धमित्यादि । गतागतिं परलोकगमनं ततः पुनरिहागतिं च, अनेनास्तिकतामूलं जाबाल्युक्तौ ॥ २।११०।१ ॥

लोकनाथेत्यनेन लोकनाथावतारत्वं ध्वनयति ॥ २।११०।२ ॥

सर्वमिति । पूर्वाहान्ते ऽपहृतं सर्वं जगत्पराहादौ सलिलमेव सविग्रहहिरण्यगर्भात्मनावस्थितमभूत् । तत्र सलिलान्तः पृथिवी निर्मिता सलिलरूपेण भगवता स्वेच्छया ब्रह्मा विराङ्पो दैवतैः सहाग्निर्वाग्भूत्वा मुखं प्राविशदित्याद्युपदिष्टरीत्या ॥ २।११०।३ ॥

ततः स त्रिमूर्तेर्विराजो विष्ण्वात्मको ऽशोवराहरूपो भूत्वा वसुंधरां प्रोजहार । तस्यैव विराजौ रजःप्रधानः सृष्टिव्यापारवानंशो ब्रह्मा इति व्यवहियमाणः सर्वं जगत्पुत्रैः सह निजानुग्रहप्राप्तसृष्ट्यादिशक्तिमद्भिर्दक्षादिभिः सहासृजत् ॥ २।११०।४ ॥

नन्वसावेव सर्वादिर्नेत्याहआकशप्रभव इति । आकाशपदेन कारणोपाधिकं ब्रह्मेश्वराक्यम् । ब्रह्मेति त्रिमूर्तेर्ग्रहणम् । अस्मिञ्शाश्वतत्वनित्यत्वाव्यवत्वान्यापेक्षिकाणि । तस्माद्विराजो ब्रह्मणः ॥ २।११०।५ ॥

तत्र मन्वन्ता मानसी सृष्टिः मनोः क्षेत्रे इक्ष्वाकुः ॥ २।११०।६ ॥

तस्य साक्षात्क्षत्रियत्वात्समृद्धा चतुःसमुद्रवसना मही सर्वा भूर्दत्ता पित्रा मनुनेति शेषः ॥ २।११०।७ ॥

विश्रुतः प्रसिद्धः ॥ २।११०।८,९ ॥

सतां वरे श्रेष्ठे ऽस्मिन्ननरण्ये राज्यं कुर्वति नानावृष्टिर्न तन्मूलो वा दुर्भिक्षः ॥ २।११०।१०,११ ॥

स त्रिशङ्कुः सत्यवचनात्स्वीयाद्भगवतो विश्वामित्रस्य सत्यप्रतिज्ञानाच्च ॥ २।११०।१२ ॥

धुन्धुमाराद्युवनाश्व इति । त्रिशङ्कुसुतो युवनाश्व इत्यन्यत्र श्रूयमाणं कल्पान्तरविषयम्, यद्वान्यत्र त्रिशङ्कुसुत इत्यस्य तत्पौत्र इत्यर्थः ॥ २।११०।१३ ॥

पुत्रौ द्वाविति । तत्र ध्रुवसंधिर्ज्यैष्ठः । तत्पुत्रावलम्बनेनाग्रे ऽयोध्याराज्यपरम्परावचनेन ज्येष्ठस्यैवाभिषेक इति सूचितम् ॥ २।११०।१४,१५ ॥

यस्यासितस्य एते प्रतिशत्रव उदपद्यन्त सो ऽभवदित्यन्वयः ॥ २।११०।१६ ॥

तान्हैहयादिचतुर्विधशत्रून् युद्धे स्वसैन्यं प्रतिव्यूह्यावस्थितो ऽपि शत्रुबाहुल्यात्तज्जयो ऽशक्य इति बुद्ध्या प्रवासितः संजातप्रवासो बभूव । शत्रुजयोद्देशेन हिमवद्गिरिं तपसे जगामेत्यन्वयः ॥ २।११०।१७ ॥

इति श्रुतिः प्रसिद्धिः । तत्र चेत्यादि बालाकाण्डे व्याख्यातप्रायम् ॥ २।११०।१८२३ ॥

तेनैव सह जात इति शेषः ॥ २।११०।२४ ॥

अखानयत् स्वपुत्रैरिति शेषः । इष्ट्वा दीक्षितो भूत्वा वेगेन खननवेगेन त्रासयान उद्वेजयन् ॥ २।११०।२५२७ ॥

येन कूटस्थेन ककुत्स्थेन । येन रघुणा राघवपदवाच्याः ॥ २।११०।२८ ॥

रघोः पुत्रः प्रवृद्धादिनामचतुष्ठयेन प्रसिद्धः ॥ २।११०।२९ ॥

कल्माषपादपुत्रः शङ्खणनामा । यः शङ्खणस्तु तत्प्रसिद्धं वीर्यं पराक्रमं युद्धे प्राप्य दैवात्सहसैन्यो व्यनीनशन्नष्टो ऽभूत् । स्वार्थे णिरिति कतकः । तीर्थस्तुयः शङ्खणस्तद्वीर्यं वसिष्ठवीर्यमासाद्य तच्छापाद्राक्षसत्वं प्राप्य कल्माषपादो राक्षसभावेन स्वसैन्यं स्वपुत्रं शङ्खणं च

भक्षितवानिति कथेत्याह ॥ २।११०।३०३३ ॥

अजो नाभागज्येष्ठपुत्रः ॥ २।११०।३४ ॥

दायादः सुतः ऽदायादौ सुतबान्धवौऽ तत्तस्मात्स्वकं राज्यं गृहाण ॥ २।११०।३५ ॥

पूर्वजे विद्यमाने ऽवरः कनिष्ठो नामिषिच्यते, अपि तु ज्येष्ठ एवाभिषिच्यते ॥ २।११०।३६ ॥

कुलधर्मं कुलक्रमागतं ज्येष्ठाभिषेकधर्मं विहन्तुं नार्हसि । प्रभूतराष्ट्रां प्रभूतावान्तरदेशाम् ॥ २।११०।३७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥ २।११० ॥