तदेतत्खण्डयति रामः–जाबालेरिति । सत्यपराक्रमः सत्यप्रधानः पराक्रमो यस्य सः । ऽसत्यात्मनां वरःऽ इति पाठे सत्यस्वभावानां श्रेष्ठ इत्यर्थः । विप्रतिपन्नया जाबाल्युक्तार्थे प्रतिपत्तिरहितया बुद्धया युक्तः सन् उक्त्या वेदलक्षणसुवचनालम्बनेनोवाच ॥ २।१०९।१ ॥
प्रियकामार्थं प्रीतिहेतुकामभोगसंपादनार्थम् अकार्यं परमार्थतः कर्तुमनर्हं कार्यसंकाशं प्रमामाभासयुक्तत्वात् । अपथ्यं दुःखोदर्कम् ॥ २।१०९।२ ॥
निर्मर्याद उत्पथवर्तीं भिन्नचारित्रदर्शनः साधुसंमतचारित्रप्रतिपादकशास्त्राद्विपरीतव्यवहारप्रतिपादकलोकायतिकादिशास्त्रप्रसक्तः सत्सु मानं पूजां न लभते ॥ २।१०९।३ ॥
इदानीं वेदोक्ताचार एव पुंशामिहामुत्र संमानहेतुरित्याह–कुलीनमिति । पुरुषमानिनम् अधीरमिति यावत्, चारित्रं वेदानुमताचारः, तत्संपन्नः सन्कुलीनत्वादिख्यातिं ख्यापयतिअसंपन्नश्चाकुलीनत्वादिति भावः ॥ २।१०९।४ ॥
किं च त्वत्संमताचाराङ्गीकार सर्वथानर्थप्राप्तिरेवेत्याह–अनार्य इत्यादि । आर्यसंस्थानस्तत्सदृशः शुचिः शुचिरिव भासमान इति शेषः, लक्षण्यवल्लक्षणयुक्तवद्भासमानो भवति त्वदुक्ताचारव्यवहर्तेति शेषः ॥ २।१०९।५ ॥
यद्यहं त्वदुपदिष्टं लोकसंकरकारकमधर्ममार्गं धर्मवेषेण युक्तो ऽभिपत्स्ये, तदा विधिविवर्जितां श्रुत्याद्युक्तविधानरहितां क्रियां कृत्वा तत एव शुभं हित्वाशुभं प्राप्नुयामिति शेषः ॥ २।१०९।६ ॥
तामेवाशुभप्राप्तिं दर्शयति–कश्चेतयान इति । चेतन इत्यर्थः, लोकदूषणं परलोकदूषणमार्गालम्बनम् ॥ २।१०९।७ ॥
अनया त्वदुपदिष्टया वृत्त्या हीना सत्यपरिपालनविषयिणी प्रतिज्ञा । यस्यां तया वर्तमानः केन साधनेन
स्वर्गमाप्नुयां न केनापि । किं चेदं त्वदुपदिष्टं वृत्तं कस्य किंसंबन्धि अहं यास्यामि
यत्पित्रादिषु न कस्यापि । पित्रादिवृत्तानुसरणमेव च ऽयेनास्य पितरो याताःऽ इति शास्त्रविहितामिति भावः ॥ २।१०९।८ ॥
किं च त्वदुपदिष्टमार्गे तिष्ठन्नहं प्रथमतः कामवृत्तो यथेष्टचारी स्याम् । तदनु अयं कृत्स्नो लोकस्तथा समुपवर्तते इत्यर्थः । एवं निर्षन्धे कारणमाहयद्धृत्ता इति ॥ २।१०९।९ ॥
तस्मात्त्वदुपदिष्टस्य मार्गस्य सर्वलोकनाशकत्वेन शास्त्रीयमार्गालम्बनमेवेचितमित्याहसत्यमिति । अनृशंसं भूतानुकम्पाप्रधानं सनातनमनादिशास्त्रसिद्धं राजवृत्तं च सत्यमेव सत्यवचनमेव मुख्यो राजाचार इत्यर्थः, यतो राजवृत्तं सत्यात्मकम्, तस्मात्तेषां राज्यमपि सत्यात्मकं सत्यैकप्रतिष्ठितम् । न केवलं राज्यमेव, अपि तु सर्वो ऽपि लोकः सत्ये प्रितष्ठितः ॥ २।१०९।१० ॥
सत्यमेव हि मेनिरे सत्यलोकान्तसकललोकप्रदमिति शेषः । परमक्षयं बह्मलोकम् ॥ २।१०९।११ ॥
अनृतवादिनो नरात्तथोद्विजन्ते यथा सर्वात् । सत्यं परं श्रेष्ठं यस्य स धर्मः सर्वस्य मूलमुच्यते ॥ २।१०९।१२ ॥
लोके ईश्वरः सत्यमेव सत्यपदवाच्य इति प्रसिद्ध इत्यर्थः । तथा सद्भिराश्रितो धर्मः सत्ये सत्यपदवाच्ये ईश्वरे प्रतिष्ठितः आदौ तस्यैव धर्मोपदेष्टृत्वादित्यर्थः । ऽसत्ये पझा प्रतिष्ठिताऽ इति पाठान्तरम् पझा लक्ष्मीः । सत्यमूलानि सर्वाणीत्यनेन जगदुपादानप्रवर्तकत्वेन सर्वाधिष्ठानत्वेन च तत्सिद्धिर्दर्शिता । तस्यैव तत्त्वे हेतुमाहसत्यात्परं पदं नास्ति । अनेन तदितरस्य सर्वस्य
मिथ्यात्वमचेतनत्वं च दर्शितम् । एतेन चेतनानधिष्ठिता मायैव जगदुपादानकारणमिति निरस्तं चेतनाधिष्ठानं विना तत्परिणामासंभवात् तस्याः परिणामित्वेन मिथ्यात्वेन चेतनाधिष्ठानत्वासंभवाच्च ॥ २।१०९।१३ ॥
एवं नास्तिकं प्रतीश्वरं प्रसाध्य वेदप्रामाण्यं साधयतिदत्तमित्यादि । दत्तादीनि प्रतिपादयन्तो वेदाः सत्यप्रतिष्ठानाः सत्यादीश्वराच्छ्वासप्रश्वासवदाविर्भूता इति वक्तृदोषशङ्काकलङ्कराहित्येन तत्प्रतिपादितदानादीनां फलसंवाददर्शनेन च सर्वत्राप्रामाण्यशङ्कारहिताः किं तु स्वतः प्रमाणभूता एवेति भावः । तस्मात्सत्यस्येश्वरवाचकवाच्यत्वेन तदभेदात् सत्यपरः सत्यपालनतत्परो भवेदित्यर्थः ॥ २।१०९।१४ ॥
वेदोक्तधर्माधर्मफलस्य प्रत्यक्षमनुभूयमानत्वेन तत्प्रामाण्यं सिद्धमित्याहएक इति । लोकं राज्यम्, कुलं स्वकुलमात्रम् । एतेन पालनसाधनधर्मफलतारतम्यस्य वेदोक्तस्यानुभवो दर्शितः । निरयो ऽत्र दुःखं स्वर्गश्च सुखम् तेन धर्माधर्मफलानुभवो दर्शितः ॥ २।१०९।१५ ॥
सो ऽहमुक्तरीत्या एवं विवेकवानित्यर्थः । ननु स्त्रवशतया पितृकृते नियोगे किमियता निर्बन्धनेन तत्राहसत्येति । यतो मे पिता सत्यप्रतिश्रवः सत्यप्रितज्ञः स्वप्रतिज्ञातसत्याह्गीकारवान्समयी सदाचारवान् अतस्तेन सत्येन सत्यपरिपालनेन हेतुना सत्यमेव मां प्रतिकृतम् उक्तमित्यर्थः ॥ २।१०९।१६ ॥
अतो लोभाद्राज्यस्य, मोहादुक्तस्य विस्मरणात् प्रतिज्ञात्यागे दोषस्याज्ञानाद्वा त्वदुक्तवाक्याच्छास्त्रादावश्रद्धारूपतमोयुक्तो वा । पूर्वं सत्यप्रतिश्रवः शपथपूर्वकं कृतप्रतिज्ञः सन्नैव भेत्स्यामि न भेत्स्यामि न च भेत्स्यामीति त्रिवारोक्त्या सर्वथा दार्ढ्य सूचितम् ॥ २।१०९।१७ ॥
एवं सत्ये दृढस्थितौ हेतुमाह–असत्यसंधस्य प्रतिज्ञाविषयसत्यहीनस्य चलस्य चञ्चलस्वभावस्य । तस्यैव विवरणम्अस्थिरेत्यादि । ईदृशस्य सतः एतैर्गुणैर्युक्तस्य देवादयो हव्यकव्यादि न गृह्णन्तीति नः श्रुतम् ॥ २।१०९।१८ ॥
प्रत्यगात्मनो जीवानुद्दिश्य प्रवृत्तिमित्यर्थे प्रत्यगात्ममित्यार्षत्वासाधुः । इमं सत्यं सत्यपालनरूपं धर्ममहं ध्रुवं सर्वधर्मेषु मुख्यं पश्यामि । अयं भारो वनवासे जटावल्कलादिभारः सत्यपालनरूपो वा पूर्वैः सत्पुरुषैराचीर्णस्तदर्थं मयाप्यभिनन्द्यत आद्रियते ॥ २।१०९।१९ ॥
ननु स्वधर्मो राज्यपालनमेव किमिति नाभिनन्द्यते तत्राहक्षात्रमिति । धर्मवत्प्रतिभासमानं वस्तुतो ऽधर्मं क्षुद्रादिभिः सेवितमीदृशं क्षात्रधर्मं पित्राज्ञाभङ्गेन राज्यकरणरूपमहं त्यक्ष्ये न तु न्याय्यं क्षात्रधर्ममिति भावः ॥ २।१०९।२० ॥
स्य पापस्य शरीरसाध्यत्वे ऽपि कायिकवाचिकमानसिकसकलपापप्रसक्तिरित्याहकायेनेति । आदौ मनसा एवं कर्म करिष्य इति तत्पापं संप्रधार्य ततो जिह्वया ऋतं धर्मजनकं ततो भिन्नमनृतं तत्कर्म कर्तव्यत्वेन जिह्वया तत्सहायभूतेषु पुरुषेष्वाह, ततः कायेन कुरुते, अतः पापं कर्म क्रियारूपम् । पापं त्रिविधं कायिकवाचिकमानसिकरूपत्रिविधजनकमित्यर्थः । तेन कायिकं पापं बहुदुःखजनकमिति भावः । कलौ तु पापसंकल्पादितो न दोष इत्युक्तं भागवतेऽ नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु तिध्यन्ति नेतराणि कृतानि यत् ॥ ऽ सम्राट् परीक्षित् । सारमाहकुशलानि पुण्यान्याशु संकल्पमात्रात्सिध्यन्ति, यथा मानसपूजा । इतराणि पापानि संकल्पमात्रान्न फलन्ति । यद्यतस्तानि कृतान्येव फलन्तीति तदर्थः ॥
२।१०९।२१ ॥
अथ सत्यस्य सर्वार्थसाधनत्वमाहभूमिरिति । प्रार्थयन्तीति सत्यवन्तमिति शेषः । समनुवर्तन्ते इति शिष्टा इति शेषः । यदेवं ततः सत्यमेव भजेदित्यर्थः ॥ २।१०९।२२ ॥
यद्भवानवधार्य युक्तत्वेन निश्चित्य मां प्रति युक्तिरेव करः करणं येषां तैर्वाक्यैरिदं भद्रं राज्यं हनिश्चयेन कुरुष्व स्वीकुरुष्वेति श्रेष्ठं हि श्रेष्ठमिवाह तदनार्यमन्याय्यमेव स्याद्भवेत् ॥ २।१०९।२३ ॥
अनार्यत्वमेव दर्शयन् ऽराज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितःऽ इत्यस्योत्तरमाहकथमिति । गुरोः पुरत इमं गुर्वाज्ञप्तं गुरोर्वचो हित्वेत्यन्वयः ॥ २।१०९।२४ ॥
कैकेयी चेति । एवं च तस्या हर्षदस्य पुनरहर्षदत्त्वमत्यन्तमनुचितमिति भावः ॥ २।१०९।२५ ॥
तर्पयन् प्रतिज्ञां पालीयष्यामीमि शेषः ॥ २।१०९।२६ ॥
संतुष्टपञ्चवर्गो मूलादिभिस्तुष्टपञ्चेन्द्रियवर्गः लोकयात्रां पितृवचनपालनव्यवहारं प्रवाहये प्रवाहरूपेण प्रवर्तयामीत्यर्थः । अकुहो ऽकपटशीलः श्रद्दधानः आस्तिकः ॥ २।१०९।२७ ॥
शुभकरणे हेतुःअग्निरित्यादि । यच्छुभं कर्म कर्तव्यं तेषां शुभकर्मणां तत्तल्लोकप्राप्तिः फलमिति भावः ॥ २।१०९।२८ ॥
शतमिति । अनेन पूर्वोक्तं समर्थितम् अतीतानागतज्ञेन्द्रादीनां तत्तत्फलानुभवेन तत्तद्भेदभागप्रमाण्यं दर्शितं च ॥ २।१०९।२९ ॥
नास्तिकवाक्यहेतुं नास्ति परलोक इति वचनोपपादकम् ऽयदि भुक्तमिहान्येनऽ इत्याद्युक्तशुष्कतर्करूपम् अमृष्यमाणः जाबालिमिति शेषः । तस्य जाबालेः अनेन नास्तिकवृत्तयो ब्राह्मणा अपि राज्ञो ऽवश्यं वाग्दण्डेन दण्ड्या इति सूचितम् ॥ २।१०९।३० ॥
पराक्रमश्चान्द्रायणादि तपः । यत इमानि त्रिदिवस्य पन्थानमाहुः सन्तः ॥ २।१०९।३१ ॥
यतश्च तेन सद्वचनेनैवमर्थमेकोदयं मुख्यफलवन्तं यथावदाज्ञाय श्रुत्वा संप्रतिपद्य श्रुत्यनुकूलतर्कैर्निर्णीय तं धर्ममप्रमत्ताः सावधाना यथावच्चरन्तो लोकागमं तत्तल्लोकप्राप्तिं काङ्क्षान्ति ॥ २।१०९।३२ ॥
अतः निन्दामीति । अनयानुपदोक्तया एवंविधया प्रत्यक्षैकप्रमाणवादिचार्वाकमत्तानुसारिण्या चरन्तं लोकनासायाटन्तम् अत एव नास्तिकत्वादिगुणयुक्तं विषमस्थबुद्धिमवैदिकदुर्मार्गप्रतिष्ठितबुद्धिं त्वां यो मे पिता ऽग्रह्णाद्याजकत्वेनाङ्गीकृतवांस्तत्पितुः कर्म निन्दामि ॥ २।१०९।३३ ॥
बौद्धादयो राज्ञश्चोरवहण्ड्या इत्याहयथा हीति । बुद्धो बुद्धमतानुसारी तथा चोरवद्दण्ड्य इति हि प्रसिद्धम् । नास्तिकं चार्वाकं तथागतं तत्सदृशं चोरवद्दण्ड्यं विद्धि । नास्तिकविशेषस्तथागतः तमपि चोरवद्दण्ड्यमिति शेष इत्यन्ये । वेदप्रामाण्यापहर्तृत्वेन तेषामपि चोरत्वात् । हि निश्चयेन तस्मात्प्रजानामनुग्रहाय राज्ञा चोरवदेव दण्डयितुं शक्यतमो यः स चोरवदेव दण्ड्यः दण्डायोग्ये तु बुधो ब्राह्मणो नास्तिके ऽभिमुखो न स्यात् तत्संभाषणादि न कुर्वितेत्यर्थः, तुल्यन्यायाद्दण्डासमर्थो ब्राह्मणो ऽपि तद्विमुखः स्यादिति सूचितम् ॥ २।१०९।३४ ॥
अथ वेदोक्तधर्मे शिष्टाचारं प्रमाणयतियतः त्वत्तो ऽन्ये इति शेषः, त्वदन्ये द्विजाः जनाः पूर्वतरे श्रेष्ठाः । आर्षमिदम् । ऽयदाऽ इति पाठे नाध्याहारापेक्षा तस्यैव यत इत्यर्थकत्वात् । बहूनि शुभानि चक्रुः इमं लोकं परं च लोकं छित्वा ऐहिकामुष्मिकफलकामनां त्यक्त्वापि वेदोक्तो ऽयं धर्म इत्येतावतैव कर्माणि चक्रुरिति तात्पर्यम् । तस्माद्ये द्विजाः स्वस्ति अर्हिसा सत्यादिकम्, कृतं तपोदानपरोपकारादि, हुतं यज्ञादि कुर्वते वेदप्रामाण्यादेव ॥ २।१०९।३५ ॥
तथा धर्मे रता निष्ठावन्तो ये ते प्रधानाः श्रेष्ठामुनयो वसिष्ठाद्या ऋषयः पूज्या भवन्ति लोके न त्वादृशा इत्यर्थः ॥ २।१०९।३६ ॥
इति धिक्कृतो जाबालिः स्वविषयकोपशमनायाहइतीति । पथ्यं परमार्थम् ॥ २।१०९।३७ ॥
तदेवाहनेति । किंच न परलोकादि नास्तीति न, किं त्वस्त्येव । कालं पारलौकिकव्यवहारकालम् । काले लौकिकव्यवहारकाले । एवं च सर्वमतज्ञेन कालविशेषे ऽन्यथावाग्व्यवहारे ऽपि न तस्य नास्तिकत्वं भवतीति भावः ॥ २।१०९।३८ ॥
स चापि कालः लौकिकव्यवहारप्रयोजन इत्यर्थः । तत्प्रयोजनमाहनिवर्तनार्थमिति । निवर्तनरूपं प्रयोजनमुद्दिश्य कारणात्त्वदीयास्तिकत्वातिशयस्य लोकेतिप्रसिद्धिसंपादनरूपकारणान्नास्तिकवागुक्ता तादृशीं वार्णीं श्रुत्वा क्रुद्धस्य तव प्रसादनार्थं चैतन्न नास्तिकानामित्याद्युदीरितम् ॥ २।१०९।३९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे नवोत्तरशततमः सर्गः ॥ २।१०९ ॥