भरताश्वासनं कुर्वन्तं रामं धर्मापेतं धर्ममार्गविरुद्धं लोकायतिकमतावलम्बनमिति यावत्,वच उवाचेत्यन्वयः ॥ २।१०८।१ ॥
साधु सम्यग्युक्तिमदिदं वच इति पूर्वान्वय्येतत् । इदशब्दार्थो राघवेत्यादि । प्राकृतस्य पामरस्य नरस्येव निरर्थिका एवं बुद्धिः पितृवचः पालनीयमित्येवंरूपा आर्यबुद्धेस्तपस्विनिस्ते मा भूत् ॥ २।१०८।२ ॥
कुतो मा भूदित्यत्र पितापुत्रसंबन्धस्यैत्र मिथ्यात्वादित्याह–क इति । कस्य पुरुषस्य केनचित्संबन्धात् किमाप्यं किं प्राप्यं न किमपीत्यर्थः, संबन्धाभावादिति भावः । संबन्धाभावे हेतुमाहएको हीति ॥ २।१०८।३ ॥
यः सज्जेत स उन्मत्त इव ज्ञेयः ॥ २।१०८।४,५ ॥
आवासमात्रं पान्थानामिव अतो नात्र सज्जनाः सज्जन्ते ॥ २।१०८।६ ॥
पित्र्यं राज्यमित्यास्तिकमतावलम्बिरामाभिप्रायेणोक्तिः । कापथं वनमार्गम् आस्तिकसेव्यं मार्ग च ॥ २।१०८।७ ॥
एकवेणीधरत्वं विरहिणीलक्षणम् । त्वा त्वाम् ॥ २।१०८।८,९ ॥
उक्तं संबन्धाभावमुपसंहरतिनते इति । मिथ्यापितृवचनाभिनिवेशं मुक्त्वा राज्यं कुर्विति यदुच्यते तत्कुरु । अन्यस्त्वज्जनकादन्यः संप्रति राजा । एवं क्षणभङ्गवादेनान्यत्वं गूढाशयतयोक्तम् । नन्वेवमपि तत्संताननिविष्टतया कश्चित्संबन्धो भवेत्, अन्यथा पितरं विनापि पुत्रोत्पत्तिः स्यादिति चेन्न, तावतापि निमित्तकारणात्वमेव नोपादानत्वम्, तेन यूकालिक्षादेरिव तवापि तेन न कश्चित्संबन्ध इत्याशयः ॥ २।१०८।१० ॥
बीजमात्रं निमित्तकारणमात्रम् । मात्रपदेनोपादानत्वव्यावृत्तिः । तर्ह्युपादानं किं तत्राहऋतुमन्मात्रेति ऋतुमत्या माप्रेत्यर्थे पुंवद्भावः । यत्तादृश्य मात्रा गर्भे धृतं संयुक्तं परस्परमिलितं शुक्रं शोणितं च तदिह लोके पुरुषस्य शरीरस्य जन्मोपादानकारणं भवतीत्यर्थः । एवं च शुक्रशोणितयोगादाकृष्टपञ्चभूतसमूह एव पुरुषश्चेतनो न तस्य केनचित्संबन्ध इत्याशयः ॥ २।१०८।११ ॥
गत इति । यत्र येषु भूतेषु गन्तव्यं तत्र तेषु गतो लयं प्राप्तः त्वमपि तथैव लयं प्राप्स्यसीति स्थिरस्य कस्यचिदभावात्कः केन संबन्ध इति भावः । उक्ता एषा भूतसमूहरूपस्य तेषु लयप्राप्तिरूपा प्रवृत्तिर्मर्त्यानां स्वभावप्राप्तेति शेषः, अतस्त्वं मिथ्या विहन्यसे राज्यरूपात्पुरुषार्थादिति शेषः ॥ २।१०८।१२ ॥
नन्वर्थविघाते ऽपि धर्मो मे भविष्यीत्यात्राहअर्थेत्यादि । अर्थे प्रत्यक्षसिद्धपुरुषार्थे प्राप्ते तं परित्यज्य ये ये
आस्तिका धर्मपरास्तांस्ताञ्शोचामि धर्मफलभोक्तुरभावादिति भावः । तदेवाहते हीति । प्रेत्यान्तसमयं प्राप्तय विनाशं भेजिरे, न त्वत्रोपार्जितधर्मस्य तत्रावस्थितिरस्ति । ऽप्राप्य विनाशं प्रतिपेदिरेऽ इति पाठान्तरम् ॥ २।१०८।१३ ॥
नन्वेवं श्राद्धाद्याचारासंगतिस्तत्राहअष्टकेति । तदादि यत्पितृदेवत्यं श्राद्धकर्मेति तत्र प्रसृतः प्रवृत्तो ऽयं जनस्तस्यान्नस्य स्वभोगसाधनस्योपद्रवं नाशं केवलं करोति पश्य विचारय । तामेव विचार्य युक्तिमाहमृतो हीति ॥ २।१०८।१४ ॥
ननु तैरत्राभोजने ऽपि तदुद्देशेन दत्तं लोकान्तरे तमुपतिष्ठतीत्येतमर्थं भोक्रभावेन दूषितमपि युक्त्यन्तरेण दूषयतियदीति । प्रवसतामुद्देशं कृत्वा श्राद्धं दद्यात् प्राप्तकाले लिङ् ।
तद्दानमेवोचितमित्यर्थः । न तु तत्पथ्यथ्यशनं तस्मै दीयमानं पथ्यशनं पाथयं न्याय्यं भवेत् । भारवहनेन दुःखदत्वादिति भावः एतेनैव न्यायेन देवार्थदानमपि व्यर्थमित्युपपादिम् ॥ २।१०८।१५ ॥
एवं वैदिकाचारं प्रदूष्य तत्प्रतिपादकागमाप्रामाण्यमाह–दानेति । यजस्व देवपूजां कुरु, देहि अन्नादिदानम्, दीक्षस्व यागार्थम्, तपश्चान्द्रायाणीदि, संत्यज प्रव्रजेत्येवं परा वेदादयो ग्रन्था दानसंवनना दानाय वशीकरणोपायभूता मेधाविभिर्वार्तादिना जीवने क्लेशं पश्यद्भिः पामरप्रतारणायानायासेन धनग्रहणाय कृतः अतो न ते प्रमाणमिति भावः ॥ २।१०८।१६ ॥
परमैहिकात्परं परलोकप्रयोजनं किंचिद्धर्माख्यं नास्तीति बुद्धिं कुरु । परोक्षमनुमानशब्दादिगम्यं पृष्ठतः कुरु त्यज ॥ २।१०८।१७ ॥
सतां प्रत्यक्षसिद्धस्यैव सत्यत्वं वदताम् । त एव साधवो न तु शब्दप्रमाणकादेः सत्यत्वं वदन्त इति भावः । भिन्ने पदे वा । स त्वं तामुक्तामित्यार्थो वा । सर्वलोकनिदर्शिनीं सर्वलोकसंमतामित्यर्थः ॥ २।१०८।१८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टोत्तरशततमः सर्गः ॥ २।१०८ ॥