रामो राजनियोगपालनमेव परमो धर्मो बहूनां सुखसाधनत्वादित्याशयेनावददित्याहपुनरिति ॥ २।१०७।१ ॥
इदमुक्तवाक्यम् उपपन्नं युक्तिमत् । तत्र हेतुःजात इत्यादि ॥ २।१०७।२ ॥
इदानीं त्वया राज्यस्य मया वनवासस्य चाकरणे राज्ञः प्रतिज्ञाहानिकृतो महानधर्म इत्याहपुरेति । तव पुत्र्यां जनिष्यते तस्मै राज्यं दास्यामीति प्रतिज्ञातवानित्यर्थः ॥ २।१०७।३ ॥
ननु ऽस्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे । गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम् ॥ ऽ इति स्मृतेः कौसल्यायां विद्यमानायां कैकेयीविवाहस्य नर्मविवाहत्वात्तत्प्रतिज्ञाहानिर्न दोषायेत्यत आहदेवासुरे चेति । देवासुरे तत्संबन्धिनि । एवं चोपकारप्रत्युपकाररूपत्वादेतदनृते महान्दोष इति भावः । वरं वहद्वयम् ॥
२।१०७।४ ॥
ततो हतोः संप्रतिश्राव्य प्रतिज्ञां कारयित्वा ॥ २।१०७।५ ॥
याचनप्रकारमाहतवेति । नियुक्तो वरबलेन नियोजितः । तद्वरं तद्रूपवरम् ॥ २।१०७।६ ॥
अत्र दण्डकाख्ये वने चतुर्दश वर्षाणि वरदानिकं वरदाननिमित्तकं वासं नियुक्तः तं प्रति प्रेरित इत्यर्थः । अत्रायमप्यर्थःदेवेभ्यो मद्दत्तवरदाननिमित्तकम् अन्तर्यामिणा तथा प्रेरणात् अत एवात्र दण्डकारण्ये एतत्प्रसङ्गेनैव तत्प्रयोजननिष्पत्तेरिति ॥ २।१०७।७ ॥
ननु वने रक्षआदिभ्यो नानादुःखसंभावनेत्यतो ऽप्रतिद्वन्द्व इति । समाधिकबलशत्रुहीनः सर्वे ऽपि मत्तो हीनबला एवेति न तद्भयावकाश इति व्यङ्ग्यो ऽर्थः, आपाततस्तु अप्रतिद्वन्द्वः स्पर्धारहितः इति ॥ २।१०७।८ ॥
तथेत्येव तथेवति पितृनियुक्त एवेति । अर्हसीत्यार्षम् । ऽअर्हतिऽ इति पाठान्तरम् अत एव संबोधनं राजेन्द्रेति ॥ २।१०७।९ ॥
ऋणात्कैकेयीसंबन्ध्यृणात् । मत्कृते मत्प्रीत्यर्थम् । त्राहीत्यार्षम् । अभिनन्दय न तु निन्दय तत्कृतस्यार्थस्य बहूपकारकत्वादिति व्यङ्ग्यम् ॥ २।१०७।१० ॥
स्वोक्तस्यावश्यकत्वे संमतिमाहश्रूयते इति । गयेषु गयाप्रदशेषु यजमानेन यागं कुर्वता पितृन्प्रति पितृप्रीतिमुद्दिश्य ॥ २।१०७।११ ॥
तां श्रुतिमाहपुन्नाम्न इति । पुदिति नरकनाम त्रायतेः कः प्रत्ययः । व्युत्पत्त्यन्तरमाहपितनिति । पितृन्पाति इत्यर्थे पुत्रस्य पृष्टोदरादित्वात्साधुत्वम् । पितृनुद्दिश्य कृतेष्टापूर्तादिना स्वर्लोकप्रापणेन तेषां रक्षणमित्याहुः ॥ २।१०७।१२ ॥
गयां पितृस्वर्गसाधनं गयाक्षेत्रम् । एषा च पितृमां परलोकसाधनं पुत्रेणावश्यं कार्यमित्यर्थे संमतिः ॥ २।१०७।१३ ॥
एवं पितृपरलोकसाधनम् ॥ २।१०७।१४१६ ॥
वन्यानामिति अनेन भाविवानरराजाधिपत्यादि सूचितम् ॥ २।१०७।१७ ॥
दिनकरभा इति द्वितीयाबहुवचनम् । वर्षत्रं छत्रम् । शीतां छायामित्यन्वयः ॥ २।१०७।१८ ॥
सौमित्रिर्लक्ष्मणः । चराम विषौ लोट् संपादयामेत्यर्थः ॥ २।१०७।१९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्ताधिकशततमः सर्गः ॥ २।१०७ ॥