अथ भरतः क्षात्रधर्मावष्टम्भेन रामप्रत्यावृत्तिं प्रार्थयतेएवमुक्त्वेति ॥ २।१०६।१ ॥
चित्रमुक्तियुक्तिविशेषोपपन्नत्वाल्लोकस्य विस्मयजनकम् । को हि स्यात् न को ऽपीत्यर्थः । यादृशो यादृशमाहात्म्यवान् ॥ २।१०६।२ ॥
वृद्धानां संमतो ऽपि धर्मविषये रामवदेव वर्तितव्यमिति दृष्टान्तभूतो ऽपि लोकमर्यादामनुसरंस्तान्वृद्धान्संशयान्संशयास्पदधर्मान्पृच्छसि एवं च सर्वज्ञाप्तकामत्वात्तव न दुःखमिति भावः ॥ २।१०६।३ ॥
यथा मृतस्तथा जीवन् अस्य यथा जीवंस्तथा मृत इति वाक्यशेष आर्थिको बोद्यः । यथा मृतस्त्यक्तदेह आत्मा देहपुत्रादिभिरसंबद्धस्तथा जीवन्नपि तैरसंबद्धः । नित्यशुचिसुखचिदात्मनो नित्याशुचिदुःखजडेन देहेन तदीयश्चासंबन्धात् । यथा च जीवन्स्वकर्मानुरूपं संसरति तथा मृतो ऽपि स्वकर्मानुरूपं परत्र । किंच यथा जीवन्सर्वैः संबद्धस्तथा मृतो ऽपि सर्वात्मत्वादस्य । किंच यथा ऽसति अविद्यमाने न रागो जायते द्वेषो न युक्तस्तथा ऽसति असाधावपि द्वेषो न युक्तः । किंच यथा ऽसति प्रपञ्चे ऽनुरागस्तथा सति ब्रह्मणि युक्तः । किंच सति ब्रह्मणि तन्निष्ठितस्य यथा न बन्धो मुक्तिश्च भवति तथा लोकसंग्रहार्थमसन्निष्ठस्यापि न बन्धो मुक्तिश्च भवति । यस्य त्वादृशस्य एष उक्तार्थविषयको बुद्धिलाभः स्यात्स राजयोगी केन परितप्येत न केनापि हेतुनेत्यर्थः ॥ २।१०६।४ ॥
परावरज्ञः सप्रपञ्चात्मतत्त्वज्ञः । विषीदितुमित्यार्षम् विषत्तुमित्यर्थः ॥ २।१०६।५ ॥
अमर ईश्वरः स यथा शुद्धसत्त्वोपाधिस्तद्वच्छुद्धसत्त्वप्रधानः । अत्रोपमाशब्दप्रयोगो लोकप्रतारणाय सत्त्वोपाधिरीश्वरस्त्वमेवेति भावः । सर्वज्ञः सर्वविषयकज्ञानरूपोपाधिवृत्तिमान्, सर्वदशीं सर्वसाक्षी बुद्धिमान्सर्वबुद्धिप्रवर्तकः अन्तर्यामिति यावत् ॥ २।१०६।६ ॥
प्रभवाभवकोविदं भूतानामुत्पत्तिनाशज्ञम् । आसादयितुमवसादयितुम् । एवं च त्वामेवंविधं यद्यपि दुःखं न पीडयति तथापि मादृशं पीडयत्येवेति स्वस्थो भव । मा शोक इत्यस्योत्तरमेतत्पर्यन्तम् ॥ २।१०६।७ ॥
मत्कारणान्मद्राज्यनिमित्ततो मे ऽनिष्टं मदसंमतमेव अतो भवान्प्रसीदतु । मद्दत्तं राज्यं परिगृह्णात्विति यावत् ॥ २।१०६।८ ॥
धर्मबन्धेन धर्मरूपेण बन्धनेन । इहेदृशापराधविषये इमां सर्वान्तर्यामिणस्तव द्वेषिणीम् अत एव दण्डार्हाम् ॥ २।१०६।९,१० ॥
मातृवात्पिताप्यन्याय्यकारीत्याहगुरुरिति । क्रियावान्कृतश्रेष्ठक्रतुः । प्रेतः सञ्श्राद्धादौ ॥ २।१०६।११ ॥
एवं गुरुत्वातिहेतुभिर्यद्यप्यहं न पिरगर्हे तथापि वस्तुतो गर्ह्य एवेत्याह–को हीति । को हि धर्मवित् धर्मार्थयोर्हीनं ताभ्यां हीनं कामप्रधानम् ॥ २।१०६।१२ ॥
अन्तकाले मृतिकाले मुह्यन्ति विपरीतबुद्धिं प्राप्नुवन्ति । पुरा श्रुतिः पुरातनी गाथा प्रत्यक्षा सत्या ॥ २।१०६।१३ ॥
क्रोधाद्विषमद्यैव पास्यामीत्युक्तिमूचिः तात् कैकेयीक्रोधात् तत्क्रोधभयादिति यावत्, मोहात्कैकेयीविषयात् साहसादविसृश्यकारित्वात् तातस्य यदति क्रान्तम् भावे निष्ठा ज्येष्ठाभिषेकलक्षणसाध्वर्थाननुष्ठानं तत्साध्वर्थमभिसाधाय राजोक्तार्थेषु कतमस्य साधुत्वमिति विचार्य प्रत्याहरतु निवर्तयतु ॥ २।१०६।१४ ॥
तदेवोपपादयतिपितुर्हीति । अतिक्रान्तमतिक्रमस्तं साधु मन्यते तद्वैपरीत्याचरणेन साधु यथा तथा संपादयतितदपत्यं मतमपतनहेतुत्वादपत्यशब्दवाच्यम् ॥ २।१०६।१५ ॥
अपत्यमस्तु अन्वर्थापत्यमस्तु । मा भवान्दुष्कृतं पितुः अनुमन्यतामिति शेषः । तदेवाहअतीति । यत्तत्कृतं दशरथकृतं कर्म तदति धर्ममतिक्रम्य प्रवृत्तम् अत एव लोके धीरैर्विगर्हितम् अतस्तदनुमननमनुचितमिति पितृवचसः परिपाल्यत्वे युक्तं धर्मवदभिषेकवचनमेव परिपालयेति व्यङ्ग्यम् ॥ २।१०६।१६ ॥
सर्वांस्त्रातुमिदं सर्वं मदुक्तं भवाननुमन्यतामिति भावः ॥ २।१०६।१७ ॥
पित्रुक्तवनवासस्य गर्हितत्वमेवाहक्वचेति ॥ २।१०६।१८ ॥
ननु वानप्रस्थाश्रमः क्षत्रियस्याप्यस्ति तत्राह–एष हीति । येनाभिषेचनेन पालनं तद्रूपधर्मसंपादनं प्रथम आद्यो धर्म इत्यर्थः । एवं च स आश्रमो राज्यपरिपालनोत्तरं वार्धके उचितो नापि स मुख्यो धर्मं इति भावः ॥ २।१०६।१९ ॥
तस्यामुक्यत्वमेव दर्शयति–कश्चेति । प्रत्यक्षं प्रत्यक्षसुखसाधनं धर्मं प्रजापालनरूपमुत्सृज्य संशयस्थमप्रत्यक्षत्वात्को हि तद्वेद यद्यमुष्मिंल्लोके ऽस्ति वा न वेति श्रुत्याभिनीय मानसं देहास्पदम् अलक्षणमसुखलक्षणम् आयतिस्थमुत्तरवयःप्राप्यम् अनिश्चितमनित्यानुष्ठानम् । नहिप्रजापालनवत्क्षत्रियस्य नित्यप्राप्तो ऽयं धर्मः नित्यत्वे तद्रहितदशरथादेः पापित्वप्रसङ्गः । तं क्षत्रबन्धुः क्षत्राणां बन्धुरिति समासेन क्षत्रियकुलसंमत इत्यर्थः । निन्दायां बन्धुच्प्रत्ययान्तस्तु निन्द्यक्षत्रियादिवाचीति कतकः । कश्चरेत् न को ऽपीत्यर्थः । अन्ये तुक्षत्रबन्धुरपि निन्द्यक्षत्रियो ऽपि राज्यानर्हो ऽपीदृशं धर्मं न चरेत्, किं पुनर्वाच्यं राज्याधिकारीत्यर्थमाहुः ॥ २।१०६।२० ॥
ननु शरीरक्लेशदानमुत्कृष्टो धर्मं इत्यत आहअथेति । क्लेशजं शरीरक्लेशजनितमेव धर्मं चरितुं कर्तुं यदीच्छसि तर्हि धर्मेण चतुरो वर्णान् पालयन् चाराद्यद्वारीकृत्य रक्षन् क्लेशं शरीरखेदमाप्नुहि ॥ २।१०६।२१ ॥
ननूत्तमत्वेन श्रुतत्वात्तदाश्रमकरण युक्तमत आहचतुर्णामिति । सर्वेषां गृहस्थपाल्यत्वादिति भावः ॥ २।१०६।२२ ॥
श्रुतेन विद्यया बालो ऽवरः जन्मना तत्संपाद्येन स्थानेन कनिष्ठभ्रातृत्वेन च बालः ॥ २।१०६।२३ ॥
हीनो बुद्दिगुणः सत्त्वं यस्य सः तेन हीनसत्त्वगुण इत्यर्थः । हीनस्थानेन चोपलक्षितः अत एव बालः त्वया विना वर्तयितुं जीवितुमपि नोत्सहे किं पुना राज्यं पालयितुमित्यर्थः ॥ २।१०६।२४,२५ ॥
सह संभूय मन्त्रविदिति संबोधनम् ॥ २।१०६।२६ ॥
पालने राज्यपरिपालननिमित्तम् । तरसा बलेन । लोकाव्शत्रुलोकान्मरुद्बिरिवास्माभिः सह वासव इव त्वं विजित्य तां पालयेति शेषः ॥ २।१०६।२७ ॥
ऋणानीति " जायमानो वै ब्राह्मणस्त्रिभिऋ़णवा डायते " इति श्रुतौ ब्राह्मणपदमुपलक्षणमिति भावः । अत्रायोध्यायां स्थित्वेति शेषः ॥ २।१०६।२८ ॥
दुष्प्रदा दुःखप्रदाः ॥ २।१०६।२९ ॥
आक्रोशं निन्दाम् । तत्रबवन्तं पूज्यम् ॥ २।१०६।३० ॥
त्वा त्वाम् । मयि बान्धवेषु च करुणां कुर्विति संबन्धः ॥ २।१०६।३१ ॥
पृष्ठतः कृत्वा तिरस्कृत्य । मत्प्रार्थनामिति शेषः । इतो ऽपि वनमेव जनसंबाधभयेनास्माद्वनादपि वनान्तरमित्यर्थः ॥ २।१०६।३२ ॥
ताम्यता ग्लायता गमनाय अयोध्यां प्रतीति शेषः ॥ २।१०६।३३ ॥
तत्स्थैर्यं पितृवचनस्थितिस्थैर्यम् । दुःखहर्षयोर्युगपत्प्रवृत्तौ निमित्तं स्वयमेव व्याकरोति कविःन
यातीति ॥ २।१०६।३४ ॥
नैगमाः पुरे भवाः ऽनिगमो निश्चये वेदे पुरे पथि वणिक्पथेऽ इति । तद्यूथवल्लभास्तद्गणमुख्याः । विसंज्ञा विचित्ताश्च ता अश्रुकला अश्रुप्रचुराश्च ॥ २।१०६।३५ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे षडुत्तरशततमः सर्गः ॥ २।१०६ ॥