पूर्वसर्गान्तोक्तरीत्या सुहृद्गणवृत्तत्वम् । शोचतां पितृपरणदुःखेन ॥ २।१०५।१ ॥
मन्दाकिन्यां तत्तीरे हुतं प्रातरौपासनहोमम् जप्यं गायत्रीजपम् । ऽद्वारम्ऽ इति पाठे उटजद्वारमित्यर्थ इति केचित् तन्न, उत्तरसर्गे मन्दाकिनीतीरे राममुवाचेत्युक्तेः तस्मात् ऽरामम्ऽ इति पाठो रामाधिष्ठितनदीतीरमित्यर्थ उचितः ॥ २।१०५।२,३ ॥
माता कैकेयी प्रथमं राज्ञा राज्यदानेन सान्त्विता कृताश्वासा, अनन्तरं तया ममेदं राज्यं दत्तम् । तद्राज्यमकण्टकमुक्तप्रकारेण पितृवचनस्यापि परिपालनात्प्रत्यूहरहितम् ॥ २।१०५।४ ॥
जलागमे वर्षाकाले ऽम्बुवेगेन भिन्नः सेतुरिव इदं महदयोध्यादेशीयं राज्यखण्डं भरतखण्डाख्यं राज्यं त्वदन्येन दुरावरमावरितुमशक्यम् ॥ २।१०५।५ ॥
ननु त्वया वीरेण सुरक्ष्यमेतत्तत्राहगतिमिति । अश्वगतिमनुगन्तुं खरो यथा न शक्तः तार्क्ष्यगत्यनुगमने यथेतरपक्षिणो ऽशक्ताः तथा तव गतिं त्वदीयां राज्यपालनशक्तिमनुगन्तुं मे न शक्तिः । इवशब्दो यथार्थे निपातानामनेकार्थत्वात् ॥ २।१०५।६ ॥
यः परैर्नित्यश उपजीव्यते तस्य सुजीवं शोभनं जीवनमित्यर्थः । भावधञन्तं क्लीबमपि क्वचित् ऽघञ्जपाः पुंसिऽ इति तु प्रायिकमिति बोध्यम् । तस्येत्यर्थे तेनेत्यार्षम् । दुर्जीवं दुःखं जीवनं तस्मात्तव राज्यकरणमेवेचितमिति भावः ॥ २।१०५।७ ॥
लोकरक्षणार्यं दशरथेनोत्पाद्य वर्धितः सकलगुणसंपन्नो यदि लोकरक्षणं न करिष्यसि तदा व्यर्थस्तत्प्रयास इत्यमुमर्थमुपमानप्रदर्शनमुखेनाहयथा त्विति । यथा वृक्षः फलार्थिना पुंसा रोपितः कृतबीजावापो ऽनन्तरं शनैर्वर्धितः । तत्र बुद्ध्यतिशयमाहह्रत्वकेन वामनेन दुरारोहो ऽत एव रूढस्कन्धो महाद्रुमो ऽथ पुष्पितो भूत्वा यदा फलानि न दर्शयति तदा स तदारोपकः पुमान्यस्य फलस्य हेतोः स द्रुमः प्रभावित उत्पादितः स तां प्रीतिं स्वाभिमतफलप्राप्तिजां प्रीतिं नानुभवेत्,तथा त्वमिति एषोपमा त्वयि भवति । यत्र रक्षणकाले वृषभः श्रेष्ठस्त्वं भर्ता पालनसमर्थो ऽस्मान्भृत्यान्न शाधि न सिक्षयसि, अतस्तदर्थं तस्या उपमाया अर्थं राजप्रयासानर्थक्यरूपं वेत्तुमर्हसि ॥ २।१०५।८१० ॥
श्रेणयो नानाजातीयसंघाः अग्र्याः प्रधानाः ॥ २।१०५।११,१२ ॥
तस्य वचः साध्वित्यनुमन्यन्तेति योजना अन्वमन्यन्तेत्यर्थः ॥ २।१०५।१३ ॥
दुःखितं प्रेक्ष्य दुःखेनैवं वक्तीत्यालोच्य कृतात्मा शिक्षितबुद्धिः, आत्मवान्धीरः ॥ २।१०५।१४ ॥
आश्वासनप्रकारोनात्मन इति । आत्मनो जीवस्य कामकारः स्वेच्छया यत्किंचित्प्रवर्तनसामर्थ्यं न नास्ति, हि यतो ऽयं पुरुषो ऽनीश्वर ईस्वरवत्स्वातन्त्र्यरहितः,तस्मादेनमितस्चास्माद्देहाच्च लोकाच्चेतरतः परस्माद्देहाच्च लोकाच्च कृतान्तः कालो ऽन्तर्यामिरूपः कर्मानुरूपं कर्षति, एवं च मम वनवासे न राजा नापि कैकेयी कारणं किंतु देवादीनामदृष्टमित्यान्तरो भावः ॥ २।१०५।१५ ॥
इदानीं राजमरणशोकावकाशो ऽपि नास्तीत्याहसर्वे इति । निचयाः संग्रहा नाशान्ताः समुच्छ्रया विद्यादिकृतमौन्नत्यम्, तस्मान्नस्वरत्वेन निश्चिते कः शोक इति भावः ॥ २।१०५।१६ ॥
यथा फलानां पतनमशक्यपरिहारम् एवं मरणमपि तथा तस्मान्नृपस्य तस्य न शोच्यता ॥ २।१०५।१७ ॥
तदेव दृष्टान्तान्तरेणोपपादयतियथेति ॥ २।१०५।१८ ॥
अतीतरजन्यप्रतिनिवृत्तौ दृष्टान्तो यमुना यात्येव न प्रतिनिवर्तत इत्यर्थः । उतकार्णवमित्यत्रोदकपदमधिकम् ॥ २।१०५।१९ ॥
गच्छन्तीति शत्रन्तम् । अशंवो रविकिरणाः । ऽआशयोऽ इति पाठे जलाशय इत्यर्थः ॥ २।१०५।२० ॥
यदेवमतस्त्वमात्मानं प्रति अनुशोचमृत्युर्दुर्वार आयाति का मे गतिरिहामुत्रेति चिन्तय । अन्यं राजानं तदेव शोच्यत्वमाहआयुरिति । आयुस्तु यस्य, यस्य कस्यापि हीयत इत्यर्थः ॥ २।१०५।२१ ॥
तदेवाहसहेति । मृत्युः सह व्रजति सह निषीदति तिष्ठति सहैव दीर्घं विरजापर्यन्तं संलग्नमध्वानं गत्वा निवर्तते विरजापारं न गच्छतीत्यर्थः, एतेन लोकानां विरजापारप्राप्त्युपायः कर्तव्य इति व्यञ्जितम् ॥ २।१०५।२२ ॥
वलयो जराकृताः । किं हि कृत्वा किं बलं प्राप्य प्रभावयेत्प्रभुत्वं भावयेत्, यद्वा किं कृत्वा कमुपायं कृत्वा एतत्सर्वपरिहारे समर्थो भवेदित्यर्थः ॥ २।१०५।२३ ॥
आयुःक्षयकारकत्वेनानिष्टसाधनरव्युदयादाविष्टसाधनत्वबुद्ध्यातिमूढा मनुष्या इत्याहनन्दन्तीति ॥ २।१०५।२४ ॥
नवं नवमिवेतः प्रागप्राप्तमव । ऋतुमुखमृतुप्रारम्भः, परिवर्तः पुनः पुनः प्राप्तिः, तं दृष्ट्वा हष्यन्ति न जानन्ति तत्परिवर्तनेन प्राणिनां नाश इतीत्यन्वयः । ऽआत्ममुखम्ऽ इति पाठे स्वस्वाभिमुखमृतनां परिवर्तं दृष्ट्वा हष्यन्तीत्यर्थः ॥ २।१०५।२५ ॥
काष्ठं काष्ठं पोतद्वयम् ॥ २।१०५।२६ ॥
विनाभवः विप्रयोग इति यावत् ॥ २।१०५।२७ ॥
अत्र संसारे कश्चिदपि प्राणी यथाभावं यथाप्राप्तं स्वभावं मृतिजनिलक्षणं न समतिवर्तते न लङ्घयति, तेन हेतुना प्रेतस्य संबन्धसामान्ये षष्ठी । प्रेतमनुशोचतो ऽस्य तस्मिन्स्वीयप्रेतभावनिवर्तने सामर्थ्यं नास्ति ॥ २।१०५।२८ ॥
पूर्वगतिसमानगतित्वे दृष्टान्तःयथेति । पुरतो गच्छन्तं सार्थं पथि स्थितः पथिकः ॥ २।१०५।२९ ॥
उक्ताया लोकस्थितेः प्रकृतोपयोगमाहएवमिदि । पैतृपितामहैः । वृद्धिरार्षी । पितृपैतामहैरित्यर्थः । ऽपितृपैतामहःऽ इति पाठे तत्संबन्धी मार्ग इत्यर्थः, ध्रुवो ऽवस्यं प्राप्यः । यस्य मार्गस्य व्यतिक्रमो लङ्घनं नास्ति तमापन्नः स्वयमपि तं प्राप्तः पित्रादीन्कथं शोचेत् ॥ २।१०५।३० ॥
स्रोतसो वा गङ्गादिप्रवाहस्येवानिवर्तिनः प्रत्यावृत्तिरहितस्य पतमानस्य गच्छतौ वयसः नाशं दृष्ट्वेति शेषः, आत्मा सुखे तत्साधने धर्मे नियोक्तव्यः । कुतः यतः प्रजाः सुखबाजः सुखसाधनाप्तिनिमित्तजन्मभाजः स्मृताः ॥ २।१०५।३१ ॥
यदेवमतःधर्मात्मेति । उपसंहरतिन स इति । सतां सत्कृतः सद्भिः पूज्यमानः ॥ २।१०५।३२ ॥
ब्रह्मलोकविहारिणीं तल्लोके विहाराहां दैवीमृद्धिं देवसंबन्धिनीं तपादिसमृद्धिम् ॥ २।१०५।३३ ॥
श्रुतवानधीतात्मविद्यः । ऽतद्विधो यद्विधश्चासिऽ इति पाठे श्रुतवान्बुद्धिमत्तरश्च यद्विधो ऽसि तद्विधो भवान्न शोचितुमर्हतीत्यर्थ इति तीर्थः । ब्रह्मलोकं प्राप्तस्यात्यन्तं शोको ऽनुचित इति भावः ॥ २।१०५।३४ ॥
बहुविधा दशरथमरणमद्विवासनादिविषयभेदेन बहुप्रकाराः । शोको मानसो विलापरुदिते तत्कार्ये ॥ २।१०५।३५ ॥
स्वस्थः शोकरहितः । मा शोकः त्वां परिभवत्विति शेषः । यात्वा गत्वा तां पुरीमयोध्यामावस
। कुत एवं नियोगस्तत्राहतथेति । वशिना सत्यवशवता सत्याधीनत्ववता ॥ २।१०५।३६ ॥
यत्र यस्मिन्कृत्ये तत्रैव प्रवृत्तः सन्निति शेषः ॥ २।१०५।३७ ॥
त्यागस्यान्याय्यत्वे हेतुःसदा मान्य इत्यादि ॥ २।१०५।३८ ॥
कर्मणा तदुचितव्यापारेण ॥ २।१०५।३९ ॥
नरेण ऽनृपेणऽ इति पाठः क्षत्रियेणेत्यर्थ इति कतकः । परलोकं जिगीषता धार्मिकत्वादिस्वभाववता भवितव्यम् ॥ २।१०५।४० ॥
नः पितुर्वृत्तं शुभं निशाम्य पर्यालोच्य तेन स उत्तमां गतिं गत इति ज्ञात्वा त्वं स्वभावेन धार्मिकत्वादिलक्षणेनोपलक्षितः आत्मानमात्मनः परलोकहितमनुतिष्ठ चिन्तयेत्यर्थः ॥ २।१०५।४१,४२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे पञ्चोत्तरशततमः सर्गः ॥ २।१०५ ॥