दशरथस्य दारानित्यन्वयः । तर्षितः साभिलाषः ॥ २।१०४।१ ॥
तीर्थमवतारमार्गम् ॥ २।१०४।२,३ ॥
ये ते प्रसिद्धा रामादयो निर्विषयीकृता राज्यान्निष्काशितास्तेषां वने वसताम् । प्राक्कलनम् बहुव्रीहीरयम् । प्रथमपरिग्रहवत् । तीर्थं पुण्यतीर्थम् । गङ्गायमुनापरपारभवमिदमेव । ऽप्राक्केवलम्ऽ इति पाठ आधुनिककल्पितः नापि तत्रार्थसामञ्जस्यमिति कतकः । ऽतत्रापिऽ पाठे प्राक्परिगृहीमिति शेषः, प्राक्परिगृहीतं तीर्थं जलानयनादिव्यवहारोपयोगी मार्गः । इदमेवेति केवलं निश्चितमित्यर्थो वक्तुं शक्यः । ऽकेवलं निश्चिते क्लीबं वाच्यवच्चैककृत्स्नयोःऽ इति ॥ २।१०४।४,५ ॥
जघन्यं हीनमपि जलाहरणादिकं ते पुत्रः कृतवानथाप्यसौ न गर्हितः । कुतस्तत्राहगुणैर्ज्यैष्ठत्वसौभ्रात्रधार्मिकत्वादिभिर्विशिष्टस्य भ्रातुर्यदर्थरहितं प्रयोजनरहितं तदेव गर्हितं भवति । तीर्थस्तुभ्रातुर्यदर्थसहितं प्रयोजनसहितम्, तद्गुणैः प्रयोजनैर्विहितं कल्पितं तत्सर्वगुणफलकमित्यर्थसहितम् । ऽविहितम्ऽ इति पाठं चाह ॥ २।१०४।६ ॥
क्लेशानामनुभूयमानानां तथा यथानुभवमुचितो नेत्यतथोचितस्ते ऽयं पुत्रो नीचार्हो यो ऽनर्थो दुःखजनकः समाचारो ऽनुष्ठानं यस्मिंस्तत्तथा सज्जं प्रस्तुतं यथोक्तं कर्म मुञ्चतु । रामस्य प्रत्यावर्तिष्यमाणत्वादति भावः । एकः शत्रुघ्स्तु भरतसङ्गादेतत्कर्म न करोत्येवायमपि मुञ्चत्विति अपेरर्थः ॥ २।१०४।७ ॥
न्यस्तं रामेण ॥ २।१०४।८ ॥
स्त्रियः प्रतीति शेषः ॥ २।१०४।९,१० ॥
औपयिकमुचितं न भवतीति मन्ये । तत्र हेतुःभुक्तभोगस्येति भुक्ता भोगा येन तस्य ॥ २।१०४।११ ॥
चतुरन्तां चतुःसमुद्रावसानाम् ॥ २।१०४।१२ ॥
क्षोदं पिष्टम् ॥ २।१०४।१३ ॥
नस्फोटति न स्फुटति न विशीर्णं भवति ॥ २।१०४।१४ ॥
क्षुतिरित्याद्याश्वासनप्रकारः । सत्या सत्यार्था लौकिकी लोकविदिता लोकप्रसिद्धा ॥ २।१०४।१५ ॥
एवं श्रुतिस्त्वित्यादिप्रकारेण ॥ २।१०४।१६१८ ॥
पृष्ठात्पृष्ठदेशात् ऽपृष्ठं तु चरमं तनोःऽ ॥ २।१०४।१९ ॥
आसक्तम् भावे निष्ठा । स्नेहासङ्गोपेतम् ॥ २।१०४।२० ॥
ववृतिरे वर्तितवत्यः ॥ २।१०४।२१ ॥
उपसंगृह्य स्पृष्ट्वा ॥ २।१०४।२२ ॥
वनेत्यादि । वनवासकृतदीनत्वावतीमिति यावत् ॥ २।१०४।२३,२४ ॥
परिकृष्टं परिमृदितमुत्पलं रक्तोत्पलं ध्वस्तमभिभूतम् ॥ २।१०४।२५ ॥
ते मुखं प्रेक्ष्य स्थितामिति शेषः । मनसि संक्रान्तो व्यसनारणिसंभवः शोको ऽग्निराश्रयं गृहमिव काष्ठानीव वा मां दहति । ऽआशयम्ऽ इति पाठे ऽप्याशयो गृहमेव आशय्यते ऽत्रेति व्युत्पत्तेः ॥ २।१०४।२६२८ ॥
तत इति । वसिष्ठरामोपवेशनानन्तरं जघन्यं जघनभागं पृष्ठभागमाश्रितः सन्नुपोपविष्टो बभूवेत्यन्वयः ॥ २।१०४।२९ ॥
उपोपविष्ट इत्यादि जनाभिप्रायानुभाषणम् ॥ २।१०४।३० ॥
किमिति । किं साधु वक्ष्यति वदिष्यतीति योजना ॥ २।१०४।३१ ॥
त्रयो ऽग्रयः शत्रुघ्नस्याप्राधान्येन परिहरणात् ॥ २।१०४।३२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे चतुरुत्तरशततमः सर्गः ॥ २।१०४ ॥