करुणां शोकावहाम् ॥ २।१०३।१ ॥
तं भरतोक्तं वाग्वज्रं रण इन्द्रोत्सृष्टवज्रतुल्यं श्रुत्वा ॥ २।१०३।२ ॥
बाहू प्रगृह्यातिशिथिलौ कृत्वोद्धृत्य वा निष्पीड्य वा भूवि पपात । भरतादिदर्शनेन हर्षात्पुष्पिताह्गद्रुमसादृश्यम् ॥ २।१०३।३,४ ॥
सिषिचुर्मोहशान्तये सर्वगात्राणि जलेन सिषिचुः ॥ २।१०३।५ ॥
कृपणं भाषितुम् लोकानुसारेण विलपितुमित्यर्थः ॥ २।१०३।६,७ ॥
दिष्टां गतिं दैवकल्पितां गतिं स्वसुकृतातिसृष्टां वा ॥ २।१०३।८ ॥
दुर्जातेन वृथाजन्मना ॥ २।१०३।९ ॥
सत्कृतः संस्कारकर्मणा पूजितः ॥ २।१०३।१० ॥
निष्प्रधानां प्रधानहीनामत एवानेकाग्रां बहुनायकाम् । अत्रोभयत्र हेतुः नरेन्द्रेण विना कृतामिति ॥ २।१०३।११ ॥
अनुशासिष्यति हिताहितविषयप्रवृत्तिनिवृत्ती कारयिष्यति ॥ २।१०३।१२ ॥
सुवृत्तं शोभननियोगाचरणम् । कुतः पुरुषात् ॥ २।१०३।१३ ॥
अभ्येत्याभिमुखो भूत्वा ॥ २।१०३।१४ ॥
स्वर्गतिरूपं दुःखम् ॥ २।१०३।१५,१६ ॥
क्रियतामित्यब्रुवन् ॥ २।१०३।१७१९ ॥
इङ्गुदिपिण्याकं तपस्विबोज्यतापसतरुफलपिण्याकम् अनिःसारिततैलं पिष्ट्वा चूर्णीकृतमिङ्गुदीबीजमत्र पिण्याकत्वेनोपचर्यते निःसारितसारस्य तस्य निषिद्धत्वात् । उत्तरमुत्तमं नवीनं चीरम् ॥ २।१०३।२० ॥
अभितः पश्चात् । एषा गतिः सुदारुणा शोकादिकालिकी । तदुक्तम्ऽसर्वे कनिष्ठप्रथमा इतरे तु स्त्रियो ऽग्रतःऽ इत्याशौचम्नानप्रकरणे ॥ २।१०३।२१ ॥
नित्यानुगः कुलक्रमादागतानुचरः । विदितात्मा ज्ञातात्मस्वरूपः । तेषां कुमाराणाम् ॥ २।१०३।२२ ॥
अवतारयदवातारयत् ॥ २।१०३।२३ ॥
ते सीतादयः ॥ २।१०३।२४ ॥
अकर्दमं तीर्थमवतारमार्गम् । ततं एतद्भवत्वित्युच्चार्य सिषिचुर्ददुः । ततेत्येतत्पितुर्नामगोत्ररूपोपलक्षणं बोध्यम् । संबोधने प्लुतकरणादसंधिः । केचित्तुततेत्युक्तौ नामाद्युच्चारणस्य न प्रयोजनस्मादेवाचरादित्याहुः ॥ २।१०३।२५ ॥
एतदेव विवृणोतिप्रगृह्येति । याम्यां दक्षिणाम् । यत्त्वाधुनिकनिबन्धेषु सुमन्तुनाम्ना लिखितं वचनं क्षत्रियाणामुदङ्मुखजलदानबोधकं तन्निर्मूलम् एतदाचारविरोधात् निकृष्टक्षत्रियपरं वा । रुदन्नित्यनेन पित्रादिविषये रोदने न निषेध इति सूचितम् ॥ २।१०३।२६,२७ ॥
प्रत्युत्तीर्य तीरमागत्य निर्वापं चकार पिण्डं ददौ । न च यदाकदाचित्पितुर्मरणश्रवणे पुत्रस्य दशाहाशौचतायाः स्मृतिषूक्तत्वेन कथं कृतक्रियस्य पितुः प्रथमदिन एव पिण्डदानमिति वाच्यम् तस्याः स्मृतेः क्षत्रियेतरविषयत्वात्कलिविषयत्वाद्वा न दोषः ॥ २।१०३।२८ ॥
ऐङ्गुदमिङ्गुदीबीजसंबन्धि । बदरैर्बदरफलैः ॥ २।१०३।२९ ॥
ननु राज्ञे कथं पिण्याकपिण्डदानं तत्राहयदशना इति । यदशना इत्यस्य तदशना अस्मत्पितर इति शेषः । तत्र सामान्येनार्थान्तरन्यासमाहयदन्न इति ॥ २।१०३।३० ॥
प्रत्युत्तीर्य परावृत्य ॥ २।१०३।३१,३२ ॥
प्रतिशब्दः प्रतिध्वनिः । ऽप्रतिश्रुत्वाऽ इति पाठे ऽप्ययमेवार्थः ॥ २।१०३।३३ ॥
त्रस्ताः का विपत्प्रादुरभूदिति भीताः ॥ २।१०३।३४ ॥
ततो निश्चित्याब्रुवन्निति ॥ २।१०३।३५ ॥
स्वनमभिमुखाः स्वनोत्पत्तिदिशमभिमुखाः यथास्थानं यथोचितं प्रधावितास्त्वरिता गच्छन्ति स्म ॥ २।१०३।३६ ॥
कैस्तत्राहहयैरित्यादि । सुकुमारा इति पूर्वान्वयि । अन्ये तेभ्यो भिन्नाः ॥ २।१०३।३७ ॥
आश्रममिति पदम् ॥ २।१०३।३८ ॥
खुरसमाकुलयानाः पश्वादयः, नेमिसमाकुलानि रथशकटादीनि ॥ २।१०३।३९ ॥
समाहता अभिहता आक्रान्तेति यावत् ॥ २।१०३।४० ॥
तेन शब्देन, गन्धेनावासयन्तो मदगन्धेन दिङ्मुखानि सुरभीकुर्वन्तः ॥ २।१०३।४१ ॥
गोकर्णसृमरौ मृगविशेषौ ॥ २।१०३।४२ ॥
रथाह्वश्चक्रवाकः, नत्यूहो जलकुक्कुटः, प्लवा बकविशेषाः ॥ २।१०३।४३४६ ॥
पर्यष्वजत परिष्वङ्गयोय्यानिति शेषः ॥ २।१०३।४७ ॥
तदेवाहस तत्रेति ॥ २।१०३।४८ ॥
अनुविनादयन्प्रतिध्वनयन् ॥ २।१०३।४९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मकीय आदिकाव्ये ऽयोध्याकाण्डे त्र्युत्तरशततमः सर्गः ॥ २।१०३ ॥