अथ भरतः पितृवृत्तान्तप्रश्नोत्तरमुक्त्वा कच्चित्प्रश्नोत्तरमाहरामस्येति । धर्माद्राज्यायोग्यत्वेन राजधर्माद्राज्याद्विहीनस्य त्वत्पृष्टराजधर्मो मे क्वोपयुक्तः अनुपनीतयागवत् अतो ऽनवसरदुःस्थो मयि कच्चिदादिप्रश्न इति भावः ॥ २।१०२।१ ॥
कुतस्ते उक्तवर्गाभावो ऽत आहशाश्वत इति । शाश्वतः कुलक्रमागतः अस्मास्वस्मत्पूर्वेषु सदा सर्वदा । ऽयथाऽ इति पाठे यथाशास्त्रं स्थितः प्रतिष्ठितः । अयं कस्तत्राहज्येष्ठे इति । एवं च कनीयस्त्वान्मे न राजत्वमिति भावः ॥ २।१०२।२ ॥
यदेवमतःस इति । गच्छागच्छ, भवायाभ्युदयाय ॥ २।१०२।३ ॥
ननु देवत्वप्रापकं तपो विहाय किं मे राज्येन तत्राहराजानमिति । सर्वे जना यद्यपि राजानं मानुषं प्राहुस्तथापि मम स देवत्वे संमतः । तत्र हेतुमाहयस्येति । अमानुषं मनुष्ये ऽसंभावितमित्यर्थः ॥ २।१०२।४ ॥
उक्तमपि राजमरणं रामेण विषयान्तरोत्तरदानादश्रुतमिव मत्वा पुनस्तदेवाहकेकयस्थे इति । सतां मतः सद्भिः पूज्यमानः ॥ २।१०२।५,६ ॥
कृतोदकाविति । कृतसपिण्डीकरणान्तसर्वकृत्यौ ॥ २।१०२।७ ॥
तर्हि किं कृतकरणेनेत्यत आगप्रियेणेति । भवान्प्रियः ज्येष्ठत्वादिति भावः ॥ २।१०२।८ ॥
प्रकारान्तरेणापि प्रियत्वमेवोपपादयतित्वामेवेति । तव शोकरुग्ण इत्यनेन त्वच्छोक एव तदवसादहेतुरिति दर्शितम् ॥ २।१०२।९ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे द्वयुत्तरशततमः सर्गः ॥ २।१०२ ॥