एवं कच्चित्प्रश्नानन्तरं स्वस्य राजत्वाभावं सूचयितुं तदुत्तरमप्रयच्छन्तं भरतं प्रति रामेणागमनप्रयोजनप्रश्नःतं त्विति । समाज्ञाय कुशलप्रश्नव्याजेन सर्वधर्माञ्ज्ञापयित्वा, यद्वा प्राप्तराज्यपरित्यागेन जटादिधारणेन गुरौ स्वस्मिन्भक्तियुक्तं ज्ञात्वा ॥ २।१०१।१ ॥
यस्मात्त्वमिमं देशं चीरजटाजिनी भूत्वा ऽ ऽगतो ऽसि तस्मादेवंरूपेणागमनं किंकारणकमिति त्वया प्रस्पष्टं व्याहृतं श्रोतुमहमिच्छेयम् ॥ २।१०१।२ ॥
एतस्यैव श्लोकस्य व्याख्यानम्यदिति ॥ २।१०१।३ ॥
प्रगृह्य बलवत् यथा तथा शोक निगृह्येत्यर्थः ॥ २।१०१।४ ॥
पूर्वपृष्टमेवार्थं क्व नु ते ऽभित्पितेत्येवंरूपं भङ्गयन्तरेण पुनः पृष्टं ज्ञात्वा तदुत्तरमाहआर्येति । परित्यज्य अस्मान्सर्वानिमं च लोकमिति शेषः । ऽआर्यं परित्यज्यऽ इति पाठे विवास्येत्यर्थः । सुदुष्करं कर्म ज्येष्ठार्हं राज्यं कनिष्ठसात्कृत्वा ॥ २।१०१।५ ॥
मम मात्रा कैकेय्या नियुक्त इति पूर्वश्लोकान्वयि सा चकारेत्यन्वयः ऽसुमहत्ऽ इति पाठे सेत्यध्याहारः ॥ २।१०१।६,७ ॥
एवं पितृमरणे श्रुते तदुचितकृत्ये कृते ततः परं यद्वक्त्व्यं तत्संक्षेपेणाधुनैव ब्रूते भरतःतस्य म इति । कैकेयीपुत्रत्वात्प्राप्तपवादस्य । राज्येन राज्यनिमित्तम् ॥ २।१०१।८ ॥
यस्मान्मातरो वयं च सर्वे त्वत्प्रसादनार्थमागताः ॥ २।१०१।९ ॥
यतश्च त्वमानुपूर्व्या ज्येष्ठत्वलक्षणया युक्तो यतश्चात्मनि त्वयि अभिषेचनं युक्तं तस्माद्धर्मेण राज्यं प्राप्नुहि ॥ २।१०१।१० ॥
रजनी यथा तादृशी भूमिः शशिनेव त्वया युता ऽविधवा भवत्वित्यन्वयः । पतिनेत्यार्षम् । ऽविमलेनेहऽ इति पाठान्तरम् ॥ २।१०१।११,१२ ॥
शाश्वतं परंपराप्राप्तं सचिवमण्डलं तत्प्रार्थनं पूर्वं सदा पूजितं सफलं कृतं तदिदानीमतिक्रमितुं नार्हसि ॥ २।१०१।१३,१४ ॥
मत्तमथाप्यकस्मात्प्राप्तदुःखेन निःश्वसन्तं मातङ्गमिव स्थितं भरतमित्यन्वयः ॥ २।१०१।१५ ॥
पापं पित्राज्ञाभङ्गरूपम् ॥ २।१०१।१६ ॥
बाल्यादज्ञानात् ॥ २।१०१।१७ ॥
कथं कैकेयीगर्हणमज्ञानमूलं तत्राहकामकार इति । स्वच्छन्दाचरणमित्यर्थः, स्वेच्छया नियोजनमिति यावत् । गुरुणां पित्रादीनाम् उपपन्नेषु संमतेषु दारेषु पुत्रेषु च कामकारो विधीयत इति संबन्धः ॥ २।१०१।१८ ॥
ततः किमत आहवयमिति । भार्याः पुत्राः शिष्याश्च लोके साधुभिर्याथा समाख्याता इच्छाविनियोगार्हतया तथास्य राज्ञो वयं सर्वे इति त्वमपि ज्ञातुमर्हसि ॥ २।१०१।१९ ॥
प्रकृते किं तत्राहवने इत्यादि ॥ २।१०१।२० ॥
प्रकृतमम्बागर्हाभावमुपसंहरतियावदिति । तावत्तावत्परिमाणकमित्यर्थः, अतः कैकेय्या अप्यस्मन्नियोजने तथैवाधिकार इति भावः ॥ २।१०१।२१ ॥
समाचरे समाचरिष्यामि ॥ २।१०१।२२ ॥
त्वया राज्यं प्राप्तव्यम् मया दण्डके वस्तव्यम् ॥ २।१०१।२३ ॥
एवं विभागं लोकसंनिधौ मन्त्रिपुरोहितादिजनसंनिधावुक्त्वा तानेवं विभागं कुरुतेति व्यादिश्य च आज्ञाप्य च दिवं गत इत्यन्वयः ॥ २।१०१।२४ ॥
यथाभागं पितृकल्पितचतुर्दसवर्षपर्यन्तम् अनेन तदनन्तरमहं भोक्ष्यामीति सूचितम् । मात्रापि
चतुर्दशवर्षपर्यन्तं वनवास एव वृतः न तु सर्वथा मे राज्यत्यागः पित्रापि तावदेवानुमतमिति भावः ॥ २।१०१।२५ ॥
पिता महात्मा ब्रह्मणा तुल्यः । अव्ययं सर्वलोकेश्वरत्वं ब्रह्मत्वं पित्रननुमतमिति शेषः । नहि तमित्यन्वयः । ननु पितृमरणश्रवणोत्तरं शोकमुल्लङ्घ्याभिषेकप्रत्याखानमेव कुत इति चेच्छृणु । भरतस्याभिषेककरणप्रत्याशावारणाय कैकेय्या लोकानां चान्यथासंभावनावारणाय शोककाले ऽपि धैर्यमवलम्ब्य तत्करणं शोककाले ऽप्येवं धैर्यं कर्तव्यमिति लोकोपदेशायेति मम प्रतिभाति । तीर्थस्तुपूर्वं न स्वर्गं गतो मृतकल्पो विधवास्तत्कल्पा इत्यर्थं मत्वा मरणनिश्चयाभावेन राज्यस्वीकारायैव राजानं मृतकल्पं वदतीति बुद्ध्या शोका करणपूर्वकमभिषेकप्रत्याख्यानं कृतवान् । स्ववाक्ये दिवं गत इत्यत्राप्येवमेवेत्याह । कतकस्तुगतः स्वर्गमिति भरतेनोक्ते ऽपि पितृमरणोचितसर्वकार्यकरणे कृते भरतस्तस्य मे इत्याद्युक्तवान् । कविस्तु संक्षेपेणादावुक्त्वाग्रे विस्तरेण वदतीति प्रायः कवेः स्वबाव इत्याह ॥ २।१०१।२६ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे एकाधिकशततमः सर्गः ॥ २।१०१ ॥