१०० रामस्य कुशलप्रश्नः

जटिलमिति । अद्यप्रभृति भूमौ तु शयिष्ये, जटाचीराणि धारयन् इत्यष्टाशीतितमे भरतोक्तेर्भरतस्य जटिलत्वम् । यद्यपि नवतितमे सर्गे वसानो वाससीक्षौमे इति भरद्वाजदर्शनवेलायां श्रूयते, तधापि गुहग्रामे प्रतिज्ञातस्य भरद्वाजाश्रमनिर्गमनानन्तरं धारणमिति न विरोधः । युगान्ते भास्करं यथेति भुवि पतितमिति शेषः ॥ २।१००।१,२ ॥

ऽपर्यपृच्छत्समाहितःऽ इति पाठे समाहितः कुशलप्रश्नद्वारा धर्मबोधने सावधानचित्तः ॥ २।१००।३ ॥

हे तात ते पिता क्वाभूत् इह परत्र वेत्यर्थः, कुत एवं संशयस्तत्राह–न हीति । जीवतस्तस्य सेवां हित्वेति शेषः, नार्हसि भदसंनिधौ तवैव पितृशुश्रूषाया अवश्यकर्तव्यत्वादिति भावः ॥ २।१००।४ ॥

दूरान्मातामहदेशाच्चिरस्यागतं भरतं पश्यामि । बतेति हर्षे । दुष्प्रतीकमिति भरतविशेषणं वनविषेषणं च । आद्ये कार्श्यवैवर्ण्यादिना दुर्ज्ञेयताकारम्, वनमपि भीषणतया । तथा ईदृशं वनं किमागतः किमागमनप्रयोजनमीदृशारण्ये इत्यर्थः, अरण्यं गजाद्युपभोग्यम् तद्वर्ति वनमाम्नादियुतं मनुष्यभोग्यम् ॥ २।१००।५ ॥

अथ भरतागमनं राजाज्ञया वा स्याद्राजमरणे दुःखाद्वा । तत्राद्यमुपन्यस्यतिकच्चिन्त्विति । धरते प्राणान्धारयति अथवा लोकान्तरं गतः यत्त्वमिहागत इत्यनुकर्षः ॥ २।१००।६ ॥

अन्त्यमेव पक्षमवलम्ब्याहन ते राज्यं भ्रष्टमिति । मूलप्रभोरत्ययात्प्राप्तभ्रंशकम् अनिश्चयाल्लोकप्रतारणाय वा । पुनर्जीवनपक्षमवलम्ब्याहकच्चिच्छूश्रूषस इति ॥

२।१००।७ ॥

धर्मनिश्चितो धर्मे निश्चितं निश्चये यस्य सः ॥ २।१००।८ ॥

उपाध्यायो वसिष्ठः ॥ २।१००।९ ॥

नन्दति मद्वनवासत्वद्राज्यलाभाभ्यामिति व्यङ्ग्यम् ॥ २।१००।१० ॥

कुलपुत्रो नहाकुलप्रसूतस्ते पुरोहितस्तावकसकलहितकृत्यानुष्ठाता । एतेन वसिष्ठपुत्रः कश्चिदुक्तः ॥ २।१००।११ ॥

विधिज्ञः सकलहोमविधिज्ञः युक्तो नियुक्तः, काले होमकाले वेदयते हुतं होष्यमाणं चाग्रिम् ॥ २।१००।१२ ॥

वैद्या विद्यासु सर्वासु निपुणास्तान्ब्राह्मणानभिमन्यसे बहु मन्यसे, ब्राह्मणसामान्यविषयः प्रस्नो ऽग्रे भविष्यति, यद्वा वैद्यांस्चिकित्साप्रववीणान्ब्राह्मणानित्यर्थः । “अपूतो ह्येषो मेध्यो यो ऽभिषज्यति” इति श्रुत्युक्तनिन्दा तु शास्त्रानभिज्ञचिकित्साप्रवृत्तपरा । शास्त्राभिज्ञस्य भैषज्यं महते पुण्याय । तज्जीविकापरो वा निषेध इति दिक् ॥ २।१००।१३ ॥

इषुरमन्त्रो बाणप्रयोगः, अस्त्रं समन्त्रः सः । वरशब्द उभयसंबद्धः । अर्थशास्त्रं राजनीतिशास्त्रं तत्र विशारदं पण्डितं सुधन्वानं तन्नामानमुपाध्यायं धनुर्वेदाचार्यम् ॥ २।१००।१४,१५ ॥

मन्त्रिधुरैर्मन्त्रिश्रेष्ठैः शास्त्रकोविदैर्नीतिशास्त्रज्ञैः सुसंवृतः सुतरां गुप्तः ॥ २।१००।१६ ॥

अर्थनैपुणमर्थप्राप्त्युपायम् ॥ २।१००।१७ ॥

नैकः एकेन मन्त्रे क्रियमाणे स्वकार्याभिनेवेशेन गुणागुणयोर्याथार्थ्यग्रहणं न सिध्यति, बहुभिर्मन्त्रणे प्रथममैकमत्यमेव न घटेत, मन्त्रभेदश्च भवेदिति भावः । राष्ट्रं न पिरधावति लोकैर्न ज्ञायत इत्यर्थः ॥ २।१००।१८ ॥

लघुमूलमल्पयत्नसाध्यम्, महोदयं महाफलम्, न दीर्घयसि न विलम्बयसि ॥ २।१००।१९ ॥

पार्थिवाः सामन्तास्ते मन्त्रितानि सर्वकार्याणि सुकृतानि निष्पन्नान्येव कृतरूपाणि कृतकल्पानि वा विदन्ति, न कर्तव्यानि भावित्वेनेत्यर्थः ॥ २।१००।२० ॥

ये त्वदीया मन्त्रास्त्व ऽयामात्यैश्चापरिकीर्तिता अपि युक्त्यार्थापत्त्या तर्कैस्तत्साध्यैरनुमानैर्वा यद्वा तर्कास्तत्कारणानुमापकाः, युक्तयः साक्षात्तदनुमापिकाः परैर्न बुध्यन्ते किल । किं च परकृतं मन्त्रितं त्वया त्वदमात्यैर्वा बुध्यते किल ॥ २।१००।२१ ॥

सहस्रैः त्यक्तैरपीति शेषः । पण्डितपरिग्रहे हेतुमाहपण्डित इति । अर्थकृच्छ्रेष्वर्थसंकटेषु निःश्रेयसं कुर्मात् । अव्यभिचरितनिस्तारोपायबोधनेनेति शेषः ॥

२।१००।२२ ॥

सहायता सहायकार्यक्षमता ॥ २।१००।२३ ॥

विचक्षणो ऽभ्यस्तनीतिशास्त्रः ॥ २।१००।२४ ॥

मुख्या महान्तः ॥ २।१००।२५ ॥

उपधा उत्कोचस्तमतीतांस्तदग्राहिणः, यद्वोपाधिप्रयुक्तसंश्रयरहितान् अत एव पितृपैतामहान् शुचीन्बाह्यान्तरेन्द्रियशुद्धान् ॥ २।१००।२६ ॥

उद्वेजिताः प्रजा मन्त्रिणश्च राष्ट्रे तव त्वां नावजानन्ति नावमन्यन्ते ॥ २।१००।२७ ॥

याजकाः किंचित्पापनुसंधानेन पतितमिव त्वामयाज्यो ऽयमिति मत्वा नावजानन्ति किल । तत्र दृष्टान्तः–उग्रेत्यादि । स्त्रियः कुलिस्त्रियः उग्राख्यहीनजातीयस्त्रीप्रतिग्रहीतारम् । तां च कामयानं कामयमानं तस्यामत्यन्तासक्तं यथावजनन्तीत्यर्थ इति कतकः । ऽउग्रप्रतिऽ इति पाठः उग्रेण कर्मणा बछात्कारादिना प्रतिग्रहीतारं कामयानं कामुकं स्त्रिय इव याजकाः पतितमिव च नावजानन्ति प्रजा इति शेषः । प्रजातिक्रमणमुग्रकरग्रहणं च त्वयि नास्ति कच्चिदिति भाव इति तीर्थः । परे तुउग्रप्रतिग्रहीतारम् उग्रः शिवस्तत्प्रतिग्रहीतारमल्पपुंस्त्वम्, तत्प्रतिग्रहीतुरीदृशपण्ढतायाः कर्मविषयकशास्त्रे उक्तेरित्याहुः ॥ २।१००।२८ ॥

उपायकुशलं सामाद्युपायचतुरम् । वैद्यं विद्याविदं राजनीतिशास्त्रज्ञं भृत्यं संदूषणे रतं येन केनापि हेतुना ऽ ऽप्तभृत्यविघटने रतं शूरं मरणनिर्भयं ऐश्वर्यकामं राज्याभिलाषिणं यो न हन्ति स हन्यते वध्यते इत्यर्थः इति तीर्थः । उपायकुशलं राज्ञः सकाशादर्थग्रहणार्थं व्याधिवर्धनोपायकुशलं वैद्यं भिषजं स्वामिसंदूषणे रतं भृत्यं सेवकं च राजानमपच्छिद्य तदैश्वर्यकामं शूरं सेवकरूपं प्रभुं च यो न हन्ति स राजा तैरेव भिषजादिभिर्हन्यते इत्यर्थं कतक आह ॥ २।१००।२९ ॥

शूराः परयोधाभिभवनसमर्थाः, वृतिमान्विपदि प्रशस्तधैर्यः, दक्षश्चतुरः ॥ २।१००।३० ॥

मुख्या गणमुख्याः, दृष्टापदाना दृष्टं द्वित्रिवारानुभूतमपदानं पूर्ववृत्तं पौरुषं येषां ते विक्रान्ताः शूराः ॥ २।१००।३१ ॥

भक्तं दैनंदिनदेयान्नम्, वेतनं प्रतिमासदेयम् ॥ २।१००।३२ ॥

भृता भृतिजीविनो भृत्याः ॥ २।१००।३३ ॥

कुलपुत्रा ज्ञातयः । प्रधानतः प्रधानाः ॥ २।१००।३४ ॥

प्रतिभानवान्प्रत्युत्पन्नमतिः यथोक्तवादी यथोक्तसंदेशप्रतिसंदेशवक्ता पण्डितः परिच्छेत्ता ऽदूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टाज्ञं शुचिं दक्षं कुलोद्भवम् ॥ इति मनुः ॥ २।१००।३५ ॥

कच्चिदष्टादशेति । तानि चमन्त्री, पुरोहितः, युवरोजा, सेनापतिः, दौवारिकः, अन्तःपुराधिकृतः, बन्धनागाराधिकृतः, धनाध्यक्षः, राजाज्ञया आज्ञाप्येषु वक्ता, प्राड्विवाकसंज्ञो

व्यवहारप्रष्टा, धर्मासनाधिकृतः, व्यवहारनिर्णेता सभ्याख्यः, सेनाया जीवितभृतिदानाध्यक्षः, कर्मान्ते वेतनग्राहिणः, नगराध्यक्षः, राष्ट्रन्तःपालः अयमेवाटविकः, दृष्टानां दण्डनाधिकारी, जलगिरिवनस्थलदुर्गपालाः, एतान्येव स्वपक्षे मन्त्रिपुरोहितयुवराजान्हित्वा च पञ्चदश । एकैकस्मिन्विषये त्रिभिस्त्रिभिरज्ञातैः परस्परमितरैश्चाभिज्ञातैरेतान्यष्टादश तीर्थानि वेत्सि कच्चित् । ऽ योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि ॥ ऽ इति । स्वदेशेऽप्येतैर्न्यायतो व्यवहारः प्रवर्त्यते न वेति विचारणीयं परदेशे चेति भावः ॥

२।१००।३६ ॥

व्यपास्तान्निष्कासितान् प्रतियातान्पुनरागतान् दुर्बलान्दुर्बलानपि अनवज्ञायेति दुर्बलो ऽयमहितः किमस्माकं करिष्यतीत्युपेक्षां न करोपि कच्चित् ॥ २।१००।३७ ॥

लोकायतिकांश्चार्वाकमतानुचारिणः प्रत्यक्षमात्रप्रमाणकान् अपरे लोकायतिकाः शुष्कतर्कवावदुकाः । ब्राह्मणत्वे ऽपि तदपरिग्रहे हेतुमाहअनर्थेति । परलोकतत्साधनाभावरूपानर्थप्रतिपादनकुशलाः अत एव बाला अज्ञाः वेदज्ञसंनिधाविति शेषः, पण्डितमानिनः स्वयूत्येष्वेव केवलमात्मनः पण्डितान्मन्यन्ते नान्यत्र ॥ २।१००।३८ ॥

द्वितीयलोकायतानां त्यागे हेतुमाहधर्मेत्यादि । मुख्येषु मुख्यप्रमाणभूतेषु । आन्वीक्षिकी तर्कविद्या । शुष्कतर्कविद्याजनितां बुद्धिमवलम्ब्य निरर्थं निष्प्रयोजनं वदन्ति । “यथात्मनो ज्ञानाश्रयत्वमीशो जगन्निमित्तकारणं नित्यज्ञानादिगुणकश्च” इत्यादिश्रुतिविरुद्धवादाभिप्रायमिदम् ॥ २।१००।३९ ॥

सत्यनामामयोध्येत्यन्वर्थनामाम् ॥ २।१००।४० ॥

आर्यैरुक्तत्रैवर्णिकैः ॥ २।१००।४१ ॥

समुदितां सिद्धाम्, स्फीतां समृद्धाम् ॥ २।१००।४२ ॥

चैत्यशतैरश्वमेधान्तयागानेकचयनप्रदेशैः ऽकच्चिच्चेत्यशतैःऽ इति पाठः । सुनिविष्टैः सुप्रतिष्ठितैर्जनैराकुलो निबिडः ॥ २।१००।४३ ॥

ऽप्रभिन्ननरनारीकःऽ इति पाठे प्रभेदः संतोषः । सुकृष्टाः सीमास्तत्तत्क्षेत्रप्रान्तदेशाः पशवश्च यस्मिन्स तथा ॥ २।१००।४४ ॥

अदेवमातृक इति । नदीमातृक इत्यर्थः । ऽनद्यम्बुजीवनो देशो नदीमातृक उच्ते । वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृकः ॥ ऽ इति । खनिः स्वर्णरत्नाद्याकरः ईदृशो जनपदः सर्वैर्भयैः परित्यक्तः कच्चिदस्ति ॥

२।१००।४५ ॥

स च सुखं वसति कच्चिदित्यर्थः ॥ २।१००।४६ ॥

कृषिगोरक्ष्यजीविनो वैश्याः वार्ता ऽकृषिगोरक्ष्यवाणिज्यक्रेयं वार्तेत्युदाहृतम्ऽ तत्र सांप्रतं वर्तन्ते इति शेषः । लोको जीवलोकः कृष्यादौ स्थितः सुखमेधते कच्चित् ॥ २।१००।४७ ॥

गुप्तिपरीहारैः गुप्तिरिष्टप्रापणम्, परीहारो ऽनिष्टपरिहारः, तैः । तैषां कृष्यादिजीविनां भरणं कृतं कच्चिदिति तीर्थः । ऽगुप्तपरीहारैःऽ इति पाठः गुप्र्यर्थनियुक्तै राजमनुष्यैः क्रियमाणतस्कराद्यनर्थपरिहारैस्ते त्वया भरणं कृतं कच्चिदिति कतकः ॥ २।१००।४८ ॥

ताः स्त्रियः सुरक्षिताः, त्वयेत्यर्थः । न श्रद्दधास्यासामिति वचनादिकं वास्तवमिति शेषः, गुह्यमप्रकाश्यवृत्तान्तमिष्टेति मत्वा न भाषसे कच्चित् ॥ २।१००।४९ ॥

नागवनं गजोत्पत्तिस्थानभूतं वनम् । धेनुका धेनवः स्वार्थे कः । गणिकाः करिण्यः ऽवेश्याकरिण्योर्गणिकाऽ करिण्यादिसंपादनविषये तृप्तिं नाप्नोषि कच्चित् ॥ २।१००।५० ॥

भूषितम् सभायां स्थित्वात्मनामिति शेषः, तथा महापथे चात्मानं दर्शयसे ॥ २।१००।५१ ॥

कर्मान्ताः कर्मकरा अविशङ्कया निर्भयतया ते प्रत्यक्षान किल । वाथवा सर्वे ते उत्सृष्टाः परित्यक्तदर्शना न । अत्र कर्मकरविषये मध्यमे वनातिदर्शनादर्शनयोर्मध्यरीत्या करणमेव कारणमर्थप्राप्तिकारणम् ॥ २।१००।५२,५३ ॥

आयो धनागमः व्ययो भोगबलरक्षाद्यर्थं त्यागः, अपात्रेषु नटगायकादिषु ॥ २।१००।५४ ॥

अभ्यागतो ऽतिथिर्यः कच्चित् । व्ययः आयान्न्यून इति शेषः ॥ २।१००।५५ ॥

आर्यः साधुः शुद्धात्मापि सन्नपकर्मणास्तेयागम्यागमनादिदोषेण क्षारितो ऽभिशस्तः शास्त्रकुशलैर्धर्मशास्त्रकुशलैरदृष्ट एवानिर्णोतदोष एव लोभाद्धनलोभाच्छुचिरपि न बध्यते न दण्ड्यते कच्चित् ॥ २।१००।५६ ॥

गृहीतः पालकैर्धनस्वामिना वा सकारणो दृष्टस्चोरत्वेन ग्रहणकारणैर्युक्तो दृष्टः पृष्टः प्रश्नेनापि निश्चितचौर्यः धनलोभाच्चोरेणैवोत्कोचतया दीयमानधनलोभात्पालकैर्न मुच्यते कच्चित् ॥ २।१००।५७ ॥

आढ्यस्य धनिकस्य दुर्बलस्य दरिद्रस्य च व्यसने विवादरूपसंकटे राजकीयैकनिवर्त्यै प्राप्ते तवामात्या विरागाः सन्तो विगतधनरागाः सन्तो ऽर्थं तयोर्व्यवहारं पश्यन्ति कच्चित् ॥ २।१००।५८ ॥

मिथ्याभिशस्तानां राज्ञा विचार्यानिवर्तितमिथ्याभियोगानां प्रजानां यान्यश्रूणि पतन्ति । ऽपादन्यासानिऽ इति पाठान्तरम् । तदा जायन्ते इति शेषः, आर्षं नपुंसकत्वम् । तानि प्रीत्यर्थं राज्यभोगजप्रीतिमात्रार्थं राज्यमनुशासतो राज्ञः पुत्रादीन्घ्रन्ति ॥ २।१००।५९ ॥

वैद्या भिषजः । दानमभिमतवस्तुनः मनः स्नेहयुतम् वाक्सान्त्वयुता, एतैस्त्रिभिः प्रत्येकं बुभूषसे प्राप्तुमिच्छसि वशीकर्तुमिच्छसि संभावयितुमिच्छसि वा कच्चित् ॥ २।१००।६० ॥

चैत्यांश्चतुष्पथस्थमहावृक्षान्देवतावासभृतान् । सिद्धार्थान्विद्यावृत्ततपोभिः कृतार्थितजन्मनो ब्राह्मणान् ॥ २।१००।६१ ॥

कच्चिदर्थेनेति । धर्मार्जनयोग्यपूर्वाह्णे ऽर्थार्जनेन धर्मबाधः, तथा तद्योग्यमध्याह्ने धर्मार्जनेन तद्बाधः, प्रीतिलोभेन कामेन विषयसंतोषलोभरूपेण कामेन तदुभयकालसेवितेन तयोर्बाध इति तीर्थः । अर्थप्राप्तिरूपेण हेतुना धर्मं न बाधसे धर्मं हित्वार्थं न गृह्णासीत्यर्थः । धर्मेण धर्मप्राप्तिहेतुनार्थं कुटुम्बनिर्वाहापेक्षितमर्थं न बाधसे, उभयमपि विषयसंतोषलोभेन गणिकाद्यासक्त्या बाधसे नेत्यर्थ इति कतकः ॥ २।१००।६२ ॥

विभज्य सेवसे । काले पूर्वाह्णतदुत्तरकालसार्धयामोत्तररात्रिरूपेण क्रमेण धर्मार्थकामसेवाकाले ॥ २।१००।६३ ॥

शर्म सुखमाशंसते प्रार्थयते ॥ २।१००।६४ ॥

ऽप्रमादो ऽनवधानताऽ ऽदीर्घसूत्रश्चिरक्रियःऽ तद्भावः अवश्यकर्तव्यस्य विचारादिना कालविलम्बनम् । ज्ञानवतां विदुषामदर्शनम्, आलस्य नित्यकृत्यालस्यम्, पञ्चवृत्तितां चक्षुरादिपञ्चोन्द्रियपरवशताम् ॥ २।१००।६५ ॥

अर्थानां राज्यप्रयोजनानामेकेन चिन्तनम् । अनर्थज्ञैर्विपरीतदर्शिभिः । निश्चितानां मन्त्रिभिः सह कर्तव्यत्वेन निश्चितानामनारम्भम् ॥ २।१००।६६ ॥

मङ्गलस्यादौ प्रातःकाले ऽप्रयोगमननुष्ठानम् । सर्वतः प्रत्युत्थानं सर्वदिगवस्थितरिपूद्देशेन युगपद्दण्डयात्रामित्यर्थ इति तीर्थः । कंचन प्रत्युत्थानायोग्यं पुरुषमुद्दिश्यापि प्रभावमुक्त्वा चापल्यादासनाच्चलनमित्यर्थ इति कतकः ॥ २।१००।६७ ॥

दशवर्गादीन्बुद्धा यथावदनुमन्यसे । तेषु त्याज्यांशमुपादेयांशं च ज्ञात्वा ऽनुजानासीति

तृतीयस्थने संबन्धः । दशवर्गस्तुऽमृगयाक्षा दिवास्वापः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ऽ इति मनूक्तः । तौर्यत्रिकं नृत्यगीतवाद्यम्, वृथाट्या वृथापर्यटनम् । पञ्चवर्गस्तुऽ औदकं वार्वतं वार्क्षमैरिणं धान्वनं तथा । इति दुर्गं पञ्चविधं पञ्चवर्ग उदाहृतः ॥

ऽ ईरिणं सर्वसस्यशून्यप्रदेशः । तत्संबन्धिदुर्गमैरिणं तस्यापि परैर्गन्तुमशक्यत्वात् । धान्वनमुष्णकाले दुर्गं भवति । चतुर्वर्गस्तुऽसाम दानं च भेदश्च दण्डश्चेति चतुर्गुणःऽ । सपवर्गस्तुऽस्वाम्यमात्यश्च राष्ट्रं च दुर्गकोशौ बलं सुहृत् । परस्परोपकारीदं राज्यं सप्ताह्गमुच्यते ॥ ऽ अष्टवर्गस्तुऽपैशुन्यं साहसं द्रोहमीर्ष्यासूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः, इति । कृषिवाणिज्यदुर्गसेतुकुञ्जरबन्धनखन्याकरकरादानशून्यनिवेशनान्यष्टवर्ग इति तीर्थः । त्रिवर्गो धर्मार्थकामाः, उत्साहप्रभुमन्त्रशक्तित्रयं वा । तिस्रो विद्यास्त्रयी वार्ता दण्डनीतिः । त्रयी वेदत्रयी, वार्ता कृष्यादि, दण्डनीतिर्नीतिशास्त्रम् ॥

२।१००।६८ ॥

इन्दिरयाणां जयं जयोपायम् । स च योगाभ्यास एव । षाङ्गण्यं षङ्गणाः । ऽसंधिर्ना विग्रहो यानमासनं द्वैधमाश्रयःऽ इति । द्वैधं शत्रुवर्ग्याणामुपजापः । दैवमानुषम् दैवं मानुषं च व्यसनमित्यर्थः । ऽहुताशनो जनं व्याधिर्दुर्बिक्षो मरकस्तथाऽ इत्येतद्दैवम् । मरको मरणनिमित्तं मार्यादि मानुषं तुऽआयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च व्यसनं मानुषं त्विदम्ऽ इति । आयुक्तकाः अधिकारिणः । कृत्यं तुऽअलब्धवेतनो लुब्धो मानी चाप्यवमानितः । क्रुद्धश्च कोपितो ऽकस्मात्तथा भीतश्च भीषितः । भेद्याः शत्रौ तु चत्वारो नृपकृत्यमिदं स्मृतम्ऽ विंशतिवर्गस्तु असंधेयो ऽविग्राह्य एव । स चऽबालो वृद्धो दीर्गरोगी तथा ज्ञातिबहिष्कृतः । भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥ दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंयुतः ॥ अदेशस्थो बहुरिपुर्युक्तो कालेन यश्य वै । सत्यधर्मरतश्चैव विंशतिः पुरुषा अमी । एतैः संधिं न कुर्वीत विगृह्णीयात्तु केवलम् ॥ ऽ इति । कतकस्तुराज्यस्त्रीस्थानदेशानां ज्ञातिधनयोश्च यस्यापहारस्ते षट् मदमानदेशपीडावन्तस्त्रयः,ज्ञानार्थशक्तिधर्माणां येषां विघातस्ते चत्वारः, दैवचिन्तकः, रिपुमित्रावमन्तारौ, बन्धुविनाशनं यस्य, लोकानुग्रहरहितः,दूषितमण्डलः, एकार्थाभिनिवेशित्वं यस्य, एते विग्रह्य इत्याह । प्रकृतयश्च मण्डलं च प्रकृतिमण्डलम् । प्रकृतिवर्गस्तुऽअमात्यो रा,्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः।ऽ इति मण्डलं द्वादशराजमण्डलम् । तत्र विजिगीषुर्मध्ये । ऽअरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । मित्रारिमित्रमित्रं च विजिगीषोः पुरःसराः ॥

पार्ष्णिग्राहस्ततः

पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ ऽ आसारौ पार्ष्णिग्रागहासाराक्रन्दासाराविति । आसारपृष्ठभागस्थौ मध्यमोदासीनाविति ऽअरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्यस्तयोर्निग्रहे प्रभुः ॥

ऽ इति । ऽमण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥ ऽ इति ॥

२।१००।६९ ॥

यात्रा यानम् । तच्च पञ्चविधम्ऽविगृह्य संधाय तथा संभूयाथ प्रसङ्गतः । उपेक्ष्य चेति निपुणैर्यानं पञ्चविधंस्मृतम् ॥ ऽ बलवत्तया पार्ष्णिग्राहादिभिर्विगृह्यान्यत्र शत्रौ यानं विगृह्यानम्, तैः संधायान्यत्र यानं संधाययानम्, सामन्तैः सह यानं संभूययानम्, अन्योद्देशेन यात्राप्रसङ्गमुत्पाद्यान्यं प्रति यानं प्रसङ्गयानम्, बलवत्तया शत्रुमुपेक्ष्य तस्य मित्रेषु यानमुपेक्ष्ययानम्, दण्डविधानं दण्डः सेना तद्विधानं व्यूहरचनाभेदः । ऽदण्डोधर्मे मानभेदे लकुटे मदसैन्ययोःऽ । ऽद्वियोनी संधिविग्रहौऽ इति । संधिविग्रहयानेत्यादिषह्गणानां मध्ये संधिविग्रहौ द्वयोर्योनी । तत्र द्वैधीभावसमाश्रयौ संधियोनिकौ

यानासने विग्रहयोनिके इति भेदः । तत्र द्वैधीभावो नाम–ऽबलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितम् ॥ ऽ इति । अरिभिः पीड्यमानस्य बलवदाश्रयणं समाश्रयः । काल प्रतीक्षया तूष्णीमवस्थानमासनम् ॥

२।१००।७० ॥

यथोद्दिष्टं नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्येत्यर्थः । ऽयथोद्दिष्टैःऽ इति पाठे मन्त्रिलक्षणलक्षितैरित्यर्थः । व्यस्तैरेकैकशः । एवं हि तत्तन्मनःपरिज्ञानं भवति । त्रिभिश्चतुर्भिरित्यनेन बहुभिर्नैकेनेति सूचितम् ॥ २।१००।७१ ॥

वेदाः सफलास्तद्विहितकर्मप्रवत्त्या । क्रिया राजकार्याणि तत्तदुद्देश्यफलयुक्तानि । यद्वा क्रियाः संपादितधनादीनि क्रियास्तेषां सफलत्वं च दानभोगाभ्याम् । दाराणां सफलत्वं धर्मरतिप्रजाभिः । श्रुतसाफल्यं विनीतत्वम् ॥ २।१००।७२ ॥

उक्ता एषा बुद्धिर्यथा मम तथैव तवापि वर्तते कच्चित् । ऽकच्चिदष्वेवऽ इति पाठान्तरम् ॥ २।१००।७३ ॥

सत्पथगा शिष्टानुष्ठानमार्गगा ॥ २।१००।७४ ॥

स्वादुकृतं स्वादुतया कृतं सिद्धम् । आशंसमानेभ्यः स्नेहवृद्ध्यपेक्षयेच्छद्भ्यः मित्रेभ्यः स्निग्धेभ्यः ॥ २।१००।७५ ॥

महीपती राजा क्षत्रियः इतश्च्युत एवद्देहलोकाभ्याम् ॥ २।१००।७६ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽशततमः सर्गः ॥ २।१०० ॥