निविष्टायामिति । शत्रुघ्नमिति प्रतियोगे द्वितीया । शत्रुघ्नस्य रामाश्रमप्रत्यासत्तिचिह्नादि दर्शयन्नित्यर्थः ॥ २।९९।१ ॥
आनयेति संदिश्य स्वयं त्वरितः सन्नग्रे जगाम न तु मातृः प्रतिक्ष्य स्थित इत्यर्थः ॥ २।९९।२ ॥
रामदर्शनजस्तर्षो रामदर्शनमुद्दिश्य जनितो ऽभिलाषः । स भरतवत्तस्य च शत्रुघ्नस्य सुमन्त्रस्य च । अतः शत्रुघ्नं भरतमनुधावन्तमदूरात्तत्समीपं यथा भवति तथान्वपद्यतान्वधावत् ॥ २।९९।३ ॥
तापसानामालयैः सह संस्थिताम्, यद्वा तापसालयसमानसंस्थानां पर्णकुटीं पर्णप्राधान्येन निर्मितां कुटीं शालाम् । इयं दर्शनार्थमागततपख्यादिसंव्यवहारप्रयोजना उटजबहिःस्था, उटजं सभित्तिकवाटं दारुबद्धं गृहं सीतानिवेशार्थं कृतम् ॥ २।९९।४ ॥
तस्याः शालायाः पर्णकुटीसंज्ञायाः । अवभग्नानि होमार्थमपचितानि बल्यर्थं संपादितानि ॥ २।९९।५ ॥
एयुषः आङ्पूर्वादिणः क्वसुः । कुशैर्वल्कलैश्च मार्गपरिज्ञानार्थं कृतमभिज्ञानं चिह्नं ददर्श ॥ २।९९।६ ॥
शीतकारणाच्छीतनिवृत्तिकारणात्तद्रूपप्रयोजनार्थं मृगादीनां करीषैः कृतान्संचयान्ददर्श । चैत्रशुक्लदशम्यां प्रस्थानेन तत्र काले वैशाखान्तमपरात्रे शीतस्य जायमानत्वात् ॥ २।९९।७ ॥
एवमेतान्पदार्थान्पश्यन्गच्छन्नेव शत्रुघ्नप्रव्रवीत् ॥ २।९९।८ ॥
मन्दाकिनीमित इति । आश्रम इति शेषः ॥ २।९९।९ ॥
यत उच्चैर्बद्धानि चीराणि तस्माद्विकाले मार्गस्य स्पष्टदर्शनायोग्ये काले जलाहणाद्यर्थं गन्तुमिच्छता लक्ष्मणेनाभिज्ञानकृतः कृताभिज्ञान आश्रमपन्था अयमेव भवेत् ॥ २।९९।१० ॥
अभिज्ञानकरणकारणं वनमार्गं दर्शयतिइतश्चेति । ऽइदं चऽ इति पाठान्तरम् । अदात्तदन्ताना महादन्तानाम् । परिक्रान्तं परिक्रमणं स्यात्
गमनमार्ग इति यावत् । तत्र गमननिर्वृत्यर्थं चेदमभिज्ञानकारणमिति भावः ॥ २।९९।११ ॥
तापसा वने यमाधातुं सायंप्रातर्होमार्थमिच्छन्ति तस्यायं दृस्यते धूमः ॥ २।९९।१२,१३ ॥
स राघवो भरतो मन्दाकिनीमनु चित्रकूटं प्राप्त इत्यन्वयः । तं जनममात्यादिजनम् ॥ २।९९।१४ ॥
वीरासने योगिनामासने ॥ २।९९।१५,१६ ॥
इति लोकेन समाक्रुष्टो निन्दितो यस्मादतो मे जन्म धिक् । सो ऽहमेतदपयशःपिरहाराय रामं प्रसादयन्रामाप्रसादहेतवे तस्य रामस्य पादेषु पूजायां बहुवचनम् सीताया लक्ष्मणस्य च पादयोः पतिष्यामि । स्वापराधप्रसादनाय कनीयःस्वपि प्रणामो लोकप्रसिद्ध इति कतकः । अन्यस्तु श्रद्धाजाड्यात् ऽसीतायाश्च पुनः पुनःऽ इति पाठं कल्पयति ॥ २।९९।१७,१८ ॥
साला वटपलाशादिदृढविशालपर्णवन्तो वृक्षाः । अश्वकर्णो वृक्षविशेषः ॥ २।९९।१९ ॥
भारसाधनैरतिगुरुकार्यसाधनैः । ऽसारो बले स्थिरांशे चऽ ॥ २।९९।२० ॥
भोगवती नागलोकः ॥ २।९९।२१ ॥
महारजतवासोभ्यां स्वर्णमयकोशाभ्याम् । चर्म फलकम् ॥ २।९९।२२ ॥
काञ्चनभूषितैर्गोधाङ्गुलित्रैः उपलक्षितामिति शेषः । सिंहगुहामिव पर्णशालां ददर्शेत्यन्वयः ॥ २।९९।२३ ॥
प्रागुदक्प्रवणामीशानभागे निम्नाम् ॥ २।९९।२४ ॥
निरीक्ष्येति । अग्निमिति शेषः । गुरुं रामं ददर्श । कृष्णाजिनेत्याद्युच्यमानविशेषणं रामम् ॥ २।९९।२५ ॥
अभितः समीपे ददर्श ॥ २।९९।२६,२७ ॥
शाश्वतं ब्रह्माणं हिरण्यगर्भम् ॥ २।९९।२८ ॥
अभ्यधावत धावन्निव त्वरया जगाम । अत्र भरतस्येव कवेरपि वर्णनीयमयीभावेनातिहर्षाविष्टत्वादत्र प्रकरणे द्विरुक्तिर्न दोषाय ॥ २।९९।२९ ॥
दृष्ट्वैव दर्शनमात्रेणैवार्तः खिन्नः सन् तां चातिं धैर्याद्वारयितुप्रशक्नुवन् अत एव बाष्पसंदिग्धवर्णया गिरा वागिन्द्रियेण वचनमब्रुवन्नव्यक्तं वदन्विललाप ॥ २।९९।३० ॥
विलापप्रकारमाह–यः संसदीति ॥ २।९९।३१ ॥
बहुसहस्रद्रव्यमूल्यैर्वासोभिरलंकर्तुं यः पुरे उचितः स मृगाजिने ऽन्तरीतयोत्तरीयरूपे मृगचर्मणी प्रवस्ते धर्मं पितृवचनपरिपालनरूपम् ॥ २।९९।३२,३३ ॥
यथादिष्टैर्यथाविहितैऋ़त्विक्क्लेशसाध्यैर्यस्य धर्मसंचयो युक्तः स स्वशरीरक्लेशेन संभूतमुत्पन्नं धर्मं मार्गतो ॥ २।९९।३४ ॥
मलेन दण्डवत्रिषवणाप्लवमात्रान्मलस्तितरङ्गे ॥ २।९९।३५,३६ ॥
पादावप्राप्येति दुःखातिशयवशात् ॥ २।९९।३७ ॥
तत एव पुनर्नोवाच ॥ २।९९।३८ ॥
ततो बाष्पावरुद्धकण्ठत्वात् ॥ २।९९।३९,४० ॥
राजसुतौ रामलक्ष्मणौ ॥ २।९९।४१ ॥
अश्रूण्यमुञ्चन्प्रविहाय हर्षम् । पूर्वं तद्दर्शनजसंतोषः, पश्चात्तद्दुःखदर्सनजदुःखादश्रुपाताश्च ॥ २।९९।४२ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे नवनवतितमः सर्गः ॥ २।९९ ॥