पादवतां चरप्राणिनां वरः श्रेष्ठो विभुर्भरतः गुरुवर्तकं गुरुशुश्रूषापरम् ॥ २।९८।१ ॥
यथोद्देशममुकस्यामुकदिशि वास इति स्वाम्युपदिष्टप्रदेशमनतिक्रम्य निविष्टे सैन्ये इत्यर्थः । विनीतवद्विनीतार्हे ॥ २।९८।२ ॥
लुब्धा निषादाः । एभिरासन्नैर्गुहभृत्यैः ॥ २।९८।३ ॥
ज्ञातिसहस्रेण परिवृत इत्यन्वयः ॥ २।९८।४ ॥
चरिष्यामि अहमन्वेषयन्निति शेष । पौरेः सह वर्तमानैरमात्यैर्द्विजातिभिः सह वर्तमानैर्गुरुभिश्च परिवृतः ॥ २।९८।५,६ ॥
शुभाननमिति कर्मधारयः । शान्तिर्दुःखशान्तिः ॥ २।९८।७ ॥
चन्द्रविमलोपमं विमलचन्द्रसदृशम् ॥ २।९८।८ ॥
पार्थिवव्यञ्जनं रेखाध्वजकुलिसातपत्रादि । तावन्मे न शान्तिरित्यन्वयः ॥ २।९८।९११ ॥
गिरिराजसमो हिमवत्सदृशः ॥ २।९८।१२ ॥
कृतकार्यं कृतार्थम् स्थावरत्वमोचकरामपादरजोव्याप्ततयेति भावः । दुर्गं दुष्प्रवेशम् । व्यालाः सर्पाः ॥ २।९८।१३,१४ ॥
मध्येनेत्येनबन्तमु तद्योगे तानीति द्वितीया । द्रुमजालानां मध्ये इत्यर्थः ॥ २।९८।१५ ॥
अग्नेर्ध्वजं धूमम् । ऽरामाश्रमगतस्यान्तेऽ इति पाठे तदाश्रमगतस्य सालस्यान्ते उपरि बद्धसुछ्रितं ध्वजं कोविदारध्वजं दृष्ट्वेत्यर्थः । धूमदर्शनस्य पूर्वमेव जातस्तेवन तस्यानिर्णायकत्वादिति कतकः ॥ २।९८।१६ ॥
तं ध्वजम् ॥ २।९८।१७ ॥
पुण्यजनास्तषस्विनः । पुनर्निवेश्यन्वेषणनियोजितामपि चमूं स्थापयित्वा । गुहेनेति प्रधानजनोपलक्षणम् ॥ २।९८।१८ ॥
इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे ऽष्टनवतितमः सर्गः ॥ २।९८ ॥