०९७ रामेण लक्ष्मणपरिसान्त्वनम्

अथ तत्क्रोधमपनयति भगवान्सर्वभूतभावज्ञस्तदागमनप्रयोजनकथनेनसुसंरब्धमिति । भरतं प्रति मुसंरब्धमत्यन्तयुद्धोद्योगवन्तम् ॥ २।९७।१ ॥

अत्र भरतविषये ॥ २।९७।२ ॥

पितुः सत्यं पालयिष्यामीति प्रतिज्ञाय सापवादेन पित्रा भरताय दत्तं रामो ऽपहतवानित्येवंरूपापवादसहितेन ॥ २।९७।३ ॥

क्षये नाशे कृत इति शेषः ॥ २।९७।४ ॥

एतदुक्तार्थजातमुद्दिश्य प्रतिशृणोमि प्रतिजाने ॥ २।९७।५ ॥

तमेवार्थं शपथेन द्रढयतिभ्रातृणामिति । संग्रहार्थं सम्यक्पालनार्थम् अत एव तेषां सुखार्थं च ॥ २।९७।६ ॥

दुर्लभेति नापि तु मुलभैव, किं तु तां नेच्छामि । शक्रत्वमपि नेच्छेयम्, इमां महीमेव नेच्छामीति नेत्यर्थः ॥ २।९७।७,८ ॥

मन्ये ऽहमिति । द्रष्टुमभ्यागत इति मन्ये इत्यन्वयः । आगतः मातुलगृहादिति शेषः । कुलधर्मं ज्येष्ठस्य राज्यमित्येवंरूपम् ॥ २।९७।९११ ॥

रुष्य तद्विषयरोषं कृत्वेत्यर्थः । प्रसाद्य त्वद्दत्तं राज्यं मया प्राप्तम्, तन्मया रामाय दीयते, अतो न ते सत्यभ्रंशदोष इति तदनुमन्यस्वेति प्रसाद्य ॥ २।९७।१२ ॥

यथैष भरतस्तथा एतत्कर्तृकमस्मद्दर्शनयोग्यत्वं प्राप्तकालमुचितम् ॥ २।९७।१३ ॥

कृतपूर्वं यदद्य भरतं शङ्कसे ईदृशं वा भयं भयजनकं वाक्यं कृतपूर्वमुक्तपूर्वं वा यदद्य भरतं शङ्कसे इत्यन्वयः ॥ २।९७।१४ ॥

अतस्ते त्वया भरतो ऽप्रियं निष्ठुरं न वाच्यः, यतो भरतस्याप्रिये अप्रियवचने कृते उक्ते अहमप्यप्रियमुक्तः स्यां त्वया ॥ २।९७।१५ ॥

आत्मनः प्राणं प्राणसमं भ्रातरमित्यन्वयः ॥ २।९७।१६ ॥

इमां वाचं भरतवधविषयां प्रदीयतामिति वक्ष्यामीत्यन्वयः ॥ २।९७।१७ ॥

ननु त्वदुक्ते ऽपि स न दद्यात्तत्राह–उच्यमान इति । प्रयच्छेत्युच्मान इत्यर्थः, राज्यलिप्सा चेत्तदेव दापयिष्यामि, किं भ्रातृवधेनेत्याशयः ॥ २।९७।१८ ॥

लज्जया गात्राणि प्रविवेशेव अत्यन्तसंकुचितो ऽभूदित्यर्थः । तस्य रामस्य हिते रतः ॥ २।९७।१९ ॥

एवमनुचितोक्तिलज्जापरिहारायोचितं वाक्यमाहतदिति । भरतप्रसङ्गस्तु त्वदाशयपरिज्ञानायैव केवलमुपन्यस्त इत्याशयः ॥ २।९७।२० ॥

एवं पितृप्रसङ्गो लक्ष्मणस्य व्रीडापरिहारमूल इति ज्ञात्वा तदेवानुकुर्वन्नाहव्रीडितमिति । एष लक्ष्मणप्रस्तावितः पिता ॥ २।९७।२१ ॥

नौ मुखोचितौ मन्यमानः वनवासमनुध्याय कष्टं विचिन्त्य ॥ २।९७।२२ ॥

इमां सीताम् ॥ २।९७।२३ ॥

गोत्रवन्तौ प्रशस्तनामानौ प्रशस्तकुलौ वा । ऽगात्रवन्तौऽइति पाठे प्रशस्तशरीरौ जवनौ वेगवन्तौ ॥ २।९७।२४ ॥

पितुरागमने चिह्नान्तरमाहस एष इति । कम्पते चलत्यागच्छति । अयं शत्रुजयो रामेण सुयज्ञाय दत्तादन्य एव अत एव तातस्य शत्रुंजय इत्यक्तम् ॥ २।९७।२५ ॥

इह छत्रविषये ॥ २।९७।२६ ॥

इतीवेत्येव सौमित्रिं वृक्षाग्रस्थितम् । अथ वऋक्षावरोहणमाज्ञापयतिवृक्षाग्रादिति । मद्वचः कुरु शङ्कां विहाय मद्वचसा सालावरोहणं कुर्वित्यर्थः ॥ २।९७।२७ ॥

अवतीर्येति । रामाज्ञयेत्यादिः ॥ २।९७।२८ ॥

रामाश्रमस्य संमर्दो न भवेदिति संदिष्टा आज्ञप्ता सेना शैलस्य समन्ताद्दूरभागे वासमकल्पयत् ॥ २।९७।२९ ॥

अध्यर्ध सार्धयोजनम् ॥ २।९७।३० ॥

धर्मं पुरस्कृत्य दर्पं विधूय प्रणीता शिक्षिता सेना ॥ २।९७।३१ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे सप्तनवतितमः सर्गः ॥ २।९७ ॥